कञ्चनजङ्घा
| कञ्चनजङ्घा | |
|---|---|
|
| |
| उत्तुङ्गता |
८५८६ m (२८,१६९ ft)[१] तृतीय |
| Prominence |
३९२२ m (१२,८६७ ft)[२] २९औँ |
| Listing | |
| स्थानम् | |
| कञ्चनजङ्घस्य अवस्थिति | |
| स्थानम् |
कोशी प्रदेश, नेपाल; सिक्किम, भारत[२] |
| श्रेणी | हिमालय |
| Coordinates | २७°४२′०९″ उत्तरदिक् ८८°०८′४८″ पूर्वदिक् / 27.70250°उत्तरदिक् 88.14667°पूर्वदिक्निर्देशाङ्कः : २७°४२′०९″ उत्तरदिक् ८८°०८′४८″ पूर्वदिक् / 27.70250°उत्तरदिक् 88.14667°पूर्वदिक्[२] |
| आरोहणम् | |
| प्रथमारोहणम् |
सन् १९५५ बेलायती कञ्चनजङ्घा अभियान अन्तर्गत २५ मे १९५५, जो ब्राउन र जर्ज ब्यान्ड (प्रथम शितकालिन आरोहरण ११ जनवरी १९८६ मा, जर्जी कुकुज्का र क्राजिस्टफ वाइलिकिद्वारा) |
| सुलभतमः मार्गः | हिमनदी/हिममार्ग |

कञ्चनजङ्घा शिखरम् विश्वस्य उन्नतेषु शिखरेषु तृतीयस्थाने वर्तते।[उद्धरणं वाञ्छितम्] नेपाळदेशस्य कोशी प्रदेश एवं भारतस्य सिक्किम राज्यस्य च मध्ये अयं शिखरः अस्ति। समुद्राद् ८५८६ मीटर्(२८,१६९ फीट्) परिमितं उपरि कञ्चनजङ्घाशिखरः स्थितः। एतस्य पश्चिमे तमोर नदी उत्तरे च लोनाक चु नदी प्रवहति। कञ्चनजङ्घा इति पदस्यार्थः हिमस्य पञ्च धनागाराः इति। कञ्चनजङ्घापर्वतं लिम्बुभाषया सेवालुङ्ग्म इति कथयन्ति। तस्यार्थः भवति हिमालयं नमामः इति। किराँत जनाः कञ्चनजङ्घा शिखरम् अत्यन्तं पवित्रं मन्वते ।

व्युत्पत्तिः
[सम्पादयतु]कञ्चनजङ्घा पञ्चसु शृङ्गेषु त्रयः भारतस्य सिक्किम राज्ये, द्वौ च नेपाळस्य कोशी प्रदेशान्तरगत ताप्लेजुङ मण्डलम् वर्तन्ते। नेपाळे कञ्चनजङ्घाशिखरस्य रक्षणार्थं बह्व्यः योजनाः विद्यन्ते। कञ्चनजङ्घापरिसरे अभयारण्यमपि वर्तते, यत्र यत्र रक्तवर्णीयाः पण्डकाः आधिक्येन निवसन्ति। अभयारण्यस्य नाम कञ्चनजङ्घा राष्ट्रिय निकुञ्ज इति। कञ्चनजङ्घस्य काञ्चनड्जोङ्गा, कञ्चनजङ्गा, काञ्चनफङ्गा इत्यादीनि बहूनि नामान्तराणि आसन्। लेफ्टिनेण्ट् कर्नल् जे.एल्.आर्.वैरेण कञ्चनजङ्घा इति नाम्नः प्रतिष्ठापनमकरोत्।
प्रामुख्यम्
[सम्पादयतु]क्रि.श १८५२ पर्यन्तं कञ्चनजङ्घाम् एव विश्वस्य उन्नततमं शिखरं मन्वते स्म। परं १८४९ तमे वर्षे आरब्धस्य सर्वेक्षणस्य आधारेण कञ्चनजङ्घा विश्वस्य तृतीयः उन्नतः शिखरः इति उद्घोषितः। १९५५ तमे वर्षे प्रथमवारं कञ्चनजङ्घा पर्वतस्य आरोहणम् इङ्ग्लेण्ड् देशीयैः जो ब्रौन् एवं जार्ज् ब्याण्ड् इत्याभ्यां कृतम्। डार्जलिङ् तः कञ्चनजङ्घाशिखरं प्रवासिनः पश्यन्ति। कञ्चनजङ्घा शिखरपरिसरे एव जन्नु, कब्रु, राथोङ्ग् पर्वतशिखरानपि द्रष्टुं शक्नुमः। यदा वातावरणं प्रशान्तं मेघतुषाररहितं च भवति तदा डार्जलिङ्ग्तः दृश्यमानः पर्वतः आकाशलम्बितभित्तिः इव भासते। सिक्किं जनाः कञ्चनजङ्घा पर्वतं भयानकं मन्यन्ते। भारतभूभागाद् पर्वतारोहणार्थं सर्वेभ्यः अनुमतिः न दीयते।
आरोहणस्य इतिहासः
[सम्पादयतु]- जोसेफ् डाल्टर् इत्याख्यः प्राथम्येन कञ्चनजङ्घा प्रदेशं युरोप् जनेभ्यः १८४८ तमे वर्षे परिचायितवान्।
- १८५५ तमे वर्षे जर्मनीदेशस्य हेर्मन् वान् श्लागैण्ट् वेटः भारतसर्वेक्षणार्थं नियुक्तः कञ्चनजङ्घाशिखरसमीपं गन्तुम् इष्टवान् परन्तु नेपाळसैन्येन अवरोधः कृतः।[३]
- १८८२ तमे वर्षे हिमालयपर्वतारोही इङ्ग्लेण्ड् देशीयः डब्ल्यु डब्ल्यु ग्राहमः भूप्रदक्षिणावसरे केचन पर्वतं आरोहन्तः, आखेटनिरताश्च जनाः दृष्टाः इत्यवोचत्।
- १८९९ तमे वर्षे डागल्स् फ्रेश्फील्डः पर्वतारोहणं आरब्धवान्। सः कञ्चनजङ्घस्य पश्चिममुखम् अपश्यत्।
- १९०५ तमे वर्षे अलिस्टर् क्रूलिः एवं डा.जूल्स् ज्याकोट् गिल्लार्मोड्रः एदं प्रथम्येन आरोहणं कृतवान्तौ। एतौ ६५०० फीट् उपरि आरोहणं कृतवन्तौ। परन्तु शिखरं प्राप्तुं ते असमर्थाः। हिमपातेन द्वौ कर्मकरौ मृतौ। एतेन खिन्नः क्रूलिः पर्वतारोहणं स्थगितवान्।[४]
- १९२९ तमे वर्षे बाल् पाई आरोहणणमारभ्य झञ्झावातकारणतः प्रत्यागतवान्।
- १९३० तमे वर्षे इण्टर्नाशनल् एक्पीडिशन् इति नाम्ना उलि विल्याण्ड्, इर्विन् स्पैडर्, फ्राङ्क् स्मित् इत्यादिभिः आरब्धम् आरोहणं हिमपातेन स्थगितम्। १९३१ तमे वर्षेऽपि यात्रामारभ्य हिमपातादिकारणैः स्थगनम् कृतम्।
- १९५४ तमे वर्षे कञ्चनजङ्घस्य दक्षिणपार्श्वतः जान् केम्पे, जे. डब्ल्यु टक्कर्, रोन् ज्याक्सन्, ट्रेवर् ब्राहम्, जे. सि लविस्, डा. डि. एस् म्याथिव् इत्येते आरूढवन्तः इदमारोहणं यशस्वि सञ्जातम्। एतेन मार्गेण १९५५ तमे वर्षे मे २५ तमे दिनाङ्के प्राथम्येन जार्ज् ब्याण्ड् तथा जो ब्रौनेन आरोहणं विहितम्।
- १९९२ तमे वर्षे कालोस् कार्सेलियो पूरक-आम्लजनकसाहाय्यं विना पर्वतारोहणम् अकरोत्।[५]
- १९९८ तमे वर्षे जिनट्टे ह्यारिसन् शिखरम् आरूढवती। एषा शिखरारोहणं कृतवतीषु महिलासु आद्या।
प्रथाः
[सम्पादयतु]कञ्चनजङ्घा पर्वते कञ्चनजङ्घा इति राक्षसः वसति स्म इति जनाः मन्यन्ते। १९२५ तमे वर्षे आरोहणावसरे द्विपादीयप्राणिविशेषस्य अवशेषः दृष्टः। एषः एव कञ्चनजङ्घाराक्षसः इति स्थानीयाः विश्वसन्ति।
ग्रन्थेषु उल्लेखः
[सम्पादयतु]•रन् सोमे इत्यनेन लिखिते अमेझान् पर्वतविषयके पुस्तके क्वचित् एकस्मिन् अध्याये कञ्चनजङ्घापर्वतशिखरः वर्णितः। •१९२६ तमे वर्षे प्रकाशिते सर् फ्रान्सिस् यङ्स्टण्ट् इत्यनेन रचिते मौण्ट् एवरेस्ट् इति पुस्तके, डार्जलिङ् नगरस्य शोभायै कञ्चनजङ्घा एव कारणम् इति वर्णितम् अस्ति। •१९९९ तमे वर्षे रय्मण्ड् बेन्सस् है जेम्स् बाण्ड् सरण्यां हैम् टु किल् इति कथां प्राकाशयत्। तत्र जेम्स्बाण्ड् कञ्चनजङ्घा पर्वतम् आरोहति इति कथा ग्रथिता। •२००६ तमे वर्षे प्रकाशितायां, किरणदेसाई इत्यस्याः बूकर् पुरस्कृतकृतौ, दि इन्हेरिटेन्स् आफ् लास् इत्यस्यां कञ्चनजङ्घायाः गिरिधाम्नः कलिंफोम् इति स्थलस्य निर्देशः वर्तते।





उल्लेखाः
[सम्पादयतु]- ↑ उद्धरणे दोषः : अमान्या
<ref>शृङ्खला; "Carter1985" इत्यस्य आधारः अज्ञातः - 1 2 3 उद्धरणे दोषः : अमान्या
<ref>शृङ्खला; "peaklist" इत्यस्य आधारः अज्ञातः - ↑ Into the Untravelled Himalaya. New Delhi: Indus Publishing. 2005. ISBN 8-1738-7181-7.
|coauthors=requires|author=(help) - ↑ अलेस्टर् क्रूलिः
- ↑ http://www.adventurestats.com/tables/kangchenjunga.shtml
बाह्यसम्पर्काः
[सम्पादयतु]| विकिमीडिया कॉमन्स् मध्ये Kangchenjunga सम्बन्धिताः सञ्चिकाः सन्ति। |
जोसेफ् हूकरस्य लेखाः Archived २००६-१२-३० at the Wayback Machine
अलेस्टर् क्रौलेलेखाः कञ्चनजङ्घायाः इतिहासः. कञ्चनजङ्घायाः उन्नते शिखरे Archived २००९-०२-२० at the Wayback Machine सिक्किम प्रदेशतः आरोहणस्य मापचित्रम्
नेपाळतः आरोहणस्य मापचित्रम् दि हिन्दु पत्रिकालेखः Archived २००५-०३-०६ at the Wayback Machine
दि अल्फेन्स् क्लब् कञ्चनजङ्घा Archived २०१२-०७-१४ at the Wayback Machine