कर्पूरमञ्जरी

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


राजशेखरेण कर्पूरमञ्जरी इति ग्रन्थः विलिखितः । एतस्य विषये अद्य विवरणं नोपलभ्यते इति न, किन्तु किञ्चिदिव । यथा-:कर्पूरमञ्जरी(सट्टकम्) सट्टकलक्षणं तूक्तम् भावप्रकाशः नाम्नि ग्रन्थे यथा- सैव प्रवेशकेनापि विष्कम्भेन विना कृता । अङ्कस्थानीयविन्यस्तचतुर्जवनिकान्तरा । प्रकृष्टप्राकृतमयी सट्टकं नामतो भवेत् ॥ इति । पूर्णतया प्राकृतभाषायां विरचितमिदं सट्टकप्रकारे विरचितम् नाटकम् । अत्र राजाऽपि प्राकृतभाषायामेव सम्भाषते । कर्पूरमञ्जरीति प्रसिद्धायाः विदर्भराजपुत्र्याः विवाहः चण्डपालनाम्ना सह कथं समभवदिति कथाऽत्र वर्णिता, या कथा तु पूर्वम् अपराजितनाम्ना कविना निबद्धासीदिति राजशेखरेणैव गीयते । अस्मिन्नाटकेऽनेन कविना प्रस्तावनायां हालः हरिचन्द्रः कविराजः इत्यादयः पूर्वकवयः स्मर्यन्ते । एषु कविराजः राघवपाण्डवीयम् नाम्नः द्विसन्धानकाव्यस्य कर्ता, राजशेखरस्य पूर्वपुरुषश्च । एष कविराजम् ,बालकविः, इति उपज्ञापयति । एवं च ’बालकविः कविराजो निर्भयराजस्य तथोपाध्यायः’ इति वदन् कविराजः निर्भयनाम्नः राज्ञः गुरुरासीदिति ज्ञापयति । आत्मानं "रजनीवल्लभशिखण्डः" अर्थात् रजनीवल्लभः=चन्द्रः (राजः) स एव शिखण्डः शेखरम् यस्य सः रजनीवल्लभशिखण्डः = राजशेखरः । इति निर्दिशति ।

"https://sa.wikipedia.org/w/index.php?title=कर्पूरमञ्जरी&oldid=371087" इत्यस्माद् प्रतिप्राप्तम्