कर्मयोगः

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्
हिन्दुधर्मःOm symbol.svg

हिन्दुधर्मःइतिहासः

Portal:HinduismHinduSwastika.svg

प्रवेशद्वारम्:सनातनधर्मः
प्रवेशद्वारम्:सनातनाध्यत्मिकप्रवेशः

गीतोपदेशः

कर्मयोगनाम्ना अयं च अध्यायः अभिधीयते । अस्मिन्नध्याये प्राधान्येन कर्मणः विषये चर्चितं वर्तते । भारतीयविचारानुसारेणा आत्मोन्नतिं साधयितुं चत्वारो मार्गाः उपदिष्टाः सन्ति- ज्ञानमार्गः, भक्तिमार्गः, कर्ममार्गः योगमार्गश्च । स्वनामधन्यैः श्रीरमणमहर्षिभिः अत्यन्तसरलरीत्या एतेषां चतुर्णां मार्गाणां विवेचनं कृतम् उपलभ्यते ।

गीतायाः पूर्वं मीमांसाशास्त्रे कर्मणो महत्त्वं स्वीकृतम् आसीत् । जैमिनिना तु वेदस्य प्रयोजनमेव कर्मणः प्रतिपादनं कथितम् । तत्र कर्मणः अभिप्रायः यज्ञेन प्रतिपादितम् । गीतायामपि 'यज्ञ' शब्दस्य प्रयोगो विस्तृतार्थे विहितः । निः स्वार्थबुद्ध्या क्रियमाणं परमात्मानं प्रति उपयन्तारं निखिलं कर्मजातं 'यज्ञ्’ मेवास्ति । यज्ञास्तु अनेकधा प्रतिपादिताः । यथा –द्रव्ययज्ञः, तपोयज्ञः, ज्ञानयज्ञश्चेति । श्रीमद्भगवद्गीताया अवधारणाऽस्ति यत् फलाकांक्षाया दृष्टिकोणेन अक्रियमाणानि कर्माणि कदापि बन्धनं नोत्पादयन्ति किन्तु कर्मचक्रात् न कश्चिदपि प्राणी पलायनं कर्त्तुं शक्नोति । यतो हि प्राणिनां जीवनयात्राया मुख्य आधारः कर्म एवास्ति । क्षणमपि कश्चिदपि प्राणी कर्म न कुर्वन् नैव तिष्ठति । सत्त्वादिगुणत्रयस्य प्रभावात् प्राणी सदैव कर्म कुर्वाणो विद्यते ।

लौकिककर्मसु वासनाख्यो दोषो भवति । अनेनैव दोषेण कर्त्ता बन्धने निपतति, कर्मणा बद्धो भवति च । फलाकांक्षा अथवा आसक्तिरुपिण्या वासनाया एव अपरं स्वरुपम् अस्ति । यथा कामनया इच्छया वा कर्म क्रियते, तस्य कर्मणः फलन्तु अवश्यमेव भोक्तव्यं भवति । यद्यपि तत्फलभोगात् प्राणी पृथक न भवितुं शक्नोति, तथापि फलस्य बन्धनात् अवश्यं मुक्तिं लब्धुं शक्नोति । कर्मणां क्रियमाणतायां यदि एतादृशं कौशलं भवेत्, तदैव कर्मणा तस्य भोगो भवति । कर्मयोगस्य सार्थकताऽपि अस्मिन्नेवास्ति । अतएवोक्तम् –“योगः कर्मसु कौशलम्” इति ।

कर्मयोगे प्रवृत्त्यर्थं त्रिविधस्याचरणस्य उपयोगिता श्रीमद्भगवद्गीतायां सम्प्रोक्ता । तत त्रिविधमाचरणमत्रोल्लेखनीयमस्ति –(१) फलाकांक्षां वर्जयेत् (२)कर्त्तृत्वे अहंकारं परित्यजेत् (३) स्वक्रियमाणं कर्मजातम् ईश्वराय अर्पयेत् चेति । श्रीमद्भगवद्गीतायास्तु उपदेशोऽस्ति यत् प्राणिनां कर्मकरणे एवाधिकारो वर्तते, कर्मफलस्योपभोगे तेषामधिकारो नास्ति –

कर्मण्येवाधिकारस्ते मा फलेषु कदाचन ।
मा कर्मफलहेतुर्भुर्मा ते सङ्गोऽस्त्वकर्मणि ॥

भगवतः श्रीकृष्णस्येदं कथनं कर्मयोगस्य चतुस्सूत्री अस्ति । अत्र कर्मणां परित्यागस्य शिक्षा नैव प्रद्त्ता अपितु कर्मफलस्य परीत्यागविषये स्वोपदेशो विहितः । कर्मफलस्य परित्यागोऽपि 'संन्यास' इति नाम्ना विज्ञायते । गीतोक्तम्तेन कर्मपरित्यागः संन्यासो नास्ति –

काम्यानां कर्मणां न्यासं संन्यासं कवयो विदुः ॥

कर्मफलविषये चत्वारः सिद्धान्ताः प्रतिपादिताः सन्ति (१) प्रमादवशात् फलेच्छाया अभावः अथवा कर्मप्रवृत्तेरभावः (२) फलाकाङ्क्षया तदुचितकर्मणां निष्पादनम् (अयमेव गीतायामुक्तो निष्काकर्ममार्गोऽस्ति )

कर्मयोगमार्गः[सम्पादयतु]

  1. किमपि कर्मफलं प्राप्तुः कर्ता, करणं तथा क्रिया इति अस्याः त्रिपुटेः आवश्यकता अस्ति । परन्तु एतेषु किमपि स्वतन्त्ररीत्या कर्मफलम् उत्पादयितुं न शक्नोति । लाङ्ग्लः स्वयमेव भूमिं कर्ष्टुं न समर्थः । कर्तुः अभावे क्रियायाः अस्तित्वमेव न संभवति । यदि कर्ता जीवः एव कर्मफलम् उत्पादयति इति चेत् स न कदापि अनिष्टं फलं प्राप्नुयात् । अपि तु सदैव इष्टफ्लमेव लभेत । परन्तु प्रत्यक्षं तथाविधं कार्यजातं न दृष्टिपथम् आयाति । एतावता एतत् सिध्दं यत् कर्मफलप्रदायिनी कापि भिन्ना शक्तिः वरीवर्ति । सा शक्तिः एव ईश्वरनाम्ना निर्दिश्यते ।
  2. तथैव पूर्व निर्मिते अस्मिन् जगति एव प्राणिनः जन्मग्रहणं कुर्वन्ति । केनापि जीवेन स्वस्य निर्मितिः स्वयमेव कृता न वा स्वजन्मानन्तरं जगद् इदम् उत्पादितम् । किमपि कार्यम् निर्मात्रा विना नैव संभवति । विना ज्ञानं शक्तिं वा किमपि निर्माणकार्यं भवितुं नैव शक्यम् । अयं सर्वज्ञः सर्वशक्तिमान् निर्माता एव ईश्वरः । मनुष्यः केवलम् ईश्वरप्रदत्तशक्तेः आधारेण एव स्वजीवनं सुखपूर्णं कर्तुं प्रयतते । स प्रकृतिनियमैः विरुध्दं गन्तुं न प्रभवति ।
  3. मनुष्यः ईश्वरस्य अस्तित्वं नानुमोद्य अहमेव कर्ता इति मत्वा कर्मानुष्ठाने प्रवृत्तो भवति सुखं च अभिलषति । परन्तु किमपि कार्यं देशः कालः पुरुषस्य क्षमता इत्यादिभिः मर्यादितम् अत एव अनित्यं तिष्ठति । अत्र कर्मफलम् अनित्यम् एवं दुःखस्य कारणम् इत्यतः किं तेन कर्म एव त्याज्यम् ? परन्तु कर्मत्यागः तु न संभवति । यतः कर्मणा विना मनुष्यः क्षणम् अपि स्थातुं न प्रभवति । अत एव उच्यते ईश्वरार्पणबुद्ध्या एव, फले आसक्तिम् अकृत्वा कृतं कर्म चित्तशुध्दिं संसाध्य मोक्षप्राप्त्यै सहायकं भवति ।
  4. वस्तुतः कर्मफलं कर्मफलेच्छा वा नैव अस्माकं दुःखस्य कारणम् । अपि तु सदैव इष्टं फलमेव लभेय इत्ययम् आग्रहः एव दुःखस्य मूले परमार्थतः तिष्ठति इति सम्यक्तया अवधारणीयम् ।
  5. ईश्वरं कार्याध्यक्षं मत्वा कर्तृत्वाभिमानं परित्यज्य कर्मानुष्ठानम् एव ईश्वरार्पणबुद्धिः इति निगद्यते । देवालये यथा वयं देवताप्रसादं सहर्षं गृह्णीमः तथैव सर्वेषां कर्मणां फलम् ईश्वरनियमानुसारं प्राप्यते इति बुद्ध्या तस्य प्रसादरुपेण स्वीकारः कर्तव्यः । प्रसादविषये किं वस्तुजातं कियता प्रमाणेन वा प्राप्यते इत्यस्य विचारं नैव कुर्मः ।
  6. मन्दिरे वर्तमाना इयं प्रसादग्रहणाबुद्धिः यदि कर्मफलप्राप्तिविषयेऽपि अक्षुण्णा स्यात् तर्हि अस्माकं मनः रागः द्वेषः आसक्तिः इत्यादिभिः अस्पृष्टं तिष्ठेत् । इदमेव शुद्धं मनः इति कथ्यते । अस्मिन् मनसि एव आत्मज्ञानप्राप्तेः योग्यता निवसति ।
  7. संक्षेपेण इदं वक्तुं शक्यते यत् कर्तृत्वस्य अभिमानं कर्मफले च आसक्तिम् अपरित्यज्य कृतं कर्म बन्धनस्य कारणं भवति । परन्तु ईश्वरं कार्याध्यक्षं तथा कर्मफलदातारं मत्वा कृतं कर्म चित्तशुध्दिं संसाध्य मोक्षप्राप्त्यै सहायकं भवति । इत्येवंविधया ईश्वरार्पणाबुद्ध्या कृतं कर्म एव ‘कर्मयोगः’ इति नाम्ना अभिधीयते ।
भगवद्गीतायाः अध्यायाः
  1. अर्जुनविषादयोगः
  2. सांख्ययोगः
  3. कर्मयोगः
  4. ज्ञानकर्मसंन्यासयोगः
  5. कर्मसंन्यासयोगः
  6. आत्मसंयमयोगः
  7. ज्ञानविज्ञानयोगः
  8. अक्षरब्रह्मयोगः
  9. राजविद्याराजगुह्ययोगः
  10. विभूतियोगः
  11. विश्वरूपदर्शनयोगः
  12. भक्तियोगः
  13. क्षेत्रक्षेत्रज्ञविभागयोगः
  14. गुणत्रयविभागयोगः
  15. पुरुषोत्तमयोगः
  16. दैवासुरसंपद्विभागयोगः
  17. श्रद्धात्रयविभागयोगः
  18. मोक्षसंन्यासयोगः

श्लोकानाम् आवलिः[सम्पादयतु]

१) ज्यायसी चेत्कर्मणस्ते...

२) व्यामिश्रेणेव वाक्येन...

३) लोकेऽस्मिन् द्विविधा निष्ठा...

४) न कर्मणामनारम्भात्...

५) न हि कश्चित्क्षणमपि...

६) कर्मेन्द्रियाणि संयम्य...

७) यस्त्विन्द्रियाणि मनसा...

८) नियतं कुरु कर्म त्वं...

९) यज्ञार्थात्कर्मणोऽन्यत्र...

१०) सहयज्ञाः प्रजाः सृष्ट्वा...

११) देवान्भावयतानेन...

१२) इष्टान्भोगान् हि वो देवा...

१३) यज्ञशिष्टाशिनः सन्तो...

१४) अन्नाद्भवन्ति भूतानि...

१५) कर्म ब्रह्मोद्भवं विद्धि...

१६) एवं प्रवर्तितं चक्रं...

१७) यस्त्वात्मरतिरेव स्यात्...

१८) नैव तस्य कृतेनार्थो...

१९) तस्मादसक्तः सततम्...

२०) कर्मणैव हि संसिद्धिम्...

२१) यद्यदाचरति श्रेष्ठः...

२२) न मे पार्थास्ति कर्तव्यं...

२३) यदि ह्यहं न वर्तेयं...

२४) उत्सीदेयुरिमे लोका...

२५) सक्ताः कर्मण्यविद्वांसो...

२६) न बुद्धिभेदं जनयेद्...

२७) प्रकृतेः क्रियमाणानि...

२८) तत्त्ववित्तु महाबाहो...

२९) प्रकृतेर्गुणसम्मूढाः...

३०) मयि सर्वाणि कर्माणि...

३१) ये मे मतमिदं नित्यम्...

३२) ये त्वेतदभ्यसूयन्तो...

३३) सदृशं चेष्टते स्वस्याः...

३४) इन्द्रियस्येन्द्रियस्यार्थे...

३५) श्रेयान्स्वधर्मो विगुणः

३६) अथ केन प्रयुक्तोऽयं...

३७) काम एष क्रोध एष...

३८) धूमेनाव्रियते वह्निः...

३९) आवृतं ज्ञानमेतेन...

४०) इन्द्रियाणि मनो बुद्धिः...

४१) तस्मात्त्वमिन्द्रियाण्यादौ...

४२) इन्द्रियाणि पराण्याहुः...

४३) एवं बुद्धेः परं बुद्ध्वा...

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=कर्मयोगः&oldid=393718" इत्यस्माद् पुनः प्राप्तिः