कर्णसुन्दरी

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search
कर्णसुन्दरी  
श्रेणी:पुस्तकानि यस्य मुखपृष्ठं नास्ति
लेखकः बिल्हणः
देशः भारतम्
भाषा संस्कृतम्

कर्णसुन्दरीनाटिकया, विक्रमाङ्कदेवचरितमहाकाव्येन च प्रख्यातो बिल्हणः । सुधीषु काव्यप्रतिभानेन समग्रमपि भारतं वर्षं समुद्भासयन्नसौ १०३० ख्रीष्टतः ११०० पर्यन्तं व्यराजत । वितस्ता-परिसरेऽस्य मातृभूमिः “खुनमुह” इतिनामा श्रीनगराद् गव्यूतिप्राय-दूरे हर्षीश्वरतीर्थसविधे विद्यते। तत्र क्षेत्रेषु कुङ्कमकेसराणां सौरभेण सुवासिता आसन् भूमागाः इति बिल्हणः स्तौति -

सहोदराः कुङ्कुम-केसराणां भवन्ति नूनं कविताविलासाः।

न शारदा-देशमपास्य दृष्टस्तेषां यदन्यत्र मया प्ररोहः।।

असावात्मानमपि श्लाघते -

यन्मूलं करुणानिधिः स भगवान् वल्मीकजन्मा मुनि-

र्यस्यैके कवयः पराशर-सुतप्रायाः प्रतिष्ठां दधुः।

सद्यो यः पथि कालिदासवचसां श्रीबिल्हणः सोऽधुना

निर्व्याजं फलितः सहैव कुसुमोत्तसेन कल्पद्रुमः।।

शास्त्र-तत्त्वार्थ-विनिश्चय-विवाद-परायणमसावात्मानं वर्णयति -

यं तु ग्रन्थ-सहस्र-शाण-कषण-त्रुट्यत्कलङ्कैर्गिरा-

मुल्लेखैः कवयन्ति विल्हणकविस्तेष्वेव संन्नह्यति।

लब्ध्वा लक्ष्मीर्दिशि दिशि कृताः सम्पदः साधुभोग्याः

प्राप्ता योग्यैः सह कलहतः कुत्र नोच्चैर्जयश्रीः॥

गोष्ठीबन्धाः सपदि सुजनैः सार-निष्कर्ष-दक्ष-

प्रज्ञा-लब्धस्तुतिभिरचिरादस्तु काश्मीरकैर्मे।।[१]

वृन्दावन-कान्यकुब्ज-प्रयाग-काशीक्षेत्रेषु पर्यटन्नसौ सेतुबन्धं सोमनाथं दृष्ट्वात्मानं सनाथयन् राज्ञो काव्यामृतं पाययन् गुर्जरेषु कर्णनृपतेः सभायां वसन् कर्णसुन्दरीं नाम नाटिकां व्यरचयत् प्रायेण १०७५ ई० वर्षे । तदैव कर्णः (१०६४-१०९४ ई०) गर्जनवंश्यान् राज्ञः सिन्धुतटे विजित्य-गजनकाधिराजपदवीं लभते स्म । अस्याः नाटिकायाः प्रथमोऽभिनयप्रयोगोऽणहिलपत्तने यात्रामहोत्सवावसरे प्रातः संपेदे । कर्णस्य राज्ञा महामात्येन संपत्करेणायं यात्रामहोत्सवः प्रवर्तितो बभूव।

कथावस्तु[सम्पादयतु]

बिल्हणेन स्वाश्रयदातुः कर्णस्यैव नायकत्वं प्रतिष्ठाप्येयं नाटिका रचिता। अत्र कर्णसुन्दरी नाम विद्याधरकन्या गायिकात्वेनोपनिबद्धा। नाट्यकृत् स्वमेव इतिवृत्तसारं वर्णयति -

विद्याधरेन्द्रतनयां नयनाभिरामां लावण्यविभ्रमगुणां परिणीय देवः।

चालुक्यपार्थिव-कुलार्णव-पूर्णचन्द्र: साम्राज्यमत्र भुवनत्रयगीतमेति।।[२]

उदयनस्य यौगन्धरायण इव कर्णस्य मन्त्री संत्पकरः कर्णेन लीलावने दृष्टां महिष्या सह राजकुले-वसन्तीं स्वर्गादिवतीर्णां कामपि ललनां कर्णसुन्दरीं नाम राजोपयच्छेदिति प्रायतत । लीलावने विदूषक-द्वितीयो राजा तस्यास्तिरश्चनैः कटाक्ष-सायकैरन्तराविद्ध इव विदूषकाय स्वप्नवृत्तं निवेदितवान् -

'मम विरह-क्लान्त-कलेवरा कापि अङ्गना मूर्च्छं मूर्च्छं पाशबन्धेन स्वजीवनान्तं चिकीर्षुः मयाश्वासिता । सम्प्रति जाग्रतो मयि क्व गतेति ।' स्वप्ने प्रलपन्तं राजानं विज्ञाय कोपना महिषी सुतरामकुप्यत । अथ विनोदाय मदनोद्यानं गतो राजा तस्या एव ललनाललामभूताया आलिखितां प्रतिकृतिं दृष्ट्वावदत् -

सैवोन्मज्जत्कनक-कलशप्रेक्षणीयस्तनुश्री-

मूर्तिर्लोकत्रय-विजयिनी राजधानी स्मरस्य।

एतच्चक्षुस्तदपि विदलत्केतकी-पत्र-मित्रम्

छाया सेयं नियतमधरे विद्रुमोत्सेक-मुद्रा॥[३]

अथ सहसा समागता राज्ञी स्वसंरक्षितां कर्णसुन्दरीं तत्रालिखितां राज्ञा दर्शं दर्शं प्रशस्तां च लक्षित्वा कुपिता सती ततो विनिर्गता। ततश्चरणपतनावधिर्मानो महिष्या निवारितः किन्तु राजा नाशन्कोत् कर्णसुन्दरीं मनसो विदूरयितुं नाशक्रोत्।

राजा मनोविनोदाय लीलावनं गतः केलीकमलिनी-कुञ्जे कर्णसुन्दरीममिलत्। सख्या सह लतागुल्मं गताया आलापान् श्रोतुं राजानुसृत्य तां पूर्वरागसंतप्त-मानसां मूर्छितां स्पृष्टवान्, विनिद्रनयनां च तत्सविधे समासीनो यावद् वार्ता-सुखं लभेत तावदेव कर्णसुन्दरीमन्विष्यन्ती महिषी समागता । तौ पलायितौ।

अथ राज्ञी राजानं वञ्चयितुं सचेष्टा बभूव । सा स्वयं कर्णसुन्दरीवेषा स्वसखीञ्च तत्सखीं वकुलावलीं कृत्वा तद्दत्तसङ्केतस्थले समागतं राजानं छद्माभिभूतमकरोत् । आलिङ्गनकाले महिषी स्वरूपेण प्रकाशं गता चरणपतितं तं विहाय निःसृता।

अथापरस्यां कपटनाटकरचनायां वञ्चिकैव वञ्चिता। कर्णसुन्दरर्याः स्थाने कपट-स्त्रियं स्वभागिनेयं विधाय सा विवाहमायोज्य राजानं वञ्चयितुमयतत । किन्तु अपरे परमार्थां कर्णसुन्दरीमेवानीय यथाविधि विवाहं रचितवन्तः । कपटनाटकस्य महिमा हिमान्यामिवानत्नकणो लुप्यति स्म क्षणेन।

कालः[सम्पादयतु]

रचनाकाल एव ख्यातं नायकं कर्ण गर्जन-नगरजेतारं निबध्नतीयं नाटिकेतिहासाध्येतॄणां कृते सविशेषमुपयुज्यते । यथा तत्रैव गीयते स्म -

त्रातारं जगतां विलोल-वलय-श्रेणी-कृतैकारवं

सोन्मादामर-सुन्दरी-भुजलता-संसक्त-कण्ठग्रहम्।

कृत्वा गर्जनकाधिराजमधुना त्वं भूरि-रत्नाङ्कुर-

च्छाया-विच्छुरिताम्बुराशि-रशना-दाम्नः पृथिव्याः पतिः।।[४]

समीक्षा[सम्पादयतु]

नाटिका-नियमान् विगणय्य बिल्हणः पद्यैः पुष्कलैः सहृदयान् रञ्जयन्निवात्र भूयोऽवतरति । अङ्केषु कार्यव्यापाराभावोऽपि पद्य-संवाद-परतामेवास्य पुरस्करोति । हर्षस्य रत्नावल्या राजशेखरस्य विद्धशालभञ्जिकायाः कपूरमञ्जयश्च भावच्छाया अप्यत्र सुलभा एव । पद्यानां गेयत्वं सर्वत्र श्रुतिरसायनतां दधाति -

यत् तारारमणोऽपि , निर्वृतिपदं नाल्याश्चलच्चक्षुषो

यद् गात्रं शतपत्र-पत्र-शयनेऽप्युत्फालमुद्वेल्लति।

शीतं यच्च कुचस्थलीमलयजं धूलीकदम्बायते

किं वान्यत् तदनङ्गमङ्गलमयी भङ्गी कुरङ्गीदृशः॥[५]

अनुप्रासयोजना विप्रलम्भमनुनृत्यन्तीव पुरोधावति । प्रत्यग्रता चार्थयोगस्य कामपिच्छायां बिभर्ति प्रत्यूषे विहग-कुल-कलरवस्येव । यथा -

धूर्तोऽयं सखि बध्यतामिति विघुं रश्मिव्रजैः कर्षति

ज्योत्स्नाम्भः परत: प्रयात्विति रिपुं राहुं मुहूर्याचते।

अप्याकाङ्क्षति सेवितुं सुवदना देवं पुरद्वेषिणं

भूयो निग्रह-वाञ्छया भगवतः शृङ्गारचूडामणैः॥[६]

वञ्चनावतीं महिषीं कर्णसुन्दरीं मत्वा राजा स्तौति -

जयति धनुरधिज्यं भ्रूविलासः स्मरस्य स्पृशति किमपि जैत्रं तैक्ष्ण्यमक्ष्णोः प्रचारः।

अपि च चिलुकचुम्बी श्यामलांग्यास्तनोति स्तनकलश-निवेशः पेशलश्रोः पृथुत्वम्।।[७]

सम्बद्धाः लेखाः[सम्पादयतु]

उद्धरणानि[सम्पादयतु]

  1. वि० १८.१०३
  2. १.१३
  3. १.५३
  4. ४.२२
  5. २.१
  6. ३.१६
  7. ३.३०
"https://sa.wikipedia.org/w/index.php?title=कर्णसुन्दरी&oldid=437052" इत्यस्माद् पुनः प्राप्तिः