कर्मण्येवाधिकारस्ते...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(कर्मण्येवाधिकारस्ते इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search

लुअ दोषः : expandTemplate: template "Short description" does not exist.

कर्मण्येवाधिकारस्ते...


कर्मयोगस्य स्वरूपवर्णनम्
Avatars of Vishnu.jpg
श्लोकसङ्ख्या २/४७
श्लोकच्छन्दः अनुष्टुप्छन्दः
पूर्वश्लोकः यावानर्थ उदपाने
अग्रिमश्लोकः योगस्थः कुरु कर्माणि

कर्मण्येवाधिकारस्ते इत्यनेन श्लोकेन भगवान् श्रीकृष्णः कर्माज्ञां यच्छति । पूर्वस्मिन् श्लोके भगवान् अर्जुनाय समबुद्धेः आज्ञाम् अयच्छत् । तस्य समबुद्धेः प्राप्त्यै अत्र कर्माधिकारस्य आज्ञां ददाति ।

श्लोकः[सम्पादयतु]

गीतोपदेशः
कर्मण्येवाधिकारस्ते मा फलेषु कदाचन ।
मा कर्मफलहेतुर्भूर्मा ते सङ्गोऽस्त्वकर्मणि ॥ २-४७ ॥

पदच्छेदः[सम्पादयतु]

कर्मणि, एव, अधिकारः, ते, मा, फलेषु, कदाचन । मा, कर्मफलहेतुः, भूः, मा, ते, सङ्गः, अस्तु, अकर्मणि ॥

अन्वयः[सम्पादयतु]

कर्मणि एव ते अधिकारः । फलेषु कदाचन मा (भूत्) । कर्मफलहेतुः मा भूः । अकर्मणि मा ते सङ्गः अस्तु ।

शब्दार्थः[सम्पादयतु]

अन्वयः

विवरणम्

सरलसंस्कृतम्

ते

युष्मद्-द.सर्व.ष.एक.

तव

कर्मणि

कर्मन्-न.नपुं.स.एक.

क्रियायाम्

एव

अव्ययम्

केवलं

अधिकारः

अ.पु.प्र.एक.

अधिकारः

फलेषु

अ.नपु.स.बहु.

प्रयोजनेषु      

कदाचन

अव्ययम्

कदापि

मा

अव्ययम्

मास्तु

कर्मफलहेतुः

उ.पुं.प्र.बहु.

कर्मप्रयोजनस्य कारणम्

मा भूः (अभूः)

√भू सत्तायाम्-पर.कर्तरि, लुङ्.मपु.एक.

मा भव

ते

युष्मद्-द.सर्व.ष.एक.

तव

अकर्मणि

कर्मन्-न.नपुं.स.एक.

कर्मानाचरणे

सङ्गः

अ.पुं.प्र.एक.

अभिलाषः

मा

अव्ययम्

मा

अस्तु

√असँ भुवि- पर.कर्तरि, लोट्.प्रपु.एक.

भवतु

व्याकरणम्[सम्पादयतु]

सन्धिः[सम्पादयतु]

१. कर्मण्येवाधिकारः = कर्मणि + एव - यण्सन्धिः

२. अधिकारस्ते = अधिकारः + ते - विसर्गसन्धिः (सकारः)

३. कर्मफलहतुर्भूर्मा - कर्मफलहेतुः + भूः - विसर्गसन्धिः (रेफः)

४. कर्मफलहेतुर्भूः = मा - विसर्गसन्धिः (रेफः)

५. सङ्गोऽस्तु = सङ्गः + अस्तु - विसर्गसन्धिः (सकारः) रेफः, उकारः, गुणः, पूर्वरूपं च

६. अस्त्वकर्मणि = अस्तु + अकर्मणि - यण्सन्धिः

समासः[सम्पादयतु]

१. कर्मफलहेतुः = कर्मणः फलं कर्मफलम् - षष्ठीतत्पुरुषः ।

२. कर्मफलस्य हेतुः - षष्ठीतत्पुरुषः ।

3. अकर्मणि = न कर्मणि - नञ्-तत्पुरुषः ।

कृदन्दः[सम्पादयतु]

अधिकारः = अधि + कृञ् + अण् (भावे)

अर्थः[सम्पादयतु]

तव कर्माचरणे एव अधिकारः । फलविषये तव अधिकारः नास्ति । त्वं कर्मणः फलस्य अपेक्षां मा कुरु । फलपेक्षया कर्म कुर्वन् तत्फले आत्मानं हेतुं मा कुरु । कर्मणः अनाचरणेऽपि तव अभिलाषः मा भवतु ।

भावार्थः [१][सम्पादयतु]

'कर्मण्येवाधिकारस्ते' – प्राप्तकर्तव्यस्य पालने एव तव अधिकारः अस्ति । तस्य कृते त्वं स्वतन्त्रः असि । यतो हि मनुष्यस्य कर्मयोनिः अस्ति । मनुष्यं विहाय अन्या कापि योनिः नवीनकर्मणः कृते नास्ति । पशुपक्ष्यादयः जङ्गमप्राणिनः, वृक्षलतादयः स्थावरप्राणिनश्च नवीनकर्माणि कर्तुं न प्रभवन्ति । देवेषु नवीनकर्मस्य सामर्थ्यं तु अस्ति, परन्तु ते केवलं पूर्वकृतानां यज्ञ-दान-तपादीनां शुभकर्मणां फलोपभोगाय एव कर्म कर्तुं शक्नुवन्ति । ते देवाः भगवतः विधानानुसारं मनुष्येभ्यः कर्मसामग्रीं दातुं शक्नुवन्ति, परन्तु ते केवलं सुखभोगेषु एव लिप्ताः भवन्ति, अतः नवीनकर्म कर्तुं न पारयन्ति । नारकीयाः जीवाः भोगयोनिनः भवन्ति । अतः ते स्वदुष्कर्मणां फलं प्राप्नुवन्ति, तेऽपि कर्म न कुर्वन्ति । सेवायुक्तं नवीनकर्म कृत्वा उद्धाराय एव भगवान् जीवाय अन्तिमजन्म मनुष्यत्वेन अयच्छत् । यदि मनुष्यः कर्माणि स्वस्य कृते करिष्यति, तर्हि सः कर्मबन्धनेषु बद्धः भविष्यति । यदि सः कर्म अकृत्वा आलस्ययुक्तः, प्रमादग्रस्तश्च भविष्यति, तर्हि सः पौनःपुन्येन जन्ममृत्य्वोः चक्रे भविष्यति । अतः भगवान् श्रीकृष्णः कथयति यत्, "तव अधिकारः केलवं कर्तव्यकर्मणि एव अस्ति" इति ।

'कर्मणि' – कर्मणि इत्यस्य एकवचने प्रयोगः अस्ति । अर्थात् देश-काल-घटना-परिस्थिति-इत्यादिभिः युक्तस्य मनुष्यस्य सम्मुखम् अनेकानि शास्त्रोक्तानि कर्माणि तु भविष्यन्ति, परन्तु तेषु सः किञ्चित् एकं कर्म एव तत्परतापूर्वकं कर्तुं समर्थः । यथा – क्षत्रियधर्माधारेण अर्जुनस्य युद्धं, दानं, न्यायः इत्यादीनि कर्माणि भवन्ति, परन्तु युद्धभूमौ अवस्थितस्य तस्य वर्तमानकर्म युद्धस्य अस्ति । सः दानादिकार्यं कर्तुं न क्षमः ।

'मा फलेषु कदाचन' – फलेन सह सम्बन्धः साधनीयः उत न साधनीयः इत्यस्य निर्णयं कर्तुं मनुष्यः स्वतन्त्रः अस्ति । परन्तु फलप्राप्तौ मनुष्यस्य किञ्चिदपि अधिकारः नास्ति । यतो हि फलविधानं मे (भगवतः) आधीन्ये अस्ति । अतः फलस्य इच्छाम् अकृत्वा कर्तव्यकर्म कुरु । यदि त्वं फलासक्तो भूत्वा कर्म करिष्यसि, तर्हि त्वं कर्मबन्धने बद्धः भविष्यसि [२] । फलेच्छायाः सर्वथा नाशः कर्तृत्वं नाशयति, येन मनुष्यकर्म कुर्वन् अपि कर्मबन्धने बद्धः न भवति । तात्पर्यः अस्ति यत्, मनुष्यः वस्तुतः कर्तव्येषु तावान् न बद्धः, यावान् सः फलेच्छया बद्धः ।

अन्यच्च मनुष्यः यानि कर्माणि करोति, तानि प्राकृतपदार्थैः, अन्यजनानां सहकारेण च करोति । सः ताभ्यां विना कार्यं कर्तुम् एव न शक्नोति । अतः प्राकृतपदार्थ-जनानां साहाय्येन कृतस्य कर्मणः फलेच्छा अप्रामाणिकी एव ।

'मा कर्मफलहेतुर्भूः' – त्वं कर्मफलस्य इच्छायुक्तः अपि मा भव । अर्थात् शरीर-इन्द्रिय-मन-बुद्धीत्यादिभिः सह किञ्चिदपि ममत्वं मनुष्येण न संयोजनीयम् । यतः तैः सह युक्ता ममता एव कर्मफलस्य इच्छां मनुष्ये जनयति । अतः श्रीकृष्णेन पञ्चमाध्यायस्य एकादशमे श्लोके "कैवल्यैः" इत्यस्य पदस्य उपयोगः कृतः ।

शुभक्रियायां फलेच्छायां अनुत्पन्नायां सत्यामपि मया अन्यस्योपरि उपकारः कृतः, अन्यस्य साहाय्यं कृतम् एतादृशस्य भावस्य उत्पत्तिरपि फलेच्छा कथ्यते । यतो हि तादृशः भावः शुभकर्मभिः सह मन-बुद्धि-इन्द्रियादीनां सम्बन्धं स्थापयति । सः सम्बन्धः दुःसङ्गः कथ्यते । आन्तरिक-बाह्य-क्रियाभिः सह आत्मनः कोऽपि सम्बन्धः नास्ति । तासां क्रियाणां सम्बन्धः समष्ट्या, संसारेण च सह अस्ति । यदा कयाचित् व्यक्त्या, अपरस्य जनस्य हितं भवति, तदा तेन हितेन यथा तृतीयस्य जनस्य निमित्तत्वं न भवति, तथैव आत्मा यस्मिन् शरीरे अस्ति, तेन शरीरेण यदि कस्यचित् जनस्य उपकारः भवति, तर्हि आत्मना सह तस्य निमित्तत्वं न भवति । यदा शरीरस्य क्रियासु स्वं (आत्मानं) निमित्तत्वं न पश्यति, तदा मनुष्यः कर्मफलेच्छाविहीनः भवति ।

'मा ते सङ्गोऽस्त्वकर्मणि' – कर्म न कर्तुम् अपि तव आसक्तिः न स्यात् । यतो हि कर्मफले आसक्त्यां सत्यां यथा बन्धनं भवति, तथैव कर्म न करोति चेदपि अस्ति । यतो हि कर्म न क्रियते चेत्, आलस्य-प्रमादादयः समुद्भवन्ति । प्रमाद-आलस्य-कर्मफलादिभिः सह सम्बन्धे विच्छेदे सति विवेकजन्यं सुखं, प्रकाशः, ज्ञानं च समुद्भवति, तैः समुद्भूतैः सह सम्बन्धस्य स्थापिते सति "सात्त्विकवृत्त्या" सह सम्बन्धः भवति । सात्त्विकवृत्त्या सह सम्बन्धः एव मनुष्यं जन्ममृत्व्योः बन्धात् मोचयति ।

शाङ्करभाष्यम् [३][सम्पादयतु]

तव च -

कर्मण्येव अधिकारः  न ज्ञाननिष्ठायां  ते  तव। तत्र च कर्म कुर्वतः  मा फलेषु  अधिकारः अस्तु कर्मफलतृष्णा मा भूत्  कदाचन  कस्याञ्चिदप्यवस्थायामित्यर्थः। यदा कर्मफले तृष्णा ते स्यात् तदा कर्मफलप्राप्तेः हेतुः स्याः एवं  मा कर्मफलहेतुः  भूः।

यदा हि कर्मफलतृष्णाप्रयुक्तः कर्मणि प्रवर्तते तदा कर्मफलस्यैव जन्मनो हेतुर्भवेत्। यदि कर्मफलं नेष्यते किं कर्मणा दुःखरूपेण इति  मा ते  तव सङ्गः अस्तु अकर्मणि  अकरणे प्रीतिर्मा भूत्।।

भाष्यार्थः[सम्पादयतु]

तव अधिकारः केवलं कर्मणि अस्ति, ज्ञाननिष्ठायां नास्ति । तत्र (कर्ममार्गे) कर्म कुर्वन् तव फले कदापि अधिकारः नास्ति, अर्थात् न कस्याञ्चित् अवस्थायां तव कर्मफले इच्छा स्यात् इति ।

यदि कर्मफले तव इच्छा भविष्यति, तर्हि त्वं कर्मफलप्राप्तेः कारणं भविष्यसि । अतः कर्मफलप्राप्तेः कारणं त्वं मा भव । यतो हि यदा मनुष्यः कर्मफलस्य कामनया प्रेरितः सन् कर्मणि प्रवृत्तः भवति, तदा सः कर्मफलरूपिणः पुनर्जन्मबन्धनस्य हेतुः भवति ।

'यदि कर्मफलस्य इच्छां न कुर्मः, तर्हि दुःखरूपकर्म करणस्य का आवश्यकता अस्ति ?' एवं कर्म न करणेऽपि तव आसक्तिः न स्यात् ।। ४७ ।।

रामानुजभाष्यम् [४][सम्पादयतु]

अतः सत्त्वस्थस्य मुमुक्षोः एतावद् एव उपादेयम् इत्याह -

नित्ये नैमित्तिके काम्ये च केनचित् फलविशेषेण संबन्धितया श्रूयमाणे  कर्मणि  नित्यसत्त्वस्थस्य मुमुक्षोः ते कर्ममात्रे  अधिकारः।  तत्संबन्धितया अवगतेषु  फलेषु  न कदाचिद् अपि अधिकारः। सफलस्य बन्धरूपत्वात् फलरहितस्य केवलस्य मदाराधनरूपस्य मोक्षहेतुत्वाच्च।

मा  च कर्मफलयोः  हेतुः भूः।  त्वया अनुष्ठीयमाने अपि कर्मणि नित्यसत्त्वस्थस्य मुमुक्षोः तवाकर्तृत्वम् अपि अनुसन्धेयम्। फलस्य अपि क्षुन्निवृत्त्यादेः न त्वं हेतुः इति अनुसन्धेयम्। तद् उभयं गुणेषु वा सर्वेश्वरे मयि वा अनुसन्धेयम् इति उत्तरत्र वक्ष्यते। एवम् अनुसन्धाय कर्म कुरु।  अकर्मणि  अननुष्ठाने न योत्स्यामि इति यत् त्वया अभिहितं न तत्र  ते सङ्गः अस्तु।  उक्तेन प्रकारेण युद्धादिकर्मणि एव सङ्गः अस्तु इत्यर्थः।

भाष्यार्थः[सम्पादयतु]

अतः सत्त्वगुणे स्थिताय मुमुक्षवे कियत् उपादेयम् इति वदति –

केनचिद् फलविशेषेण सह सम्बन्धम् उक्त्वा शास्त्रेषु येषां कर्मणां विधानम् अस्ति, तादृशेषु नित्य-नैमित्तिक-काम्य-कर्मसु सत्त्वगुणे स्थितस्य मुमुक्षोः तव सर्वदा केवलं कर्मणि अधिकारः अस्ति । तस्य कर्मणः फलेषु तव अधिकारः कदापि नास्ति । यतो हि फलसहितं कर्म बन्धनरूपं भवति । प्रत्युत फलरहितं केवलं मे आराधनारूपम् । मम आराधनारूपं कर्म मोक्षदायकं भवति । एतद् अतिरिक्तं त्वं कर्म, तस्य फलानां च कारणम् अपि मा भव । त्वया मुमुक्षुणा कर्मणः अनुष्ठाने क्रियमाणे सत्यपि सदा सत्त्वगुणे स्थित्वा स्वस्य अकर्तृत्वम् एव द्रष्टव्यम् । कर्मणः उत्पद्यमानानां क्षुधानिवृत्त्यादिफलानां हेतुत्वेनापि आत्मानं न मन्तव्यम् । तयोः उभयोः कर्तृभावस्य, फलस्य च सम्बन्धः गुणैः मन्तव्यः उत मया अर्थाद् ईश्वराद् इति अग्रे वक्ष्यते । अतः त्वम् एवं मत्वा कर्म कुरु । अकर्मणि अर्थाद्, त्वम् अवदः, "अहं युद्धं न करिष्ये" इति । एवम् अपि कर्मत्यागे तव आसक्तिः न स्यात् । किन्तु उपर्युक्तपद्धत्या कर्मकरणे एव तव प्रीतिः स्याद् इत्यभिप्रायः ।

मर्मः [५][सम्पादयतु]

मनुष्यजीवने कर्मद्वयम् अस्ति । प्रप्रथमं तु पूर्वकर्मणां फलभोगः, द्वितीयं पुरुषार्थश्च । अन्ययोनिषु केवलं पुरातनकर्मणां फलभोगः अस्ति । अर्थात् कीटपतङ्ग-पशुपक्षि-देवानां, ब्रह्मलोकं यावत् विद्यमानां जीवानां च भोगयोनिः अस्ति । अतः तेभ्यः 'एवं करोतु, एवं मा करोतु' इति विधानं नास्ति । तेषां यानि कर्माणि भवन्ति, तानि प्रारब्धानुगुणमेव निर्धारितानि भवन्ति । तेषां जीवने विद्यमानाः अनुकूलप्रतिकूलपरिस्थितयः तेषां फलभोगस्य भागत्वेन भवन्ति । परन्तु मनुष्याणां तथा नास्ति । मनुष्याः प्रारब्धकर्मफलानां भोगेन सह पुरुषार्थम् अपि कर्तुं प्रगल्भाः । ते स्वपुरुषार्थेन एव स्वोद्धारं कुर्वन्ति ।

मनुष्यस्य कर्मद्वयानुगुणं तस्य जीवनस्य द्वौ विभागौ स्तः । प्रप्रथमस्तु तस्य सम्मुखं पूर्वकर्मणां फलत्वेन अनुकूला, प्रतिकूला वा परिस्थितयः समुद्भवन्ति । द्वितीयः सः नीवनपुरुषार्थं करोति । नवीनपुरुषार्थानाम् आधारेणैव तस्य भविष्यस्य निर्माणं भवति । अतः शास्त्राणां, महापुरुषाणां विधिनेषेधाः च केवलं मनुष्येभ्यः एव भवन्ति । यतो हि मनुष्यः पुरुषार्थप्रधानः भवति । सः स्वतन्त्रतया नवीनकर्म तु करोति, परन्तु पूर्वकर्माधारेण परिस्थितीनां फलभोगे परतन्त्रः अस्ति । अर्थात् मनुष्यः कर्मणि तु स्वतन्त्रः अस्ति, परन्तु फलप्राप्तौ परतन्त्रः अस्ति ।

पूर्वकर्मानुसारं प्राप्तपरिस्थितीनां सदुपयोगं कृत्वा मनुष्यः स्वोद्धारस्य साधनं साधयितुं योग्यः भवति; किञ्च मनुष्ययोनौ पुरुषार्थः, पूर्वफलभोगश्च स्वोद्धाराय एव भवति । अतः मनुष्यस्य जीवने प्रारब्धानुगुणं याः शुभाशुभपरिस्थितयः समुद्भवन्ति, ताः सुखदायिन्यः, दुःखदायिन्यः च वक्तुं तु शक्नोति, परन्तु वस्तुतः परस्थितिभ्यः समुद्भूतं सुखं, दुःखं वा कर्मणां फलं नास्ति । सः अनुभवः तस्य मूर्खतायाः एव परिणामः अस्ति । यतो हि सा परिस्थितिः तस्मात् भिन्ने अपरे स्थाने घटते, परन्तु सः स्वयं सुखी, दुःखी वा भवति । मनुष्यः परिस्थित्या सह तादात्म्यं संस्थाप्य सुखस्य, दुःखस्य च भोक्ता भवति । यदि मनुष्यः तया परिस्थित्या सह तादात्म्यं न प्रस्थाप्य तस्याः सदुपयोगं करोति, तर्हि सा एव परिस्थितिः तस्य उद्धारस्य साधनं भवति । सुखदपरिस्थितीनां सदुपयोगः अर्थात्, अन्येषां सेवा । दुःखदपरिस्थितीनां सदुपयोगः अर्थात्, सुखभोगस्य इच्छायाः परित्यागः ।

दुःखदपरिस्थितौ मनुष्येण कदापि उद्विग्नेन न भवितव्यम् । तस्यां स्थित्यां मनुष्यैः चिन्तनीयं यत्, पुरा सुखभोगस्य इच्छया यानि पापकर्माणि कृतानि, तानि एव दुःखदपरिस्थित्वेन नष्टानि भवन्ति सन्ति इति । तस्याः परिस्थितेः द्वौ लाभौ स्तः । प्रथमस्तु मनुष्यस्य प्रायश्चिते पूर्णे सति सः शुद्धः भवति । द्वितीयश्च सा दुःखदपरिस्थितिः सङ्केतः अस्ति यत्, यदि मनुष्यः सुखभोगस्य ईप्सायां पापकर्म करिष्यति, तर्हि भविष्यत्काले इतोऽपि दुःखदपरिस्थितयः समुद्भविष्यन्ति । अतः सुखभोगस्य इच्छुकैः स्वसुखभोगाय किमपि कार्यं न करणीयम्, अपि तु प्राणिमात्रस्य हिताय कार्यं करणीयम् इति । सारांशः भवति यत्, पशुपक्षिकीटपतङ्गादीनां योनिभ्यः पूर्वकर्मणां फलं, नूतनकर्म च भोगत्वेन स्तः । परन्तु मनुष्याय पूर्वकर्मणः फलं, नवीनकर्म (पुरुषार्थः) च उद्धारस्य साधने स्तः ।

'फलेषु' इत्यस्मिन् पदे बहुवचनस्य उपयोगः कृतः । तस्य तात्पर्यः अस्ति यत्, मनुष्यः कर्म तु एकमेव करोति, परन्तु अनेकफलानि इच्छति । यथा – अहम् अमुकं कर्म कुर्वन् अस्मि, येन अहं पुण्यं, संसारे कीर्तिं, धनं च प्राप्नोमि । अनेन कर्मणा जनेषु मे सज्जनतायाः प्रचारः भवेत् इत्यादीनि ।

यः मनुष्यः निष्कामो भवितुम् इच्छति, तेन कार्यद्वयं करणीयम् । प्रप्रथमं तु तेन ज्ञातव्यं यत्, कामनया अभावः उद्भवति । कामनापूर्तौ परतन्त्रता, कामनायाः अपूर्तौ दुःखं च समुद्भवति । कामनापूर्तेः सुखोपभोगेन नूतना कामना समुद्भवति, येन सकामभावेन नवीनकर्मसु आसक्तिः वर्धते इति । द्वितीयं तेन अवगन्तव्यं यत्, कर्म नित्यं नास्ति । किञ्च, कर्मणः आरम्भान्तौ स्तः । कर्मणि संयोगवियोगत्वात् कर्मणः फलम् अपि अनित्यम् अस्ति । परन्तु आत्मा स्वयं नित्यः अस्ति । अनित्यकर्मभ्यः, तस्माद्दुद्भूतेभ्यः अनित्यफलेभ्यः च नित्यस्वरूपस्य कोऽपि लाभः न ।

संसारात् जीवस्य सम्बन्धः निष्कामो भूत्वा भग्नः भवति । निष्कामो भवितुं साधके तीव्रः विवेकः, सेवाभावश्च आवश्यकः । यतो हि तयोः उपस्थितौ कर्मयोगः योग्यरीत्या आचारभूतः भवति । अन्यथा साधकेन कृतं कर्म केवलं 'कर्म' एव परिगण्यते, न तु 'योग' इति ।


श्रीमद्भगवद्गीतायाः श्लोकाः
Orange animated left arrow.gif पूर्वतनः
यावानर्थ उदपाने
कर्मण्येवाधिकारस्ते... अग्रिमः
योगस्थः कुरु कर्माणि
Orange animated right arrow.gif
साङ्ख्ययोगः

१) तं तथा कृपयाविष्टम्... २) कुतस्त्वा कश्मलमिदं... ३) क्लैब्यं मा स्म गमः पार्थ... ४) कथं भीष्ममहं सङ्ख्ये... ५) गुरूनहत्वा हि महानुभावान्... ६) न चैतद्विद्मः कतरन्नो गरीयो... ७) कार्पण्यदोषोपहतस्वभावः... ८) नहि प्रपश्यामि ममापनुद्याद्... ९) एवमुक्त्वा हृषीकेशं... १०) तमुवाच हृषीकेशः... ११) अशोच्यानन्वशोचस्त्वं... १२) न त्वेवाहं जातु नासं... १३) देहिनोऽस्मिन्यथा देहे... १४) मात्रास्पर्शास्तु कौन्तेय... १५) यं हि न व्यथयन्त्येते... १६) नासतो विद्यते भावो... १७) अविनाशि तु तद्विद्धि... १८) अन्तवन्त इमे देहा... १९) य एनं वेत्ति हन्तारं... २०) न जायते म्रियते वा कदाचिन्... २१) वेदाविनाशिनं नित्यं... २२) वासांसि जीर्णानि यथा विहाय... २३) नैनं छिन्दन्ति शस्त्राणि... २४) अच्छेद्योऽयमदाह्योऽयम्... २५) अव्यक्तोऽयमचिन्त्योऽयम्... २६) अथ चैनं नित्यजातं... २७) जातस्य हि ध्रुवो मृत्युः... २८) अव्यक्तादीनि भूतानि... २९) आश्चर्यवत्पश्यति कश्चिदेनम्... ३०) देही नित्यमवध्योऽयं... ३१) स्वधर्ममपि चावेक्ष्य... ३२) यदृच्छया चोपपन्नं... ३३) अथ चेत्त्वमिमं धर्म्यं... ३४) अकीर्तिं चापि भूतानि... ३५) भयाद्रणादुपरतं... ३६) अवाच्यवादांश्च बहून्... ३७) हतो वा प्राप्स्यसि स्वर्गं... ३८) सुखदुःखे समे कृत्वा... ३९) एषा तेऽभिहिता साङ्ख्ये... ४०) नेहाभिक्रमनाशोऽस्ति... ४१) व्यवसायात्मिका बुद्धिः... ४२) यामिमां पुष्पितां वाचं… ४३) कामात्मानः स्वर्गपरा… ४४) भोगैश्वर्यप्रसक्तानां... ४५) त्रैगुण्यविषया वेदा... ४६) यावानर्थ उदपाने... ४७) कर्मण्येवाधिकारस्ते... ४८) योगस्थः कुरु कर्माणि... ४९) दूरेण ह्यवरं कर्म... ५०) बुद्धियुक्तो जहातीह... ५१) कर्मजं बुद्धियुक्ता हि... ५२) यदा ते मोहकलिलं... ५३) श्रुतिविप्रतिपन्ना ते... ५४) स्थितप्रज्ञस्य का भाषा... ५५) प्रजहाति यदा कामान्... ५६) दुःखेष्वनुद्विग्नमनाः... ५७) यः सर्वत्रानभिस्नेहः... ५८) यदा संहरते चायं... ५९) विषया विनिवर्तन्ते... ६०) यततो ह्यपि कौन्तेय... ६१) तानि सर्वाणि संयम्य... ६२) ध्यायतो विषयान्पुंसः... ६३) क्रोधाद्भवति सम्मोहः... ६४) रागद्वेषवियुक्तैस्तु... ६५) प्रसादे सर्वदुःखानां... ६६) नास्ति बुद्धिरयुक्तस्य... ६७) इन्द्रियाणां हि चरतां... ६८) तस्माद्यस्य महाबाहो... ६९) या निशा सर्वभूतानां... ७०) आपूर्यमाणमचल... ७१) विहाय कामान्यः सर्वान्... ७२) एषा ब्राह्मी स्थितिः पार्थ...


सम्बद्धाः लेखाः[सम्पादयतु]

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

उद्धरणम्[सम्पादयतु]

  1. श्रीमद्भगवद्गीता, साधनकसञ्जीवनी, गीताप्रेस, गोरखपुर, संस्करणम् - ८
  2. फले सक्तो निबध्यते, गीता, अ. ५, श्लो. १२
  3. शाङ्करभाष्यम्, मूलपाठः
  4. रामानुजभाष्यम्
  5. श्रीमद्भगवद्गीता, गीताप्रेस गोरखपुर

अधिकवाचनाय[सम्पादयतु]