ओलम्पिक्-क्रीडोत्सवः

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
Olympic flag.svg

एषः अङ्कः यावत् मुद्रणालयं गच्छेत् तावता बीजिङ्गीयौलिम्पिक् क्रीडोत्सवस्य आरम्भाय सप्ताहमात्रम् अवशिष्टं भवेत् । चीनादेशस्य् राजधानीं प्रति प्रस्थिते भारतीये गणे विद्यन्ते ५७ क्रीडापटवः । अनेन गणे/न योग्यतानुगुणानि पदकानि प्राप्यन्ताम् इति अपेक्षते भारतीयजनता । क्रीडापटुषु मुहुर्मुहुः ये अग्रेसतत्वं प्रदर्शयेयुः तेषु अन्यतमाः सन्ति डोलाबेनर्जिः (धनुर्विद्या), अञ्जुबाअबिजार्ज (दीर्घ्कूर्दनम्), सुरेन्दरसिङ्गः (१०,००मी.),मञ्जित्कौर(४०० मी.), सैनानेहवाल (ब्याड्मिण्टन्)खुमुजम्तोम्बिदेवई (जूडो), राज्यवर्धन सिङ्गरायोरे, गगननारङ्ग, अञ्जलिभगवत् (अयोगोलप्रक्षेपः) वीरदावालखडे (तरणम्),लियाण्डरपेस्, महेशभूपतिः, सानियमर्झा (टेन्निस्), मोनिकादेवई (मल्लयुद्धम्) च ।

गतेषु शते वर्षेषु प्रवृत्तेषु क्रीडोत्सवेषु भारतीयस्य गणस्य निर्वहणविषये सिंहावलिकनं भवेत आसक्तिकरम्, । एदम्प्राथम्येन १९२० तमे वर्षे (एण्टवर्प-ओलोम्पिक्) भारते द्वौ क्रीडापडू प्रेषितौ । तदग्रिमं प्र्रिसक्रीडोत्सवं प्रति अष्टौ क्रीडापटवः प्रेषिताः । भारतीयक्रीडापटुना इतोऽपि पूर्वम् एव क्रीडोत्सवे प्रविष्टम् इति वक्तुं शक्नुमः । यतः १९०० तमे वर्षे प्रवृत्ते प्रेरिसक्रीडोत्सवे इङ्गलेण्डदेशस्य पैनिधित्वेन भागं वहन् २०० मी.धाअने २०० मी. सावरोधधावने च रजतपदकद्वयं पाप्तवान् नारमनपिचर्डः भारतीयमूलः ।

१९२८ तमे वर्षे समायोजितायां हाकिक्रीडायां भारतीयगणेन सुवर्णपदकं प्राप्तम् । तदा हाकिगणस्य नायकः आसीत् श्री जयपालसिङ्गः । अग्रिमेषु पञ्चसु अपि क्रीडोत्सवेषु हाकिक्रीडायां सुवर्णपदकं प्राप्नुवता भारतेन स्वस्य आधिपत्यं रक्षितम् आसीत् । १९३२, १९३६, १९४८(१९४०, १९४४ वर्षयोः जागतिकयुद्धकारणतः क्रीडोत्सवः न प्रवृत्तः) वर्षेषु भारतीयगणस्य विजयप्राप्तौ महत्तमं पात्रम् अवहत् 'हाकिमान्त्रिकः’ श्री ध्यानचन्द्रः१९६४ (टोकियो) १९८० (मास्को) वर्षयोः अपि भारतेन रजतपदकं प्राप्तम् । रोमनगरे प्रवृत्ते क्रीडोत्सवे (१९६६) भारतेन रजतपदकं प्राप्तम् । किन्तु मेक्सिकीये (१९६८)म्युनिकीये (१९७२) च क्रीडोत्सवे तु ताम्रपदकप्राप्त्या एव तृप्तिः प्राप्तव्या अभवत् । अथेन्सक्रीडोत्सवे (२००४) भारतीयहाकिगणेन सप्तमं स्थानं प्राप्तम् । अस्मिन् (२००८) क्रीडोत्सवे भारीयगणेन प्रवेशर्हत अपि न प्राप्ता !!

समारोपसमारम्भः २००८ ओलम्पिक् क्रीडायाः

हाकिक्षेत्रे इव अङ्गसाधने रजतपदकद्वयं, मल्लयुद्धे, अयोगोकप्रक्षेपे, भारोन्नयने, देन्निसकीडायां च एकैकं पाम्रपदकं च प्राप्तम् अस्ति भारतेन । विजेतारः - दादासाहेबजाधवः डा.कर्णिसिङ्ग, कर्णमल्लेश्वरी, टेन्निसयुगलं लियाण्डरपेस् महेशभूपतिश्च । १९८४ तमे वर्षे लासेञ्चलिस्क्रीडोत्सवे ४०० मी. सावरोधधावनस्पर्धायां क्षणशतांशस्य विलिम्बस्य कारणतः पि.टि.उषा ताम्रपदकप्राप्तितः वञ्चिता जाता । प्रशस्तसामर्थ्यं दर्शितवत्सु क्रीडापटुषु अन्यतमाः सन्ति- हेन्रिरेबेलो (त्रीगुणलङ्घनम्, लण्डन्, १९४८) लिल्कासिङ्घः (४०० मी.रोम्, १९६०), गुर्बचन् सिङ्गरन्ध्वा (२०० मी.सावरोध-धावनम्, टोकियो, १९६४), श्रीरामसिङ्गः (८०० मी. माण्ट्रियल्, १९७६)च । पि.टि.उषा, एम्.डि. वल्सम्मा, वन्दनाराव् शिनि-अब्राहम् इत्येताभिः यक्तेन महिलागणेन ४०० मीटरीयायाम् अखण्डधावनस्पर्धायां लासेञ्जलीस्क्रीडोत्सवे (१९८४) सप्तमं स्थनं प्रप्तम् आसीत् । एतत् भार्तीयौलिम्प्कक्रीडापतूनां सिद्धेः किञ्चिन द्दश्यम् ।

External links[सम्पादयतु]

फलकम्:Olympic Games फलकम्:International multi-sport events फलकम्:Team Sport

"http://sa.wikipedia.org/w/index.php?title=ओलम्पिक्-क्रीडोत्सवः&oldid=262454" इत्यस्माद् पुनः प्राप्तिः