कर्णाटकस्य दासपरम्परा

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

दासपरम्परा (Dasaparampara) कर्णाटकस्य सङ्गीतपरम्परासु अन्यतमा अस्ति । हरिदासाः अनुभाविनः । सर्वधर्माणाम् अनुभाविनः यथा सत्यं ज्ञातुं कष्टम् अनुभूय ज्ञानं प्राप्य इतरेषां कृते अपि दर्शयितुं प्रयत्नं कुर्वन्ति तथैव एते अपि प्रयत्नं कृतवन्तः । देवं प्राप्तुं विद्वत्ता एव प्रामुख्यं न, अचलभक्तिः आवश्यकी तदा देवः द्रष्टुं शक्यते । देवस्य करुणया जीवः संसारबन्धनात् मोक्षं प्राप्नोति इति एतस्य उपदेशस्य सारः । एते स्वस्य प्रासादिकवण्या एतम् उपदेशं बहुधा विवृत्य, तम् उपदेशं लोकप्रियं, लोकप्रचलितं च कृतवन्तः । उत्कृष्टदैवभक्त्या प्रेरिताः एते दासाः भिन्नभिन्नभावम् अनुभूय तत् गीतरुपेण प्रतिबिम्बितवन्तः । दाससाहित्यं भक्तिमार्गास्य साहित्ये एकं महत्वं स्थानम् आप्नोति । कन्नडसाहित्यम् अपि दाससाहित्यात् बहुधा उपकृतम् अस्ति ।

नरहरितीर्थः
श्रीपादरायः
व्यासरायः
कनकदासः
पुरन्दरदासः
भागण्णदासः
जगन्नाथदासः
वादिराजतीर्थः
विजयदासः
हेळवनकट्टे गिरियम्मा

प्रमुखलेखः[सम्पादयतु]