संस्कृतकवयः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(कवयः इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search

संस्कृतकवयः संस्कृतभाषां काव्यरसेन समृद्धाम् अकुर्वन्। विभिन्ने काले विभिन्नाः कवयः जाताः। तेषां विभाजनं कालानुसारं भवति। प्रसिद्ध ऐतिहासिको विचक्षणो वरदराजः कथयति यत्, संस्कृतसाहित्यस्य अध्ययनेनेदं ज्ञायते यदस्य विकासोऽत्यन्तोन्नतरूपेण समजायतेति । अस्य विकासे त्रयः कालविभागाः दृष्टिगोचरीभवन्ति – कालिदासपूर्ववर्तिकालः, कालिदाससमकालः, कालिदासोत्तरकालश्च । प्रकारान्तरेण कथने विद्वांसः कालविभागं भावप्रधान-भावभाषासमप्रधान-भाषाप्रधानाभिधानेनापि कुर्वन्ति।

अन्तर्विषयाः

कालविभाजनम्[सम्पादयतु]

कालिदासपूर्ववर्तिकाले काव्ये भावस्यैव प्राधान्यमासीत् । तत्र भाषायास्तु गौणत्वेनैव प्रयोगो दृश्यते । तेनैवात्र कवीनां स्वरचनात्मकशक्तविकासाय प्रकाशनाय च सुयोग्योऽवसरः सुलभ आसीत् । वाल्मीकि-व्यास-सुबन्धु-भास-शूद्रकादयोऽस्य कालस्य प्रतिनिधिकवयः।

द्वितीये हि काले कालिदासतत्समकालाभ्यर्णवर्ति अश्वघोष-कुमारदासादयः प्रतिनिधिकवयो मताः। भावस्य भाषायाश्च सन्तुलितविकास एवास्य कालस्य वैशिष्ट्यम् । कालेऽस्मिन् कवीनां रचनाशक्तिरालङ्कारिकसौन्दर्येण सहैव प्रचलति । सत्यमेवैतद्यत्कालिदासेन यदेव काव्यस्योत्कृष्टस्वरूपमुपस्थापितं भावभाषासन्तुलितविकासपरिणामात्मकं तदश्वघोषे वा कुमारदासे किञ्चिदवनतमिव दृश्यते तथापि नैतस्य तत्र नितान्ताभावः।

तृतीयः कालो द्वितीयकालात्सर्वथा भिन्न एव । कालेऽस्मिन् काव्ये स्वाभाविकत्वापेक्षया कृत्रिमता प्राचुर्येण दृश्यते पूर्वानुकरणञ्च । काव्ये हि स्वाभाविकाभिव्यक्तेः स्थानं प्रतिस्पर्धभावनया गृहीतम् । तथैव तत्र भावापेक्षया भावुकतायाः प्रवाहापेक्षया कल्पनायाः अनुभूत्यपेक्षया पाण्डित्यप्रदर्शनमेव कृतास्पदं दृश्यते । रचनात्मकप्रवृत्तेर्महत्त्वं न्यूनीकृतं बाह्यरूपस्य प्राधान्यमुदितं यतो विषयस्य गौणतोदिता। तथासाधने भावस्तु नितान्तमेवोपेक्षितः। कविषु न केवलं शाब्दिकचमत्कारप्रदर्शनमेव कौशलप्रदर्शनं सञ्जातं तथा तत्कृते प्रतियोगिताऽपि तेषां सम्पन्ना ।

लक्षणव्यवहाराय कतिपयेषामेतादृशानां वस्तूनां वर्णनमपि काव्ये समुदितं येषां काव्यवस्तुना सह वस्तुतो न कोऽपि सम्बन्धः सम्भवति नैतावन्मात्रमपि तु काव्यवस्तुकृतेऽनुपयुक्तवस्तूनामपि वर्णनं काव्ये समाविष्टम् । रत्नाकरस्य हरविजयं, मङ्खस्य श्रीकण्ठचरितं, शिवस्वामिनः कप्फणाभ्युदयञ्च प्रवृत्तेरस्य सर्वाधिकपोषकाणि । कविः केवलं शब्दालङ्कारप्रयोग एव नितान्तसंलग्नः सञ्जातः । प्रवृत्तिरेषा भारविनाऽऽरब्धा माघं प्राप्य विकसिता, वासुदेव-शिवस्वामि-वेङ्कटाध्वरिणः प्राप्य मुकुलिता पुष्पिता च । केषुचित् व्याकरणप्रभावमपि स्पष्टमेवावश्यकताधिकमेवोदितं दृश्यते । प्रवृत्तिरेषाऽश्वघोषेण बीजिता भारविणा संवर्धिता । भीमक-भट्टि-हलायुधैस्तु व्याकरणसिद्धये एव काव्यानि प्रणीतानि । यथा यथा काव्यस्य बाह्यरूपात्मकता भावापेक्षया प्रबलतरा सञ्जाता तथा तथा काव्ये कवित्वातिरिक्तान्यविषयस्य पाण्डित्यप्रदर्शनमप्युदितम् । प्रवृत्तिरेषा श्रीहर्षे सर्वाधिकत्वेन दृश्यते ।

श्लेषमाश्रित्य एकाधिकभावानया सहैव प्रकाशनप्रवृत्तिरपि समुदिता काव्ये । प्रवृत्तिरेषा धनञ्जयेन प्रारब्धा राघवपाण्डवीयाख्यद्विसन्धानकाव्यप्रणयनेन । कविराजेनैषा संवद्धिता । चिदम्बरेण त्रिसन्धानकाव्यं मेघविजयगणिना तु सप्तसन्धानकाव्यमपि प्रणीतम् । अनेन कवित्वसाधनायाः स्थानं बौद्धिकपरिश्रमेण गृहीतम् । तथा साधने विचारा भावाश्च समूलमेव प्रणष्टाः । काव्ये हि विश्वजनीनत्वापेक्षया साम्प्रदायिकभावानां प्राबल्यमुदितम् । अश्वघोष-हेमचन्द्र-प्रभृत्युत्कृष्टकोटिकविषयेष्वपि प्रवृत्तिरेषा कृतास्पदा । तथैव कवयो हि स्वाश्रयदातृप्रसादनाय तत्तत्प्रशंसककाव्यानि रचयितुं प्रवृत्ताः । हेमचन्द्रस्य कुमारपालचरितमस्य परममुदाहरणम् । यद्यपि प्रवृत्तिरेषा परिमलकालिदासोपाधिधारिणा पद्मगुप्तेन 'नवसाहसाङ्कचरितं' प्रणीय समारब्धा तथापि तदपेक्षयाऽपि पश्चाद्वर्तिकविषु तत्प्रभावोऽधिकमेव दृश्यते । प्रवृत्तिरेषा तथा प्रवृद्धा यत्पत्न्यपि स्वपतिप्रसादाय तद्यशःप्रसारणहेतुककाव्यप्रणयनाय प्रावर्तत। रामभद्राम्बायाः रघुनाथाभ्युदयं प्रसङ्गेऽस्मिन् स्मरणीयं काव्यम् । तथैवेतिहासोऽपि काव्यरूपेणोपस्थापितः कल्हण-जोनराज-श्रीधरादिभिः । काव्ये हि प्राकृतस्य स्थानमपि सुरक्षितं सञ्जातम् । प्रवरसेनस्य सेतुबन्धः, वाक्पतिराजस्य गउडवहो प्रवृत्तेरस्य परमुदाहरणं, हेमचन्द्रस्य कुमारपालचरितञ्च (चरमा अष्टौ सर्गाः )।

उत्तरदिशि काश्मीरः पूर्वदिशि पाटलीपुत्रं पश्चिमदिशि गुर्जरदेशो दक्षिणदिशि मालीवारश्च संस्कृतंकाव्यप्रकर्षाय समभवन् । कार्येऽस्मिन् विदिशाऽपि प्रशस्या यत्र कालिदासेनाभिज्ञानशाकुन्तलसदृशो ग्रन्थः प्रणीतः।

'कवयो वनिता वल्ल्यो न तिष्ठन्ति निराश्रयाः' इति कथनानुसारमेव यावत्पर्यन्तं देशे राजानः काव्यमर्मज्ञा आसंस्तावत्पर्यन्तं काव्यस्याबाधरूपेण विकासः समभवत् । तेषां आश्रयेण कवयोऽपि कृतकृत्या आसन् । सन्त्यनेकानि निदर्शनांनि यद्राजाश्रयेणैव कवय कृतकार्या अभृवन् । पाणिनेः नन्दी, कात्यायनस्य योगनन्दः, पतञ्जलेः पुष्यमित्रः, सुबन्धोः बिन्दुसारः, वत्सेश्वरश्च, कालिदासस्य विक्रमादित्योपाधिधारी शुद्रकः, अश्वघोषस्य कनिष्कः, भारवेविष्णुवर्धनः, भट्टेः श्रीधरसेनः, बाणस्य श्रीहर्षः, माघस्य श्रीभोजः, वाक्पतिराजस्य भवभूतेश्च यशोवर्मा, रत्नाकरस्यावन्तिवर्मा, हलायुधस्य कृष्णः, पद्मगुप्तस्य भोजः, मङ्खस्य जयसिंहः, कल्हणस्य जल्हणस्य च सोमपालः, सन्ध्याकरनन्दिनो रामपालः, हेमचन्द्रस्य कुमारपालः, कविराजस्य कामदेवः, श्रीहर्षस्य विजयचन्द्र-जयचन्द्रौ, चण्डस्य पृथ्वीराजः, अरिसिंहस्य वीरधवलः, वासुदेवस्य कुलशेखरः, अगस्त्यस्य विद्यानाथस्य च प्रतापरुद्रदेवः, यज्ञनारायणस्याच्युतः, नीलकण्ठस्य तिरमलनायकः, जगन्नाथस्य शाहजहानश्चाश्रयभूता राजान आसन्निति तत्तदग्रन्थविलोकनतो ज्ञायते । यदा भारतं विदेशिशासनाधीनं सञ्जातं, विशेषतः आङ्गलशासनस्य ततः प्रभृति राजानः गतश्रीका अजायन्त सहैव कविपरम्पराऽपि निरुद्धेति । उक्तं च -

गतास्ते राजानो य इह कृतिनं बिभ्रति कविं

प्रयातास्ते विज्ञा य इह वचसाऽर्चन्ति सुकविम् ।

वणिग्द्वाःस्थः कुर्यात्कथमयमहो काव्यममलं

स्मरंस्तान् स्वं निन्दन्निह वसति कश्चिद्गतवयः ।। इति ।

तथा च -

सा रम्यानगरी महान् स नृपतिः सामन्तचक्रञ्च तत्

पार्श्वे तस्य च सा विदग्धपरिषत्ताश्चन्द्रबिम्बाननाः।

उद्वृत्तः स च राजपुत्रनिवहस्ते वन्दिनस्ताः कथाः

सर्वं यस्य वशादगात् स्मृतिपथं कालाय तस्मै नमः ।।

यथाऽऽह पाजकः -

लक्ष्मीपङ्कलङ्किताः परिमितक्ष्माखण्डपिण्डीभुजो

गर्वग्रन्थिविसंस्थुलैरवयवैर्नेपथ्यकन्थामृतैः।

एते कीदृश ईश्वराः कुपतयः किं वाऽनया चार्चया

यस्त्रैलोक्यविलक्षणः फलतु नः सत्यं स एवेश्वरः ॥ इति ।

पाणिनिः[सम्पादयतु]

मुख्यलेखः : पाणिनिः

पाणिनिर्हि महामुनिः न केवलं व्याकरणसंहितामेव प्रणिनायापितु स जाम्बवतीजयाख्यं महाकाव्यमपि विरचितवानासीत् । स हि भगवान् कुत्रत्यः किङ्कालिको वेति नाद्यापि पार्यते निश्चेतुम् । जनाः कथयन्ति यत्स हि पेशावरनिकटस्थितः शालातुरग्रामो हि पाणिनेर्जन्मस्थानं, तस्य च स्थितिकालो बुद्धसमकालिको वा तस्मादपि प्राग्वर्तीति । अधिकांशविचक्षणा विश्वसन्ति यत्पाणिनिः प्रद्योतवंशस्य मागधस्य राज्ञो नन्दिवर्धनस्य मित्रमासीत् । स हि महाभारतयुद्धकालात् ११३० वर्षानन्तरं मगधस्य सम्राडासीत् प्रद्योतात् पञ्चमः पुरुषः । तेन हि कलेः १८५६ वर्षेषु व्यतीतेषु तस्य स्थितिकालो यो हि नृपविक्रमार्कात् ११८९ वर्षपूर्वं राजतरङ्गिणीकारसम्मतमानानुसारेणापतति, श्रीमद्भागवतानुसारेण तु १९१५ वर्षपूर्वम् । पाणिनिः दाक्षीपुत्र-शालातुरीयादिनामभिरपि ज्ञायते परवर्तिभिः विचक्षणैः । यथोक्तं त्रिकाण्डशेषे -

पाणिर्निस्त्वाहिको दाक्षीपुत्रः शालङ्किपाणिनौ।

शालीतरीयः...........।।[१]

पाणिनिः भारतस्योत्तरे भागे यत्र कुत्राऽप्यासीत् इति मन्यते। अधिकं तदेतदेव सम्भवति यत्स साम्प्रतिकपञ्चनदप्रदेशे जन्म लब्ध्वा स्वीयं जीवनं पाटलिपुत्रे यापयामासेति । स हि पाटलिपुत्रवास्तव्यस्य वर्षाचार्यस्य शिष्य आसीत् । तेन शङ्करप्रसादाद् व्याकरणं लब्ध्वा प्रकाशितमिति भट्टसोमेश्वरप्रणीतात् कथासरित्सागरतो ज्ञायते । राजशेखरश्च स्मरति काव्यमीमांसायाम् -

अत्रोपवर्षवर्षाविह पाणिनिपिङ्गलाविह व्याडिः।

वररुचिपतञ्जली इह परीक्षिताः ख्यातिमुपजग्मुः।। इति ।

आधुनिकलेखकास्तु कतिपये पौरस्त्या वा पाश्चात्याः पाणिनेः स्थितिकाले विक्रमपूर्वसप्तमशतकादारभ्य चतुर्थशतकपर्यन्तं मन्यन्ते । यद्यपि कतिपये विचक्षणाः पाणिनेः काव्यप्रणेतृत्वे ससन्देहास्तथापि भूयांसो हि बुधास्तद्विश्वसन्ति । राजशेखरः कथयति -

नमः पाणिनये तस्मै येन रुद्रप्रसादतः ।

आदौ व्याकरणं प्रोक्तमनु जाम्बवतीजयम्॥

तस्य हि काव्यं पातालविजयनाम्नाऽपि प्रसिद्धम् । काव्यमिदं सम्प्रति स्वरूपेण तु नैवोपलभ्यते किन्तु यत्र कुत्र समुद्धतास्तत्रत्या इति कथिता अंशा एव लभ्यन्ते । दिङ्मात्रं यथा -

उपोढरागेण विलोलतारकं तथा गृहीतं शशिना निशामुखम्।

यथा समस्तं तिमिरांशुकं तथा पुरोऽपि रागाद्गलितं न लक्षितम्।।

गतेऽर्धरात्रे परिमन्दमन्दं गर्जन्ति यत्प्रावृषि कालमेघाः।

अपश्यती वत्समिवेन्दुबिम्बं तच्छर्वरि गौरिव हुङ्करोति।।

विलोक्य सङ्गमे रागं पश्चिमायां विवस्वतः।

कृतं कृष्णं मुखं प्राच्या न हि नार्यो विनेर्ण्यया।।

निरीक्ष्य विद्युन्नयनैः पयोदो मुखं निशायामभिसारिकायाः।

धारानिपातैः सह किन्नु वान्तश्चन्द्रोऽयमित्यार्ततरं ररास।।

ऐन्द्रं धनुः पाण्डुपयोधरेण शरद्दधानार्द्रनखक्षताभम्।

विनोदयन्ती सकलङ्कमिन्दु तापं खेरभ्यधिकञ्चकार।

व्याडिः[सम्पादयतु]

मुख्यलेखः : व्याडिः

मेधाव्यपरनामकेन व्याडिना बलचरितं नाम महाकाव्यं प्रणीतमासीदिति समुद्रगुप्तस्य कृष्णचरिते मुनिकविवर्णनप्रसङ्गे उल्लिखति यत्-

रसाचार्यः कविर्व्याडिः, शब्दब्रह्मैकवाङ्मुनिः।

दाक्षीपुत्रवचोव्याख्यापटुर्मीमांसकाग्रणीः।।

बलचरितं कृत्वा यो जिगाय भारतं व्यासञ्च।

महाकाव्यविनिर्माणे तन्मार्गस्य प्रदीपमिव।। इति।

व्याडिर्हि मेधावी नन्दस्य मागधस्य समये पाटलिपुत्रे वर्षाचार्यस्य शिष्य आसीदिति कथासरित्सागरतो ज्ञायते । राजशेखरोऽपि पाटलिपुत्रे व्याडेरवस्थितिं समर्थयति कथनेनानेन -

अत्रोपवर्षवर्षाविह पाणिनिपिङ्गलाविह व्याडिः।

वररुचिपतञ्जली इह परीक्षिताः ख्यातिमुपजग्मुः।।

इति मागधो हि नन्दो विष्णुपुराणगणनानुसारेण कलेः २२४५ वर्षेषु व्यतीतेषु स्थितिमानित्यनुमितः । तदनुसारेण हि तस्यापि स्थितिकालो विक्रमपूर्वं ४०० वर्षाण्यभितः सम्भवति । राजतरङ्गिणीकारानुसारेण त्वेवम् । श्रीमद्भागवतानुसारेण तु स समयः कलेः १५०० वर्षेषु व्यतीतेषु, समापतति, यश्च नृपविक्रमार्कात् १५४५ वर्षपूर्वं सम्भवति ।

व्याडेर्महाकाव्यमपि स्वरूपेण तु नैवोपलभ्यते सम्प्रति किन्तु अज्ञातकर्तृकायाममरकोषटीकायां 'कमपि भूभुवनाङ्गणकोणम्' इति 'व्याडिभाषासमावेशः' इति स्मृतं लभ्यते । नैतदधिकं विषये विवरणं प्राप्यते।

व्याडिः (मेधावी) अलङ्कारशास्त्रमपि प्रणीतवानासीदिति काव्यालङ्कारकृतो भामहस्य ‘इति मेधाविनोदिताः' इति स्मरणाज्ज्ञायते । अग्निपुराणेऽपि मेधाविरुद्रौ हि काव्याचार्यत्वेन स्मृतौ स्तः।

वररुचिः[सम्पादयतु]

मुख्यलेखः : वररुचिः

वररुचिः कात्यायनो मेधाजिल्कात्यपुनर्वसुनामभिरपि ज्ञातः । स हि कथासरित्सागरानुसारेण मागधस्य योगनन्दस्य मन्त्री आसीत् । योगनन्दश्च कलेः २२४५ वर्षेषु व्यतीतेषु अभिषिक्त आसीदिति विष्णुपुराणकृतगणनातो ज्ञायते । तेन हि स नृपविक्रमार्कात् ८०० वर्षपूर्वं स्थितिमानित्यनुमीयते।

वररुचेः पाणिनीयव्याकरणोपरि वार्तिकानि तु प्रसिद्धान्येव । पाणिनिना हि भगवता सूत्रात्मिका व्याकरणसंहिता प्रणीता। तस्याः व्याडिना विन्ध्यस्थ-नन्दिनीसुत-मेधाविप्रभृत्यपरनामकेन वृत्तिः प्रणीता। तदाधृत्य वररुचिना तस्या उपरि वार्तिकानि प्रणीतानि । तदतिरिक्तमनेन स्वर्गारोहणाख्यं काव्यमपि प्राणायीति समुद्रगुप्तस्य कृष्णचरिते मुनिकविवर्णनप्रसङ्गे उल्लिखितं यत् -

यः स्वर्गारोहणं कृत्वा स्वर्गमानीतवान् भुवि।

काव्येन रुचिरेणैव ख्यातो वररुचिः कविः।।

न केवलं व्याकरणं पुपोष दाक्षीसुतस्येरितवार्तिकैर्यः ।

काव्येऽपि भूयोऽनुचकार तं वै कात्यायनोऽसौ कविकर्मदक्षः।। इति ।

जह्वणकृतसूक्तिमुक्तावल्यां तु -

यथार्थता कथं नाम्नि मा भूद्वररुचेरिह।

व्यधत्त कण्ठाभरणं यः सदा (स्वर्गा) रोहणप्रियः।।

इति राजशेखरसम्बन्धेनोक्तमस्ति । न केवलमेतावन्मात्रमपितु पातञ्जलेः महाभाष्येऽपि[२] 'वाररुचं काव्यम्' इत्युक्तमस्ति । अस्य ह्यनेके श्लोकाः शार्ङ्गधरपद्धतौ, सदुक्तिकर्णामृते, सुभाषितरत्नावल्याञ्च समुद्धृता दृश्यन्ते, किन्तु ग्रन्थस्तु स्वरूपेण नैव सम्प्रति लभ्यते ।

पतञ्जलिः[सम्पादयतु]

मुख्यलेखः : पतञ्जलिः

महाभाष्यकारेण भगवता पतञ्जलिनाऽपि महानन्दमयं नाम महाकाव्यं प्रणीतमासीदिति समुद्रगुप्तस्य कृष्णचरिते मुनिकविवर्णनप्रसङ्गे उल्लिखितं यत्-

महाकाव्यमयं काव्यं योगदर्शनमद्भुतम्।

योगव्याख्यानभूतं तद्रचितं चित्तदोषापहम्।। इति।

पतञ्जलिः गोनदीर्यः पुष्यमित्रस्य शुङ्गस्य मागधस्य समकालिकः आसीदिति तस्य 'इह पुष्यमित्रं याजयामः' इति महाभाष्ये वचनाज्ज्ञायते । पुष्यमित्रो हि कलेः २५१३ वर्षेषु यातेषु साम्राज्यमलभतेति तस्य विक्रमपूर्वं ५३२ वर्षाण्यभितः स्थितिः सिध्यति । एतत्तु राजतरङ्गिणीकाराशयेन । श्रीमद्भागवतानुसारेण तु कालोऽयं विक्रमपूर्वं १२५८ वर्षाण्यभितः आपतति। पतञ्जलेर्महाकाव्यं तु सम्प्रति स्वरूपेण नैवोपलभ्यते किन्तु यत्र तत्र स्मृतं दृश्यते । कथ्यते हि महाभाष्ये अस्य कतिपये श्लोका वा तच्चरणा उद्धृताः सन्ति। सदुक्तिकर्णामृते पातञ्जलश्लोकरूपेण उद्धृतमस्ति -

यद्यपि स्वच्छभावेन दर्शयत्यम्बुधिर्मणीन्।

तथापि जानुदध्ने (ध्नो)यमिति चेतसि मा कृथाः।। इति।

कालिदासः[सम्पादयतु]

मुख्यलेखः : कालिदासः

कालिदासनाम्ना बहवः ग्रन्थाः श्रूयन्ते । तेषु अपि काश्चन प्रसिद्धाः रचनाः अत्र कथ्यन्ते - रघुवंशमहाकाव्यं, कुमारसम्भवमहाकाव्यं, मेघदूतकाव्यम्, ऋतुसंहारं चेति खण्डकाव्यद्वयं, मालविकाग्निमित्रं, विक्रमोर्वशीयम् अभिज्ञानशाकुन्तलं चेति त्रीणि नाटकानि । कुन्तलेश्वरदैत्यकाव्यं, राक्षसकाव्यं, दुर्घटकाव्यं, वृन्दानकाव्यं, विद्वद्विनोदकाव्यं, श्रुतबोधः, पुण्यबाणविलासः, नवरत्नमाला, ज्योतिर्विदाभरणं, च ।

अश्वघोषः[सम्पादयतु]

मुख्यलेखः : अश्वघोषः

अश्वघोषस्य कृतित्वेन बहवो ग्रन्थाः प्रसिद्धा येषु सौन्दरनन्दं बुद्धचरितं च महाकाव्ये, सूत्रालङ्कारो वज्रसूचिश्च द्वौ बौद्धदर्शनग्रन्थौ, गण्डिस्तोत्रं गाथाग्रन्थः, शारिपुत्रप्रकरणञ्च प्रसिद्धानि ।

बुद्धघोषः[सम्पादयतु]

मुख्यलेखः : बुद्धघोषः

बुद्धघोषस्य हि बौद्धस्य दशसर्गात्मकं पद्मचूडामणिसंज्ञकं महाकाव्यं स्मर्यते । स हि बौद्धग्रन्थव्याख्याकृत्त्वेन सश्रद्धं स्मृतेषु चतुर्षु विद्वत्स्वन्यतमः। शेषाश्च नागसेन-बुद्धत्त-धर्मपालाः । विशुद्धिमार्गः (विसुद्धिमग्ग) महावंशः, अट्टकथाश्चास्य कृतित्वेने प्रसिद्धाः । कथ्यते हि सः प्रथमं ब्राह्मण आसीत्पश्चाच्च बौद्धधर्ममङ्गीकृतवान्। तस्य हि ग्रन्थे कालिदासाश्वघोषयोः स्पष्टः प्रभावः परिलक्ष्यते । बौद्धविवरणानुसारेण ४६२ मितवैक्रमाब्दे त्रिपिटकस्य पालीरूपान्तरानयनाय लङ्कां प्रेषितः आसीत् । तस्य हि ग्रन्थः ५६३ वैक्रमाब्दे चीनीभाषायां रूपान्तरित आसीदतो हि तस्य स्थितिकालः ४६० मितवैक्रमाब्दमभितः सम्भाव्यः ।

भीमकः[सम्पादयतु]

मुख्यलेखः : भीमकः

भीमकस्य अपरं नाम भीमः। तस्य महाकवेः रावणार्जुनीयं वा अर्जुनरावणीयं नाम महाकाव्यं स्मृतं दृश्यते समालोचकैः। तच्च अष्टाध्याय्याः काशिकावृत्तौ समुद्धतमपि दृश्यते । तेनास्य स्थितिकालो वैक्रमपञ्चमशतकसन्निकर्षे एव क्वचित्सम्भाव्यः ।

भर्तृमेण्ठः[सम्पादयतु]

मुख्यलेखः : भर्तृमेण्ठः

राजशेखरेण वाल्मीकिसमकक्षत्वेन स्मृतो भर्तृमेण्ठः उज्जयिनीचक्रवर्तिनः श्रीहर्षाख्यस्य विक्रमादित्यस्य शकारेः कृपाभाजनस्य मातृगुप्तस्य सभापण्डितः काश्मीरकः आसीत् । संस्कृतसाहित्ये तस्य नाम प्रतिभाशालिविचक्षणेषु गण्यते । यथोक्तं राजशेखरेण -

बभूव वल्मीकभवः पुरा कविस्ततः प्रपेदे भुवि भतृमेण्ठताम्।

स्थितः पुनर्यो भवभूतिरेखया स वर्तते सम्प्रति राजशेखरः ।। इति।

असौ कविवरो हि मातृगुप्तसमकालीनः । मातृगुप्तो हि उज्जयिनीपतेः श्रीहर्षस्य समकालिकः । तेनाऽस्य समयो वैक्रमं ४८७ मिताब्दसन्निकर्ष एव क्वचितसम्भाव्य इति द्विजेन्द्रनाथमतम् ।[३]

अस्य हि हयग्रीववधं महाकाव्यं स्मर्यते यदधुना स्वरूपतो नैवोपलभ्यते । यथोक्तं राजतरङ्गिण्यां -

हयग्रीववधं मेण्ठस्तदग्ने दर्शयन्नवम् ।[४]

एवमेव राजशेखरः कथयति -

इह कालिदासभर्तृमेण्ठावत्तामररूपसूरभारवयः ।

हरिचन्द्रचन्द्रगुप्तौ परीक्षिताविह विशालायाम् ॥

भोजदेवः कथयति -

यस्मिन्नितिहासार्थानपेशलान् पेशलान् कविः कुरुते ।

स हयग्रीववधादिप्रबन्ध इव सर्गबन्धः स्यात् ।।[५]

धनपाल उद्गिरति -

वक्रोक्त्या भर्तृमेण्ठस्य वहन्त्या सृणिरूपताम् ।

आविद्धा इव धुन्वन्ति मूर्धानं कविकुञ्जराः।।

पद्मगुप्तः कथयति -

पूर्णेन्दुबिम्बाऽपि सुन्दराणि तेषामदूरे पुरतो यशांसि।

ये भर्तृमेण्ठादिकवीन्द्रसूक्तिव्यक्तोपदिष्टेन यथा प्रयान्ति॥[६]

यथा कथयति परिमलकालिदासोऽपि -

तत्त्वस्पृशस्ते कवयः पुराणाः श्रीभर्तृमेण्ठप्रमुखा जयन्ति ।

निस्त्रिंशधारासदृशेन येषां वैदर्भमार्गेण गिरः प्रवृत्ताः ।।

मातृगुप्तः[सम्पादयतु]

मुख्यलेखः : मातृगुप्तः

उज्जयिनीचक्रवर्तिनो विक्रमादित्यस्य श्रीहर्षस्य कृपया लब्धकाश्मीरराजसिंहासनो मातृगुप्तः स्वसमयस्योत्कृष्टतमः कविरासीत् । मातृगुप्तस्य स्थितिकालो नाद्यापि संनीर्णीतः। तस्य हि शूद्रकजयं नाम काव्यं प्रथितमासीत् । स हि जन्मनाऽऽवान्तिकः स्मृतः । तस्य हि पद्यानि यत्र तत्र समुद्धृतानि दृश्यन्ते। यथौचित्यविचारचर्चायां -

नायं निशामुखसरोरुहराजहंसः कीरीकपोलतलकान्ततनुः शशाङ्कः।

आभाति नाथ तदिदं दिवि दुग्धसिन्धु-डिण्डीरपिण्डपरिपाण्डु यशस्त्वदीयम्।।

एतदतिरिक्तं निम्नाङ्कितं पद्यमपि मातृगुप्तप्रणीतत्वेन कथितम् -

शीतेनोद्धृषितस्य माषशिमिवच्चिन्तार्णण मज्जतः

शान्ताग्निं स्फुटिताधरस्य धमतः क्षुत्क्षामकण्ठस्य मे।

निद्रा क्वापि विमानितेव दयिता सन्त्यज्य दूरङ्गता

सत्पात्रप्रतिपादितेव वसुधा न क्षीयते शर्वरी ।।

समुद्रगुप्तस्य कृष्णचरिते उक्तमस्ति यत्--

मातृगुप्तो जयति यः कविराजो न केवलम्।

कश्मीरराजोऽप्यभवत् सरस्वत्याः प्रसादतः।।

विधाय शूद्रकजयं सर्गान्तानन्दमद्भुतम्।

न्यदर्शयत् वीररसं कविरावन्तिकः कृतिः।।[७]

हरिचन्द्रः[सम्पादयतु]

मुख्यलेखः : हरिचन्द्रः

हरिचन्द्रकविविषये स्वल्पमेव विवरणं प्राप्यते। समुद्रगुप्तस्य कृष्णचरिते राजकविवर्णनप्रसङ्गे उक्तमस्ति -

निजकीर्तेर्वैजयन्ती कर्णकीर्तिं चकार यः।

हरिचन्द्रो विजयते पाञ्चालक्षितिपः कविः ॥[८] इति ।

अनेनैतत् मन्यते यद्, हरिचन्द्रः पाञ्चालनरेन्द्र आसीदासीच्च तस्य काव्ययशः सुविख्यातं न केवलं स्वसमयेऽपि तु पश्चाद्वर्तिनि कालेऽपि । यथा स्मरति राजशेखरः -

इह कालिदासभर्तृमेण्ठावत्रामररूपसूरभारवयः।

हरिचन्द्रचन्द्रगुप्तौ परीक्षिताविह विशालायाम्॥ इति ।

तथैव हर्षचरितेऽप्युक्तम् -

पदबन्धोज्ज्वलो हारी कृतवर्णक्रमस्थितिः।

भट्टारहरिचन्द्रस्य गद्यबन्धो नृपायते।। इति ।

अस्य हि कर्णकीतिर्नाम काव्यं प्रसिद्धम् ।

हरिषेणः[सम्पादयतु]

मुख्यलेखः : हरिषे

हरिषेणः स्वसम्यस्य सर्वोत्कृष्टः कविरासीदिति समुद्रगुप्तस्य कृष्णचरिते राजकविवर्णनप्रसंगे ग्रथितान्निम्नाङ्कितपद्यात् मन्यते -

तुङ्गं ह्यमात्यपदमाप्तदशः प्रसिद्धं भुक्त्वा चिरं पितुरिहास्ति सुहृन्ममायम्।

सन्धौ च विग्रहकृतौ च महाधिकारी विज्ञः कुमारसचिवो नृपनीतिदक्षः॥

काव्येन सोऽद्य रघुकार इति प्रसिद्धो यः कालिदास इतिः_____महार्हनामा।

प्रामाण्यमाप्तवचनस्य च तस्य धर्म्ये ब्रह्मत्वमध्वरविधौ मम सर्वदैव ।।

चत्वार्यन्यानि काव्यानि व्यदधाच्च लघूनि यः प्रभावयच्च मां कर्तुं कृष्णस्य चरितं शुभम्।

हरिषेणकविर्वाग्मी शास्त्रशस्त्रविचक्षणः यशोऽलभत काव्यैः स्वैर्नानाचरितशोभनैः।।

येषां न केवलं काव्यं श्रेष्ठं धर्मार्थकामदम् राजता वा राजनीतिरूपकर्त्री मनःस्थिता।

ते राजकवयोऽमात्याः शुद्धकर्मगुणैर्भुवि वर्णिताश्चाष्टगुरवो दिङ्नागप्रतिपक्षिणः।।[९] इति ।

हरिषेणो हि ध्रुवभूतेः पुत्रः समुद्रगुप्तसमकालीन आसीदिति समद्रगुप्तस्य प्रयागस्तम्भाभिलेखतोऽपि ज्ञायते । अभिलेखोऽयं तिलभट्टानुष्ठितः ४०७ मितवैक्रमवत्सरप्रतिष्ठापितः । यथोक्तं तत्र -

३१. •••••••एतच्व काव्यमेषामेव भट्टारकपादानां दासस्य समीपपरि सर्प्पणानुग्रहोन्मीलितमतेः।। ३२. खाद्यटपाकिकस्य महादण्डायकध्रुवभूतिपुत्रस्य सान्धिविग्रहिककुमारामात्यमहादण्डनायकहरिषेणस्य सर्वभूतहितसुखायास्तु । इति । काव्यञ्च यथा -

३०. प्रदानभुजविक्रमप्रशंमशास्त्रवाक्योदयै-

रूपर्युपरिसञ्चयोच्छितमनेकमार्गं यशः।

पुनाति भुवनत्रयं पशुपतेर्जटान्तगुहा

निरोधपरिमोक्षशीघ्रमिव पाण्डु गाङ्गं पयः ।। इति ।

समुद्रगुप्तो हि मगधसम्राट् प्रथमचन्द्रगुप्तस्य पुत्रो घटोत्कचस्य राज्ञः पौत्रः श्रीगुप्तस्य प्रपौत्रः ३९२-४३२ मितवैक्रमाब्दानाभितो महीं शासितवान् ।

हरिषेणेन हि पञ्च काव्यानि प्रणीतान्यासन्निति समुद्रगुप्तस्य कृष्णचरितोल्लेखात् मन्यते । यत्रैकं रघुवशं चत्वार्यन्यानि लघूनि । किन्तु हरिषेणस्य रघुवंशंकर्तृत्वं नैव सन्देहबाह्यम् । एकतो रघुवंशं हि काव्यं कालिदासकर्तृत्वेन प्रसिद्धमेव । अपरञ्च समुद्रगुप्तस्य तत्समर्थकवचनमपि न तथा स्पष्टम् । यथा हि -

काव्येन सोऽद्य रघुकार इति प्रसिद्धो यः कालिदास इति महार्हनामा ॥ इति ।

अत्र हि इतिशब्दस्य स्थाने इवशब्दपाठोऽपि सम्भवति । तथा हि सति -

काव्येन सोऽद्य रघुकार इव प्रसिद्धो यः कालिदास इति (दिक्षु ) महार्हनामा । इति भवति ।

स्यादेतद्वा न वा, एतावत् मन्यते यद्, हरिषेणः स्वसमये उत्कृष्टः पण्डितः कविश्वासीत् । तस्य हि गद्यपद्यमयी भाषा समुद्रगुप्तस्य प्रयागशिलास्तम्भेऽद्यापि द्रष्टुं शक्यते ।

समुद्रगुप्तः[सम्पादयतु]

मुख्यलेखः : समुद्रगुप्तः

मगधसम्राट समुद्रगुप्तः स्वसमयस्य प्रतिष्ठितः कविराज आसीदिति तस्यैव प्रयागशिलास्तम्भलेखतो ज्ञायते । यथोक्तं तत्र -

(२७) निशितविदग्धमतिगान्धर्वललितैर्बीडितगुरुतुम्बुरुनारदादेः विद्वज्जनोपजीव्यानेककाव्यक्रियाभिः प्रतिष्ठितकविराजशब्दस्य.......इत्यादि ।

यस्य हि कृष्णचरितं नाम महाकाव्यमासीद्यद्धि सम्प्रति खण्डितरूपेणैव लभ्यते । तद्धि प्रथमं जीवाराममहाभागेन सविवरणं १९९८ मितवैक्रमाब्दे प्रकाशितमासीत् । तदेव पुनः युधिष्ठिरमहाभागेन स्वीये संस्कृतव्याकरणशास्त्रेतिहासनामके ग्रन्थे तस्य तृतीयभागे सप्तमपरिशिष्टरूपेण प्रकाशितं दृश्यते । काव्यस्यास्य सम्प्रति प्रस्तावनाभाग एव लभ्यते यत्र हि मुनिकवयो राजकवयो जीविकाकेवय इति त्रीणि शीर्षकाणि दृश्यन्ते । मुनिकविवर्णनप्रसङ्गे दश मुनिकवयः स्मृताः यत्र प्रथमस्तु लुप्तपाठः । तत्र युधिष्ठिरमहाभागमतेन पाणिनिः स्मृतो भवति वररुचिप्रसङ्गे 'काव्येन भूयोऽनुचकार तं वै' इति कथनात् । स्यादप्येतत् । तेन प्रथमो जाम्बवतीविजयकाव्यकृत्पाणिनिः, ततश्च क्रमेण कण्ठाभरणकृत् शाख्यायनः, स्वर्गारोहणस्य कर्ता वररुचिः कात्यायनः, बलचरितकृद् व्याडिः, इंन्द्रविजयस्य प्रणेता देवलः, महानन्दमयकृत्पतञ्जलिः, विंशत्यधिकनाटकानां प्रणेता भासः, भीमजयस्य प्रणेता वर्धमानः, बुद्धचरितस्य कर्ता चीनदेवः, सूर्यस्तवस्य प्रणेता मिहिरदेवश्च । तथैव, राजकविवर्णनप्रसङ्गे वत्सराजचरितस्य प्रणेता सुबन्धुः, मृच्छकटिकस्य कर्ता शुद्रकः, अभिज्ञानशाकुन्तलस्य अन्येषामपि त्रयाणां लघुनाटकानां कर्ता कालिदासः, सौनन्दस्य बुद्धचरितस्य प्रणेता घोषः (अश्वघोषः) शूरापराभिधानः, कर्णकीर्तेः प्रणेता हरिचन्द्रः, शूद्रकजयस्य कर्ता मातृगुप्तः, रघुकार इति प्रसिद्धः, अन्येषामपि त्रयाणां लघुकाव्यानां प्रणेता कालिदासापराभिधानो हरिषेणश्चेत्यष्टौ स्मृताः । जीविकाकविवर्णनस्य तु समग्रोऽपि भागः प्रणष्टो दृश्यते ।

वत्सभट्टिः[सम्पादयतु]

मुख्यलेखः : वत्सभट्टिः

वत्सभट्टिः स्वसमयस्य प्रख्यातः कविरासीदिति बन्धुवर्मणो मन्दसोरशिलास्तम्भाभिलेखाज्ज्ञायते । यथोक्तं तत्र -

२३. पूर्वा चेयं प्रयत्नेन रचिता वत्सभट्टिना ॥४४॥ इति।

अभिलेखेऽस्मिन् समष्ट्या चतुश्चत्वारिंशच्छ्लोकाः विद्यन्ते काव्यमयाः यत्र हि कालिदासीयकौशलस्य स्पष्टः प्रभावो दृश्यते । यथा हि -

चलत्पताकान्यवलासनाथान्यत्यर्थशुक्लान्यधिकोन्नतानि।

तडिल्लताचित्रसिताभ्रकूटतुल्योपमानानि गृहाणि यत्र।।१०।।

विद्युद्वन्तं ललितवनिताः सेन्द्रचापं सचित्राः, सङ्गीताय प्रहतमुरजाः स्निग्धगम्भीरघोषम्।

अन्तस्तोयं मणिमयभुवस्तुङ्गमभ्रंलिहाग्राः, प्रासादास्त्वां तुलयितुमलं यत्र तैस्तैर्विशेषैः।।[१०]

कवेरस्य उक्तशिलास्तम्भलेखाधारेण विक्रमानन्तरं ५१३ मितवत्सरमभितोऽनुमितः स्थितिकालः।

कुब्जः[सम्पादयतु]

मुख्यलेखः : कुब्जः

कुब्जाख्यः कविः शान्तिवर्मणः प्रशस्त्यात्मकं काव्यं स्वयमेव प्रणीय तदुट्टङ्कितवानिति तलगुण्डास्थितशिलास्तम्भाभिलेखतो ज्ञायते । तत्र हि चतुस्त्रिंशत्पाद्यनि काव्यमयानि सन्ति ।तत्रोक्तमवसाने -

१४. तस्यौरसस्य तनयस्य विशालकीर्तेः, पट्टत्रयापणविराजितचारुमूर्तेः।

श्रीशान्तिवर्मनृपतेर्वरशासनस्थः कुब्जः स्वकाव्यमिदमश्मतले लिलेख ॥३४॥

स्थितिकालश्चास्योक्ताभिलेखानुसारमेव विक्रमानन्तरं ५१२ मितवर्षमभितोऽनुमितः ।

वासुलः[सम्पादयतु]

मुख्यलेखः : वासुलः

वासुलो हि कविः कक्काख्यस्य पुत्रो यशोधर्मप्रशस्त्यात्मकमेकमष्टाविंशतिपद्यात्मकं काव्यमपरं नवश्लोकात्मकं काव्यद्वयं प्रणिनायेति यशोधर्मदेवस्य मन्दसारशिलास्तम्भाभिलेखतो ज्ञायते । यथोक्तं तत्र -

९. इति शुश्रूषया तस्य नृपतेः पुण्यकर्मणः ।

वासुलेनोपरचिताः श्लोकाः कक्कस्य सूनुना ॥९॥ 'उत्कीर्णा गोविन्देन।'

तस्य हि काव्यकौशलं निभाल्यतामत्र । यथा-

२२. यस्मिन् काले कलमृदुगिरां कोकिलानां प्रलापाः

भिन्दन्तीव स्मरशरनिभाः प्रोषितानां मनांसि।

भृङ्गालीनां ध्वनिरनुवनं भारमन्द्रश्च यस्मि-

न्नाधूतज्यं धनुरिव नदच्छ्रूयते पुष्पकेतोः ॥२५॥

२३ प्रियतमकुपितानां कम्पयन् बद्धरागं, किसलयमिव मुग्धं मानसं माननीनाम्।

उपनयति विवस्वानं मानभङ्गाय यस्मिन्, कुसुमसमयमासे तत्र निर्म्मापितोऽयम्।।२६।।

भारविः[सम्पादयतु]

मुख्यलेखः : भारविः

संस्कृतमहाकाव्यपरम्परायां भारवेस्तृतीयं स्थानं कालक्रमदृष्ट्या । स हि संस्कृतकाव्यजगति अलङ्कृतशैल्याः प्रथम उन्नायकः पण्डितयुगस्य प्रवर्तकश्च । तस्य किरातार्जुनीयं महाकाव्यं प्रसिद्धं यद्धि काव्यसर्वस्वभूतयोर्भावकक्षापक्षयोः समन्वयापेक्षयापि कवेः पाण्डित्यप्रदर्शनमेव प्राधान्येनावलम्बते।

भट्टिः[सम्पादयतु]

मुख्यलेखः : भट्टिः

भट्टिः भट्टिकाव्यस्य रचयिता। भट्टिकाव्यस्य अपनं नाम रावणवधम् इति। व्याकारणं पाठयितुं रचितः अयं ग्रन्थः काव्यरसम् अपि प्रयच्छति। भट्टिः सौरष्ट्र-प्रदेशस्य निवासी आसीत्। वत्सभट्टिना सह अस्य ऐक्यं विषये अनेके विवादाः सन्ति। भर्तृहरिणा सह अपि अस्य ऐक्यविवादः प्रसिद्धः।

कुमारदासः[सम्पादयतु]

मुख्यलेखः : कुमारदासः

कुमारदासस्य जानकीहरणमपि संस्कृतसाहित्ये लब्धप्रतिष्ठा कृतिः । कथ्यते हि यद्रघुवंशे स्थिते सति जानकीहरणं कर्तुं कुमारदासो वा रावण एव क्षमो नान्य इति । अत्रैकतः रघुवंशे इति कालिदासग्रथितकाव्ये तदाख्येऽपरतस्तु रघुवंश्ये रामे इति। कथ्यते हि कुमारसेनो भावपक्षे कालिदासस्य कलापक्षे भारवेरधमर्णस्तथैव भट्टिकवैश्च ।

माघः[सम्पादयतु]

मुख्यलेखः : माघः

'माघे सन्ति त्रयो गुणाः' इति कथनेन माघस्य कालिदासभारविदण्डिनामेकायतनीभूतं स्वरूपमाख्यायते । तस्य हि शिशुपालवधं नाम महाकाव्यं जगति प्रसिद्धमस्ति। 'नवसर्गगते माघे नवशब्दो न विद्यते', 'माघे माघे गतं वयः' इत्याद्युक्तिभिः बहुप्रशंसितस्य महाकाव्यस्य प्रणेतृनाम्नैव समाधिका ख्यातिः।

इतः पूर्वं ये महाकवयो जाताः विशेषतः कालिदास-अश्वघोष-भारवि-भट्टि-कुमारदासाः तेषां हि प्रातिस्विकं वैशिष्ट्यमितरेभ्यः पृथवकृत्य तान् परिचाययति । कालिदासो हि रससिद्धः कविः भारविस्तु कलापक्षपोषकः अश्वघोषो हि दार्शनिकः भट्टिस्तु वैयाकरणः । कुमारदास्तु कालिदासशैलीपोषकः । कालिदासकुमारदासयोरिदमेवान्तरं यत्प्रथमः स्वाभाविकगत्या प्रयासं विनैव प्रवहति यदाऽपरस्तारस्मिन्नेव पथि सप्रयासं धावति । उभावेव भावपक्षोन्नायकौ । भारविभट्टिकयोरिदमेवान्तरं यत्प्रथमः कविरपरस्तु मूलतो वैयाकरणः । कथ्यते हि माघे सर्वेऽपि कवय एकीभूय स्थिताः । तस्मिन् हि कालिदासस्य रसचमत्कारः, अश्वघोषस्य स्वाभीष्टदर्शनसिद्धिः भारवेरर्थगौरवं, भट्टेः व्याकरणप्रयोगपरता च सर्वे एव परस्परं समन्विताः सन्ति ।

रत्नाकरः[सम्पादयतु]

मुख्यलेखः : रत्नाकरः

रत्नाकरः काश्मीरस्थः कश्चन कविः। भोजदेवः (१०६०-११०७ वै०) सादरं कथयति -

"अस्तङ्गतभारविरवि कालवशात्कालिदासविधुविधुरम् ।

निर्वाणबाणदीपं जगदिदमुद्द्योति रत्नेन ।।" इति।

तथैव राजशेखरेण काव्यशास्त्रिणा -

मा स्म सन्तु हि चत्वारः प्रायो रत्नाकरा इमे ।

इतीव स कुतो धात्रा कवी रत्नाकरोऽपरः ।।

इति प्रशंसित रत्नाकरकविः संस्कृतसाहित्ये स्वल्पतमं कथानकमादाय सर्वातिशायिबृहत्कायमहाकाव्यप्रणेतृत्वेन प्रसिद्धः । स राजानक-वागीश्वर-विद्याधिपतिप्रभृत्युपाधिभिवभूषितो दृश्यते । महाकवेरस्य हरविजयं नाम पञ्चाशत्सर्गात्मकं महाकाव्यं, वक्रोक्तिपञ्चाशिका, ध्वनिगाथापञ्जिका च ज्ञाताः ग्रन्थाः ।

आनन्दवर्धनः[सम्पादयतु]

मुख्यलेखः : आनन्दवर्धनः

यद्यपि आलङ्कारिकपङ्क्तौ आनन्दवर्धनः सगर्वं स्मर्यते तथापि तस्य काव्यजगत्यपि न तथा प्रसिद्धिस्तु न तथाऽप्रसिद्धिरपि । तस्य हि अर्जुनचरितं तं महाकविरूपेणाऽपि परिचाययति । अर्जुनचरितं सम्प्रत्यनुपलब्धग्रन्थरत्नेष्वेकम् । आनन्दवर्धनस्य देवीशतकमपि तं तथैव सङ्केतयति यद्यपि तत्स्तुतिकाव्यमेव । अस्य विषमबाणलीलाऽप्यस्य कवित्वं सूचयन्ति । ध्वन्यालोके कतिपयान्युदाहरणानि अर्जुनचरिताद् गृहीतानि दृश्यन्ते।

असौ काश्मीरपालकस्य अवन्तिवर्मणः समकालिकः आसीदिति राजतरङ्गिणीकारस्य निम्नकथनम्

मुक्ताकणः शिवस्वामी कविरानन्दवर्धनः।

प्रथां रत्नाकरश्चागात्साम्राज्येऽवन्तिवर्मणः॥[११] इति।

अवन्तिवर्मा ९१२-९३० मितवैक्रमाब्दान्तरे स्थितिमानासीत् । तस्य सभासद्भूत आनन्दवर्धनोऽपि ८८०-९५० मितवैक्रमाब्दानभितः स्थितिमान् मन्यते।

शिवस्वामी[सम्पादयतु]

मुख्यलेखः : शिवस्वामी

शिवस्वामी अपि आनन्दवर्धन इव अवन्तिवर्मणः सभायामासीदिति राजतरङ्गिणीकथनात् मन्यते।[१२] तेन तस्यापि स्थितिकालोऽवन्तिवर्मकालसम एवेति अनुमीयते, किन्तु स आनन्दवर्धनाज्ज्येष्ठ एव मन्यते। अतोऽस्य कालः ८५०-९३० मितवैक्रमाब्दाभ्यर्णेऽनुमितः। तस्य कप्फनाभ्युदयं नाम महाकाव्यं बौद्धमतानुगम् । कथ्यते हि शैवोऽपि स चन्द्रभित्रनामकबौद्धानुनयेन ग्रन्थमिमं प्रणीतवानिति । काव्यप्रकाशकृन्ममटाचार्यः काव्यादस्मात् - 'उल्लास्यकालकरवालमहाम्बुवाहम्' इति पद्यं ध्वन्युदाहरणक्रमे समुद्धरति ।

कप्फनः लीलावतीनगर्या अधीशो युद्धे स्ववीर्येण श्रावस्तीनरेशं प्रसेनजितं जयति । पराजितः प्रसेनजित् बुद्धं ध्यायति ।ध्यातमात्रो बुद्धः प्रकटीभूय कप्फनं विजयते । कप्फनोऽपि ज्ञातरहस्यो बुद्धं शरणं गच्छति कृतकृत्यश्च भवतीत्यस्य कथासारः । काव्येऽस्मिन् सर्गाः सन्ति विंशतिः । काव्ये तत्र मलयपर्वत-विविधर्तु-कुसुमावचय-जलविहारादिविषयाश्च साधु निभालिताः । सः सफलः कविरासीदिति तस्यैव कथनमस्ति यत् -

विदितबहुकथार्थश्चित्रकाव्योपदेष्टा, यमककविरगम्यश्चारुसन्दानमानी। अनुकृतरघुकारोऽभ्यस्तमेष्टप्रचारो जयति कविरुदारो दण्डिदण्डः शिवाङ्कः।। इति।

अस्य प्रयोगनैपुण्यं वर्णनाचातुरी च प्रशंसार्हा । दिङ्मात्रमुदाहरणं यथा -

वेणीषु मूर्च्छामिव सम्प्रयाता कपोलयोर्लीनमिवादधानाः।

स्मितेष्विवोच्छासमिवोद्वहन्तो विलासिनीः शिश्लिषुरिन्दुपादाः॥ इति ।

वाक्पतिराजः[सम्पादयतु]

मुख्यलेखः : वाक्पतिराजः

वाक्पतिराजो मूलतः प्राकृतभाषाकविरूपेण प्रसिद्धः । तस्य गउडवहो (गउडवधं ) नाम प्राकृतभाषानिबद्धं महाकाव्यमस्ति । तत्र कान्यकुब्जेश्वरेण यशोवर्मणा गौडराजकुमारस्य वधपर्यन्ता कथा चित्रिताऽस्ति । यशोवर्मा तस्याश्रयदाता नृपः । तेन तस्यापि स्थितिकालो यशोवर्मकालसमकालमेव ७९० मितविक्रमाब्दमभितः आपतति । यशोवर्मा ७८६ मितवैक्रमाब्दे काश्मीरेण ललितादित्येन पराजित असोदिति राजतरङ्गिणीकारः कथयति यत् -

कविवाक्पतिराजश्रीभवभूत्यादिसेवितः।

जितो ययौ यशोवर्मा तद्गुणस्तुतिवन्दिताम्।।[१३] इति।

वाक्पतिराजो भवभूतेः समकालिकः किन्तु तदवरजः । स भवभूतेः काव्यगतामधमर्णतां स्वीकुरुते स्वयमेव। तस्य च मधुमथनविजयं नाम महाकाव्यमपि प्रसिद्धम् । स स्वयमेव गौडवधं तदुद्घोषयत्यपि । सम्प्रति तत्काव्यं तु नैवोपलभ्यते किन्तु सदुक्तिकर्णामृतप्रभृतिग्रन्थे समुद्धृतानि तस्य कानिचित्पद्यान्येव दृश्यन्ते । तेषु द्वित्राणि यथा सङ्कलितं कविजीविते। निम्नपद्यैः तस्य विष्णुभक्तिः अपि प्रकटिता भवति -

सेयं द्यौस्तदिदं शशाङ्कदिनकृच्चिह्नं नभः सा क्षितिः,

तत्पातालतलं त एव गिरयस्तेऽम्भोधरास्ता दिशः।

इत्थं नाभिविनिर्गतेन स शिरः कम्पाद्भुतं वेधसा,

यस्यान्तश्च बहिश्च दृष्टमखिलं त्रैलोक्यमव्यात्स वः।।

खर्वग्रन्थिविमुक्तसन्धिविकसद्वक्षः : स्फुरत्कौस्तुभं,

निर्यन्नाभिसरोजकुड्मलकुटीगम्भीरसामध्वनि।

पात्रावाप्तिसमुत्सुकेन बलिना सानन्दमालोकितं

पायाद्वः क्रमवर्धमानमहिमाश्चर्य मुरारेर्वपुः ।।

अभिनन्दः[सम्पादयतु]

मुख्यलेखः : अभिनन्दः

रामचरितमहाकाव्यस्य प्रणेता अभिनन्दः काश्मीर आसीत् । तस्य कृतिः रामचरितं नाम महाकाव्यं ३६ सर्गेषु विभक्तमासीत् । तत् सम्प्रति स्वरूपेण तु नैवोपलभ्यते किन्तु तत् भोजराजः (१०६० वै०) महिमभट्टः ( ११५० वै) च स्मरतः । तेन अस्य स्थितिकालो विक्रमानन्तरनवमशतकोतरार्धोऽनुमितः । अस्य पदावली सरला सरसा च वर्तते । काव्यमिदं मूलतोऽपूर्णमासीत् । तत् तत्पश्चाद्वर्तिभ्यां लेखकाभ्यां प्रत्येकं चतुरः सर्गान् विरचय्य पूरितम् । तावुभावपि पाठौ सम्प्रति लभ्येते। असौ हि काश्मीरवासिनः शतानन्दाख्यस्य पुत्रः ।

गौडाभिनन्दः[सम्पादयतु]

मुख्यलेखः : गौडाभिनन्दः

जरनैयायिकस्य जयन्तभट्टस्य (९३७ वै०) पुत्रेण अभिनन्देन कादम्बरीकथासारनामकमष्टसर्गात्मकं महाकाव्यं प्रणीतमस्ति । असौ हि बाणभट्टप्रणीतकादम्बर्याः कथासारः । कथ्यते यत्, असौ ७९०-८२६ मितवैक्रमाब्दान्तराले राज्यं कुर्वतः काश्मीरस्य ललितादित्यस्य मन्त्रिणः शक्तिस्वामिनः प्रपौत्रः कल्याणस्वामिनः पौत्रो जयन्तभट्टस्य पुत्रो राजशेखरसमकालिकः । तेन अस्य स्थितिकालो वैक्रमनवमशतकोत्तरार्द्धः इति । एतदतिरिक्तमस्य योगवासिष्ठसारनामको ग्रन्थोऽपि लभ्यते । कथासारस्तु सर्वमेव सर्गान्त्यश्लोकान् विहायानुष्टुप्छन्दसि गुम्फितः । तस्यानुष्टुपवृत्ते दाक्षिण्यं क्षेमेन्द्रोऽपि प्रशंसति। यथा -

अनुष्टुप्सततासक्ता साभिनन्दस्य नन्दनी।

विद्याधरस्य वदने गुलिकेव प्रभावभूः ॥ इति ।

ग्रन्थविषयमादाय स स्वयमेव कथयति -

काव्यविस्तरसन्धानखेदालसधियः प्रति ।

तेन कादम्बरीसिन्धोः कथामात्रं समुद्धृतम्।। इति ।

शङ्कुकः[सम्पादयतु]

मुख्यलेखः : शङ्कुकः

वैक्रमनवमशतकोत्तरार्द्धाभ्यर्णस्थितिमता शङ्कुकाख्येन विदुषा भुवनाभ्युदयं नाम महाकाव्यं प्रणीतमासीदिति राजतरङ्गिणीतः ज्ञायते ।[१४] कविरयं विद्वन्मानससिन्धुरित्यपि कथ्यते म ।

धनञ्जयः[सम्पादयतु]

मुख्यलेखः : धनञ्जयः

वैक्रमदशमशतकोत्तरार्द्धभवोऽयं कविः द्विसन्धानकाव्यस्योन्नायकः । अस्य हि राघवपाण्डवीयं महाकाव्यं प्रसिद्धं, यत्र प्रत्येकं पद्यमेकतो रामकथामपरतः पाण्डवकथां व्यनक्ति । अस्येयं काव्यशैली पश्चाद्वर्तिभिः कविराज-रामचन्द्र-चिदम्बर-वेङ्कटाध्वरि-मेघविजयगणि-हरदत्त-प्रभृतिभिरप्यनुसृता ।

कमकसेनो वादिराजः[सम्पादयतु]

मुख्यलेखः : वादिराजः

१००७ मितवैक्रमाब्दमभितः स्थितिमता वादिराजेन जैनमुनिना यशोधरचरितं नाम महाकाव्यं प्रणीतमासीत् । तस्य सम्प्रति चत्वारः सर्गाः एवोपलभ्यन्ते । अत्र कस्यचिज्जैनस्य राज्ञो यशोधराख्यस्य चरितं चित्रितमस्ति । अस्य च स्थितिकालः १००७ मितवैक्रमाब्दाभ्यर्णेऽनुमितः।

हलायुधः[सम्पादयतु]

मुख्यलेखः : हलायुधः

हलायुधस्य कविरहस्यं शास्त्रकाव्यस्य परम्परामग्रे चालयति । तत्र व्याकरणस्य धातुसम्बद्धनियमानामुदाहरणानि दत्तानि सन्ति। कविरसौ राष्ट्रकूटस्य राज्ञस्तृतीयस्य कृष्णस्य सभापण्डित आसीत् स्तौति च स तं स्वकाव्ये । कुष्णस्य समयः ९९७-१०१३ मितवैक्रमाब्दानभितोऽनुमितः । अतो हलायुधोऽपि ९७०-१०५० मितवैक्रमाब्दाभ्यर्णे स्थितिमानिति विभाव्यते ।

पद्मगुप्तः[सम्पादयतु]

मुख्यलेखः : पद्मगुप्तः

पद्मगुप्तः परमिलापराभिधः परिमलकालिदाससंज्ञयाऽपि प्रसिद्धो महाकविः नवसाहसाङ्कचरिताख्यं महाकाव्यं प्रणीतवानासीत् । तस्य च प्रणयनकालः ११०० मितवैक्रमाब्दोऽनुमितः । पद्मगुप्तो हि मुञ्जाख्यस्य (१०३१-१०५२ वै०) धारानगरीशस्य भोजस्य (१०५२-११११ वै०) सभापण्डित आसीत् । अत्र हि नवसाहसाङ्कोपाधिविभूषितस्य भोजस्य चरित्रं वर्णितमस्ति मूलतः। अत्र नवसाहसाङ्कस्य मृगयाविहारः, तस्य नागवंश्यया शशिप्रभया सह विवाहश्च निपुणं वर्णितः । काव्येऽस्मिन्नष्टादशसर्गाः सम्प्रति दृश्यन्ते। काव्यमिदमतीव सरलं स्वाभाविकं प्रसादगुणयुक्तञ्च।

कवेरस्य पितुर्नाम मृगाङ्कगुप्तः, स्थितिकालश्च १०२०-११०५ मितवैक्रमाब्दान्तरालेऽनुमितः । स तत्काव्यं परमे वयसि प्रणीतवानासीत् । भोजप्रबन्धे उल्लिखितः कालिदासोऽयमेव सम्भवति।

क्षेमेन्द्रः[सम्पादयतु]

मुख्यलेखः : क्षेमेन्द्रः

क्षेमेन्द्रः काश्मीरराजस्य १०८५-११२० मितवैक्रमाब्दानभितः स्थितिमतोऽनन्तस्य तदुत्तरवर्तिनः ११२०-११४६ मितवैक्रमाब्दाभ्य स्थितिमतः कलशाख्यस्य राज्ञः सभापण्डित आसीत् । तेनास्य स्थितिकालः १०६०-११५० मितवैक्रमाब्दान्तराल आपततीत्यनुमितः । अस्य पिता प्रकाशेन्द्राऽऽख्यो विद्यागुरुश्च गङ्गकाचार्यः। कथ्यते अनेन महामाहेश्वरादे अभिनवगुप्तात्साहित्यविद्याऽधीतेति ।।

मूलतः परमशैवोऽप्ययं विष्णौ बुद्धेऽपि समानमेवादरभावं दर्शयति । अस्य हि सन्त्यनेकाः कृतयः पञ्चत्रिंशत्तोऽधिकाः । अस्य शशिवंशमहाकाव्यमप्यासीदिति श्रूयते यन्न संम्प्रति समुपलब्धम् । अन्यासु मुख्यासु कृतिषु भारतमञ्जरी, रामायणमञ्जरी, बृहत्कथामञ्जरी, दशावतारचरितकाव्यं, समयमातृकाकाव्यं, पद्यकादम्बरी, बौद्धावदानकल्पलता, मुक्तावलीकाव्यं, लावण्यवतीकाव्यं, लोकप्रकाशकोशः, औचित्यविचारचर्चा, सुवृत्ततिलकं, अमृततरङ्गकाव्यं च प्राधान्येने गृहीतानि । सन्त्यन्याश्चास्य रचनाः काव्यमालायां क्षेमेन्द्रकाव्यसङ्ग्रहे च सङ्गृहीताः। तस्य कृतिषु भारतमञ्जरी सर्वा अप्यतिशेते । तामधिकृत्योक्तम् -

प्राप्तः सामान्यजल्पोऽपि क्षेमेन्द्रोऽद्य कवीन्द्रताम्।' इति ।

प्रथमं तु सर्वोऽपि जनः सामान्यजल्प एव भवति । साधनैव जनं यं कमपि साधयति।

बिल्हणः[सम्पादयतु]

मुख्यलेखः : बिल्हणः

बिल्हणः काश्मीरः ज्येष्ठकलशाख्यस्य पुत्रः । अस्य माता नागाऽऽख्या इष्टारामानन्दौ भ्रातरौ । असौ १०८०-११६० मितवैक्रमाब्दान्तराले स्थितिमानित्यनुमीयते । कथ्यते असौ ११०७ मितवैक्रमाब्दमभितो जन्मभुवं विहाय देशान्तरं प्रस्थितः। प्रथमं सः अनहिलवादस्य चालुक्यवंशीयनृपस्य त्रैलोक्यमल्लस्य सभासद्रूपेण कञ्चित्कालं स्थित्वा पुनः कल्याणस्य विक्रमादित्याख्यस्य (चतुर्थस्य) नृपस्य सभायामुपस्थितः । तत्रैव सः ११४२ मितवैक्रमाब्दमभितः विक्रमाङ्कदेवचरितं नामैतिहासिकं महाकाव्यं प्रणीतवानासीत् । महाकाव्येऽस्मिन् सन्त्यष्टादशसर्गाः सम्प्रत्युपलब्धाः । तत्र तेन स्वाश्रयभूतस्य विक्रमाङ्कदेवस्य तत्पूर्वजानाञ्च चरितं चित्रितमस्ति । तत्र विक्रमाङ्कदेवस्य मृगयायात्रा, चन्द्रलेखया सह विवाहश्च सुनिपुणं वर्णितः । एतदतिरिक्तमस्य चौरपञ्चाशिका, कर्णसुन्दरीनाटिका च प्रसिद्धौ ग्रन्थौ । विक्रमाङ्कदेवचरितस्य विश्वनाथभारद्वाजप्रणीता रमा-टीका प्रसिद्धा चौरपञ्चाशिकायाश्चतस्रष्टीका यासु रामतर्कवागीशस्य प्रसिद्धा ।

लोलिम्बराजः[सम्पादयतु]

मुख्यलेखः : लोलिम्बराजः

साहित्ये गान्धर्वशास्त्रे आयुर्वेदे च समानगतिललिम्बराजः ११००१२०० मितवैक्रमाब्दानभितः स्थितिमानासीत् । अस्य च पिता दिवाकरः आश्रयदाता हरिहरनृपश्च । अनेन बहुवो ग्रन्थाः प्रणीताः, येषु हरिविलासाख्यं महाकाव्यं प्रसिद्धमस्ति । १२०७ मितवैक्रमाब्दमभितः स्थितिमता पुरुषोतमदेवेन तत्काव्यं तस्य वर्णदेशनाख्ये ग्रन्थे स्मृतमस्ति । सम्प्रति लोलिम्बराजस्य ग्रन्थावली प्रकाशिताऽऽस्ति । केचित्कविममुं १४५७ मितवैक्रमाब्दाभ्यर्णे स्थितिमन्तमपि मन्यन्ते, किन्तु तं पुरुषोत्तमदेवः स्मरतीति नैतन्मतं समीचीनं मन्यते।

कृष्णलीलांशुकः[सम्पादयतु]

मुख्यलेखः : कृष्णलीलांशुकः

कृष्णलीलांशुकस्य अपरं नाम बिल्वमङ्गलः इति। सः विक्रमस्य द्वादशशताब्द्यन्तिमभागे मालावारप्रदेशे गृहीतजनुषा बिल्वमङ्गलेन कृष्णलीलांशुकापराभिधानेनाप्यनेके ग्रन्थाः प्रणीताः सन्ति येषु गोविन्दाभिषेकं नाम द्वादशसर्गात्मकं महाकाव्यं प्रसिद्धमस्ति । काव्यमिदं श्रीचिह्नकाव्यमित्यपि प्रसिद्धम् । यथार्थनामेदं काव्यं श्रीकृष्णभक्तिवर्णनपरम् । अत्र प्राकृतव्याकरणस्य नियमा अपि सोदाहरणं निरूपिताः ।

मङ्खः[सम्पादयतु]

मुख्यलेखः : मङ्खः

मङ्खस्य अपरं नाम मङ्खकः इति। ११५०-१२१० वितवैक्रमाब्दमभितः स्थितिमता जयसिंहाख्यस्य (११८६--१२०७ वै० ) काश्मीरनृपस्याश्रितकविना मङ्खकेन श्रीकण्ठचरितं नाम पञ्चविंशतिसर्गात्मकं महाकाव्यं प्रणीतं दृश्यते । अत्र हि शङ्करेण कृतस्त्रिपुरविजयः सुनिपुणं वर्णितः। कल्हण-बिल्हण-जल्हणाः अस्य समकालीनाः। प्रसिद्धकाव्यशास्त्री रुय्यकोऽस्य गुरुरासीत् । अस्य वर्णनं सजीवं रोचकञ्च मन्यते।

हरिचन्द्रः[सम्पादयतु]

मुख्यलेखः : हरिचन्द्रः

११८०-१२६० मितवैक्रमाब्दानभितः स्थितिमत्त्वेनानुमितो हरिचन्द्रः जैनमतावलम्बी आसीत् । तस्य पिता नोमकवंश्यः आर्द्रदेवो माता रथ्यादेवी। तस्य धर्मशर्माभ्युदयं नाम महाकाव्यं जैनपरम्परायामतीव श्रद्धितं यथा माघकाव्यं नैषधीयचरितञ्च । अस्य ग्रन्थस्य १२८७ मितवैक्रमाब्दे लिखिता हस्तलिपिर्लभ्यत इति तत्पूर्वमेव तस्यावस्थितिरनुमीयते ।

संस्कृतसाहित्ये बहवो हरिश्चन्द्रनामानः कवयः स्मृताः । एको हि हरिश्चन्द्र समुद्रगुप्तेन कृष्णचरित्रे स्मृतः । अपरश्च हरिश्चन्द्रो बाणभट्टेन हर्षचरिते स्मृतः। यथा -

पदबन्धोज्ज्वलो हारो कर्तवर्णक्रमस्थितिः ।

भट्टारहरिचन्द्रस्य गद्यबन्धो नृपायते।। इति।

एको हरिश्चन्द्रो जीवनधरचम्पूकृत् विक्रमानन्तरनवमशतकोत्तरार्द्धभवः । कश्चिदपरो हरिश्चन्द्रश्चरकसंहितायाष्टीकाकारः। कश्चिदपरो हरिश्चन्द्रः क्षेमेन्द्रेण कर्पूरमञ्जर्यां स्मृतः । एको हरिश्चन्द्रो वाक्पतिराजेन स्मृतः । किन्तु धर्मशर्माभ्युदयस्य कर्ता कश्चिदपुर एव हरिचन्द्रः । काव्यमिदमेकविंशतिसर्गात्मकम् । अत्र इक्ष्वाकुवंश्यस्यमहासेनपुत्रस्य धर्मनाथस्य पञ्चदशतीर्थङ्करस्य चरित्रं चित्रितमस्ति । स्वग्रन्थविषये स स्वयमेव कथयति -

स कर्णपीयूषरसप्रवाहं रसध्वनेरध्वनि सार्थवाहम्।

श्रीधर्मशर्माभ्युदयाभिधानं महाकविः काव्यमिदं व्यधत्त॥ इति ।

कल्हणः[सम्पादयतु]

मुख्यलेखः : कल्हणः

कल्हणस्यालङ्कारैरलङ्कृत ऐतिहासिको ग्रन्थो राजतरङ्गिणी स्वीयेनैतिहासिकविषयेन सह काव्यात्मकत्वमपि बिभर्ति। अत्र अष्टाध्यायाः। ग्रन्थोऽयं १२०७ मितवैक्रमाब्दमभितोऽभिलिखित आसीत्तेनास्य कवेरपि स एव समयः। कविरसौ काश्मीरः ।

जल्हणः[सम्पादयतु]

मुख्यलेखः : जल्हणः

कल्हणसमकालिकेन जल्हणाख्येन विदुषा सोमपालविलासनामकं महाकाव्यं प्रणीतमस्ति । सोमपालः राजपूर्याः शासकः कवेरस्याश्रयदाता । जल्हणं मङ्खः स्मरतीति तस्य ११६०-१२५० मितवैक्रमाब्दानभितः स्थितिकालः ।

वाग्भटः[सम्पादयतु]

मुख्यलेखः : वाग्भटः

११००-१२०० मितवैक्रमाब्दानभितः स्थितिमतो वाग्भटस्य नेमिनाथाख्यजनसाधुचरितमाश्रित्य प्रणीतं नेमिनिर्वाणं नाम महाकाव्यं प्रसिद्धमस्ति । कविरयं गुर्जरदेशीयः मन्यते। सामान्यतस्तु संस्कृतसाहित्ये चत्वारो वाग्भटाः प्रसिद्धाः । एको वाग्भटालङ्कारस्य कर्ता, अपरो हि काव्यानुशासनकृत् । तृतीयस्तु अष्टाङ्गसंग्रहस्य प्रणेता । चतुर्थस्तु तस्यैव पितामहः । नेमिनिर्वाणकृत्तु तदितरो दृश्यते । स हि १२०७ मितवैक्रमाब्दपर्यन्तं जीवित आसीत् । ग्रन्थस्यास्य ज्ञानभूषणप्रणीता पञ्जिकाख्या टीका लभ्यते ।

सन्ध्याकरनन्दी[सम्पादयतु]

मुख्यलेखः : सन्ध्याकरनन्दी

रामपालाख्यस्य वङ्गनरेशस्य ( ११६१-११८७ वै०) राजसभासत सन्ध्याकरनन्दी रामपालचरितं नाम रामरामपालकथाश्रयं द्विसन्धानकाव्यं प्रणीतवानासीत् । तस्य स्थितिकालः ११३०-१२०० मितवैक्रमाब्दानभितोऽनुमितः।

हेमचन्द्राचार्यः[सम्पादयतु]

११४५-१२२९ मितवैक्रमाब्दानभितः स्थितिमतो जैनस्य हेमचन्द्राचार्यस्य त्रिषष्टिशलाकापुरुषचरितं द्वयाश्रयकाव्यसंज्ञितं कुमारपालचरितं संस्कृत-प्राकृतमयञ्चेति द्वे काव्ये प्रथिते स्तः । सः गुर्जरनरेशस्य जयसिंहस्य (११४९-११९९ वै०) तद्भ्रात्रेयस्य कुमारपालस्य (११९९-१२३० वै०) च सभाध्यक्ष आसीत् । असौ ११४५ मितवैक्रमाब्दे धुन्धकनगरे मोढजातिवणिग्गृहे जात आसीत् कार्तिकपौर्णमास्याम् । तस्य पिता चचिगो माता च पाहिनी । अस्याभिभावको जयन्ताख्यो जैनो गुरुश्च देवचन्द्राऽऽख्यः । तस्य जन्मनाम चाङ्गदेव आसीत् । यदा जैनधर्मे दीक्षितोऽभवत्तदा तस्य सोमदेव इति नामाऽभूत् । पश्चाच्च ( ११६६ वै० ) हेमचन्द्रनाम्ना ख्यातोऽभूत् ।

अस्य त्रिषष्टिशलाकापुरुषचरितं पौराणिकशैल्यां गुम्फितं महाकाव्यम् । अत्र त्रिषष्टिसिद्धानां जीवनचरितं चित्रितमस्ति । इदं दशसु पर्वसु विभक्तमस्ति । अस्य भाषाऽतीव सरला शैली तु प्राञ्जला । इदं जैनसम्प्रदायमहाभारतमित्युच्यते । कुमारपालचरितं अष्टाविंशसर्गात्मकं महाकाव्यम् । इदं द्व्याश्रयकाव्यमित्यप्युच्यते । अत्र विंशतिसर्गाः संस्कृतभाषायामष्टौ च सर्गाः प्राकृतभाषायां निबद्धाः सन्ति । कुमारपालस्य राज्ञो जीवनवृत्तमधिकुर्वत्काव्यमिदमैतिहासिकमपि भट्टिकाव्यमिव व्याकरणनियमविवेचकं जैनमतप्रचारकञ्च । अस्य सप्तविंशतिसर्गपर्यन्ताऽभयतिलकगणेष्टीका लभ्यते चरमसर्गस्य तु पूर्णकलशप्रणीता।

माधवभट्टः[सम्पादयतु]

मुख्यलेखः : माधवभट्टः

माधवभट्टः कविराजः अवन्तिपुर्याः कदम्बवंश्यस्य राज्ञः कामदेवस्य १२३९-१२७४ मितवैक्रमाब्दान्तराले शासतः सभापण्डित आसीत् । कविराज इत्यस्योपाधिः। तेन अस्य स्थितिकालोऽपि १२००-१२८० मितवैक्रमाब्दान्तरालेऽनुमितः । गौतमगोत्रीयस्यास्य पिता कीर्तिनारायणो माता च चन्द्रमुखी ।

अस्य द्वे काव्ये प्रसिद्धे राघवपाण्डवीयं पारिजातहरणञ्च । राघवपाण्डवीयं रामायणमहाभारताश्रितकथासम्बद्धं द्विसन्धानकाव्यं त्रयोदशसर्गात्मकम् । पारिजातहरणे तु श्रीकृष्णेन कृतं पारिजातहरणकथानके दशसर्गेष्वाबद्धमस्ति । ग्रन्थमिममधिकृत्य षट्टीकाः सन्ति । तासु चरित्रवर्धनस्य टीका प्रसिद्धा ग्राह्या च मन्यते। कविरसौ वक्रोक्तिकथने परमनिपुणः । स स्वयमेव कथयति -

सुबन्धुर्बाणभटटश्च कविराज इति त्रयः।

वक्रोक्तिमार्गनिपुणाश्चतुर्थो विद्यते न वा।। इति ।

कदाचिद्रत्नाकरमपि समावेशितमभविष्यत्तदाऽस्य गर्वोक्तिरियं सार्थकाऽप्यभविष्यत् इति मन्यते। तस्य द्वौ पद्यौ समुद्धरतो वरदराजाचार्यः -

तद्वाक्यान्ते दत्तकर्णानुमोदः पुत्रप्रीत्या जातकृच्छ्रः कुमारम् ।

धर्मात्मानं प्रेषयामास दूरं विश्वामित्रप्रीतये भूमिपालः ॥

मात्रा समं सावरजः स राजा प्रस्थापितो धाम तपोवनानाम् ।

स्थानान्तरं विद्विषतां रणेषु समर्थकोदण्डधरः प्रतस्थे।।

चण्डकविः[सम्पादयतु]

मुख्यलेखः : चण्डकविः

अजमेर हस्तिनापुर संयुक्तराज्यशासकस्य पृथ्वीराजस्य आश्रितेन कविना चण्डाख्येन पृथ्वीराजविजयं नाम महाकाव्यं प्रणीतमस्ति । पृथ्वीराजस्थितिकालानुसारमेवास्य कवेः स्थितिकालः ११८०-१२६० मितवैक्रमाब्दान्तरालेऽनुमितः । काव्येऽस्मिन् सम्प्रति अष्टावेव सर्गाः लभ्यन्ते । तेनेदमपूर्णमेव मन्यते। सम्भवति अस्य शेषभागो यवनाक्रमणे विनष्टो वा कविः इदमपूर्णमेव त्यक्त्वाऽस्तङ्गतोऽपि । काव्येऽस्मिन् पृथ्वीराजस्य विजयकर्माणि वर्णितानि सन्ति । ग्रन्थस्यास्य जोनराज-प्रणीता टीका लभ्यते।

जयदेवः[सम्पादयतु]

मुख्यलेखः : जयदेवः

जयदेवाख्यस्य कवेरनेके ग्रन्था प्रसिद्धा येषु गीतगोविन्दं नाम महाकाव्यमेकम् । जयदेवनामकाः अनेके विचक्षणा लभ्यन्ते येषु पञ्च कवयोऽपि । तेष्वेकः प्रसन्नराघवस्य रचयिताऽपरो गीतगोविन्दस्य । तयोरपि पूर्वापेक्षयाः परः प्राचीनतर इति समालोचकानां मतम् । गीतगोविन्दकारो जयदेवः वङ्गाधिपतेर्लक्ष्मणसेनस्य ११७६-१२४६ मितवैक्रमाब्दान्तरालवर्तिनः सभापण्डित आसीत्। यथाऽयं श्लोकः कथ्यते -

गोवर्धनश्च शरणो जयदेव उमापतिः । कविराजश्च रत्नानि समितौ लक्ष्मणस्य च ।। इति ।

जयदेवः स्वयमेव कथयति गीतगोविन्दे -

वाचः पल्लवयत्युमापतिधरः सन्दर्भशुद्धिं गिरां।

जानीते जयदेव एव शरणः श्लाघ्यो दुरूहद्रुतेः।।

शृङ्गारोत्तरसत्प्रमेयरचनैराचार्यगोवर्धन-

स्पर्धी कोऽपि मतिश्रुतः श्रुतिधरो धोयी कविक्ष्मापतिः ॥ इति ।

कवेरस्य पिता भोजदेवाऽऽख्यो माता राधाऽऽख्या पत्नी च पद्मावती । वङ्गदेशस्य बिन्दुबिल्वग्रामोऽस्य जन्मभूमिः ।

ग्रन्थोऽयं द्वादशसर्गात्मको दाक्षिणात्येषु अष्टपदीत्यपि कथितः । अस्मिन् राधाकृष्णयोः विप्रलम्भसम्भोगशृङ्गारः साधूपवर्णितः । माधुर्यप्रसादगुणावत्र कृतनिलयौ दृश्येते । कविः स्वयमेव कथयति -

साध्वी माध्वीकचिन्ता न भवति भवतश्शर्करे कर्कशाऽसि,

द्राक्ष्ये द्रक्ष्यन्ति के त्वाममृतमृतमसि क्षीरनीरं रसस्ते।

याकन्दङ्गन्दकान्ताधरधरणितलं गच्छ यच्छन्ति भावं

यावच्छृङ्गारसारस्वतमिह जयदेवस्य विश्वग्वचांसि ॥

ग्रन्थस्यास्य सन्ति त्रिंशदधिकाष्टीका यासु उदयनाचार्यशङ्करमिश्र-गागाभट्प्रणीताः प्रसिद्धाः सन्ति । निभाल्यतामस्य काव्यचमत्कारः -

उरसि मुरारेरुपडितहारे घन इव तरलविलोके ।

तडिदिव पीते रतिविपरीते राजसि सुकृतविमोके।।

श्रीहर्षः[सम्पादयतु]

मुख्यलेखः : श्रीहर्षः

श्रीहर्षः स्वसमयस्य प्रकृष्टपण्डितो महाकविः कान्यकुब्जेश्वरस्य गहडवालवंश्यस्य गोविन्दचन्द्रप्रपौत्रस्य विजयचन्द्रपुत्रस्य जयचन्द्रस्य १२२५-१२५२ मितवैक्रमाब्दानभितः शासतः सभापण्डित असीदिति तस्यैव कथनम् - 'ताम्बूलद्वैतर्यमासतञ्च लभते यः कान्यकुब्जेश्वरात्' इति। तदा काशीषु कान्यकुब्जेषु च गढवालवंश्यानां नृपाणां शासनमासीत् । तस्य शासनकालः ११६१ मितवैक्रमादाब्दतः १२१२ यावदासीत् । तदनु तस्यात्मजो विजयचन्द्रः १२१२ तः १२२५ यावत् तस्य पुत्रो जयचन्द्रः १२२५ तः १२५२ मितवैक्रमाब्दान् यावत् काशी-कान्यकुब्जांश्च अशासतामित्यैतिहासिकानां मतम् । श्रीहर्षस्य पिता हीरो गोविन्दचन्द्रस्य सभापण्डित आसीत्, श्रीहर्षश्च प्रथमं विजयचन्द्रस्य तदनु जयचन्द्रस्य च सभापण्डित आसीत्।

कृष्णानन्दः[सम्पादयतु]

मुख्यलेखः : कृष्णानन्दः

१२५०-१३१० मितवैक्रमाब्दाभ्यर्णे जातेन पुरीवास्तव्येन कृष्णानन्दाख्येन कविना नलोपाख्यानसम्बद्धं सहृदयानन्दनामकं महाकाव्यं प्रणीतम् । कविरसौ वैदर्भरीत्यां विशिष्टः । तेनाऽस्य काव्यं सरसं सरलञ्च ।

जयरथः[सम्पादयतु]

मुख्यलेखः : जयरथः

१२६०-१३२० मितवैक्रमाब्दाभ्यर्णे स्थितिमता काश्मीरेण जयरथाख्येन कविना हरचरितचिन्तामणिनामकं द्वात्रिंशत्प्रकाशनिबद्धं महाकाव्यं प्रणीतमस्ति । काव्येऽकस्मिन् शिवस्य काश्मीरशैवानाञ्च पराक्रमो वर्णितोऽस्ति ।

अभयदेवः[सम्पादयतु]

मुख्यलेखः : अभयदेवः

१२५०-१३२० मितवैक्रमाब्दाभ्यर्णे जातेन जैनमतावलम्बिना अभयदेवेन १२७८ मितवैक्रमाब्दे एकोनविंशतिसर्गात्मकं महाकाव्यं प्रणीतमस्ति, यत्र जयन्ताख्यस्य विक्रमसिंहवंश्यस्य राज्ञो जीवनचरितं वर्णितमस्ति ।

अरिसिंहः[सम्पादयतु]

मुख्यलेखः : अरिसिंहः

अभयदेवसमकालिकेनैव अर्थात् १२५०-१३२० मितवैक्रमाब्दाभ्यर्णे स्थितिमता अरिसिंहेन १२७९ मितवैक्रमाब्दे सुकृतकीर्तनं नाम महाकाव्यं प्रणीतमस्ति । महाकाव्येऽस्मिन्नेकादशसर्गाः सन्ति । कविरसौ राज्ञः श्रीवीरधवलस्य (१२७७ वै०) मन्त्रिणो वस्तुपालस्याश्रितकविरासीत् । काव्येऽस्मिन्तेन वीरधवलस्य वंशावल्या सह वस्तुपालस्य सत्कार्याणां चित्रणं कृतमस्ति ।

बालचन्द्रसूरिः[सम्पादयतु]

मुख्यलेखः : बालचन्द्रसूरिः

वस्तुपालस्याश्रितकविना १२५०-१३३० मितवैक्रमाब्दाभ्यर्णे जातेन बालचन्द्रसूरिणा १२९७ मितवैक्रमाब्दे चतुर्दशसर्गात्मकं वसन्तविलासाख्यं महाकाव्यं प्रणीतमस्ति, यत्र वस्तुपालसुकृत्यानां वर्णनं कृतमस्ति ।

सोमेश्वरदेवः[सम्पादयतु]

मुख्यलेखः : सोमेश्वरदेवः

वीरधवलस्याश्रितकविना वस्तुपालमित्रेण १२६०-१३३० मितवैक्रमाब्दान्तराले जातेन सोमेश्वरदेवेन पञ्चदशसर्गात्मकं सुरथोत्सवनामकं महाकाव्यं प्रणीतमस्ति, यत्र हि चैत्रवंश्यस्य सुरथाख्यस्य राज्ञश्चरितं वर्णितमस्ति ।

अमरचन्दः[सम्पादयतु]

मुख्यलेखः : अमरचन्दः

वीरधवलस्य मन्त्रिणो वस्तुपालस्य आश्रितकविना १२८०-१३५० मितवैक्रमाब्दान्तराले जातेन अमरचन्द्रेण बालभारतनामकं चतुश्चत्वारिंशत्सर्गात्मकं महाकाव्यं प्रणीतमस्ति, यत्र महाभारतगता कथैव रोचकशैल्या समुपन्यस्ताऽस्ति ।

देवप्रभसूरिः[सम्पादयतु]

मुख्यलेखः : देवप्रभसूरिः

१३०७ मितवैक्रमाब्दाभ्यर्णे स्थितिमता देवप्रभसूरिणा, अष्टादशसर्गेषूपनिबद्धं पाण्डवचरितं नाम महाकाव्यं प्रणीतं यत्र पाण्डवानां चरितं काव्यभाषया वर्णितमस्ति ।

चन्द्रप्रभसूरिः[सम्पादयतु]

मुख्यलेखः : चन्द्रप्रभसूरिः

१३३५ मितवैक्रमाब्दमभितः स्थितिमता चन्द्रप्रभसूरिणा प्रभावकचरितं नाम महाकाव्यं प्रणीतमस्ति, यत्र हि जैनसाधोः प्रभावकस्य चरितचित्रितमस्ति।

वीरनन्दी[सम्पादयतु]

मुख्यलेखः : वीरनन्दी

१३४० मितवैक्रमाब्दमभितः स्थितिमता वीरनन्द्याख्येन कविना चन्द्रप्रभचरितं नाम महाकाव्यं प्रणीतमस्ति । ग्रन्थेऽस्मिन्नष्टादशसर्गाः सन्ति, येषु राजकनकप्रभस्य जैनसाधोश्चन्द्रप्रभस्य च जीवनचरितं वर्णितमस्ति ।

सर्वानन्दः[सम्पादयतु]

मुख्यलेखः : सर्वानन्दः

१३५० मितवैक्रमाब्दाभ्यर्णे स्थितिमता सर्वानन्देन जगच्चरितं नाम काव्यप्रणीतमस्ति । अस्य सप्तसर्गाः सम्प्रत्युपलब्धाः । काव्येऽस्मिन् जगद्-नामकस्य कस्यचित्साधोश्चरितं चित्रितमस्ति । असौ १३१३ मितवैक्रमाब्दे गुर्जरदेशे घटिताकालपीडासमये जनानां समुद्धारकत्वेन गृहीतोऽस्ति ।

नयचन्द्रः[सम्पादयतु]

मुख्यलेखः : नयचन्द्रः

१३६० मितवैक्रमाब्दमभितः स्थितिमता नयचन्द्राख्येन विदुषा सप्तदशसर्गात्मकं हम्मीरमहाकाव्यं प्रणीतमस्ति । अत्र हि चौहान वंश्यस्य राज्ञो हम्मीरस्य चरितं चित्रितमस्ति । हम्मीरो हि अलावुद्दीनभयाच्छरणागतं कञ्चिद्यवनमाश्रयं दत्तवान् यान्निमित्तं सः अलावुद्दीनेन हुतः ।

वासुदेवः[सम्पादयतु]

मुख्यलेखः : वासुदेवः

मालावारस्य वेदाख्यनामके स्थाने निवसता वासुदेवेन कविना एकविंशतिः काव्यग्रन्थाः प्रणीताः सन्ति। अस्य पिता महर्षिनामा माता च गोपालिका। तस्य हि कृतिषु युधिष्ठिरविजयं नलोदयश्चेति द्वे महाकाव्ये विश्रुते युधिष्ठिरविजये अष्टास्वाश्वासेषु युधिष्ठिरस्य पराक्रमो वर्णितोऽस्ति । नलोदये सम्प्रति चत्वार एव आश्वासाः उपलभ्यन्ते येषु राज्यप्राप्त्यनन्तरं नलस्य चरितं चित्रितमस्ति।

कवेरस्य सम्प्रत्यपि नैव कालनिर्णयो जातः । युधिष्ठिरविनये कुलशेखराख्यस्य राज्ञो नलोदये रामाख्यस्य राज्ञ उल्लेखस्तु लभ्यते, किन्तु तेन कालनिर्णये नैव काऽपि सहायता सिध्यति । मालावारे बहूनां नृपाणां 'कुलशेखर' इत्युपाधिरेवाऽऽसीत् । अपरञ्च तत्र हि एकाधिककवीनां वासुदेव इत्यभिधानमपि लभ्यते । तेनैव केचित्तु नलोदयस्य कर्तारं युधिष्ठिरविजयकुद्वासुदेवाद्भिन्नमेव वासुदेवं मन्यन्ते । कथ्यते केरलेषु ८५७ मितवैक्रमाब्दाभ्यः कश्चित्कुलशेखरो नाम राजा शासति स्म । तेन युधिष्ठिरविजयस्य प्रणयनकालो वैक्रमनवमशतकोऽपि सम्भवति । केचित्कविममुं नारायणभट्टस्य पुत्रं मत्वा तं वैक्रमसप्तदशशतकीयमपि मन्यन्ते । एतावदेव निभृतं वक्तुं शक्यते यन्नलोदयस्य प्रणयनेन १६५६ मितवैक्रमाब्दात्पूर्वमेव सम्पन्नेन भाव्यं यतो हि अयमेव समयः प्राचीनहस्तलिप्यां दृश्यते । इदमपि अवधेयं भवति यत् १४५७ मितवैक्रमाब्दमभितः स्थितिमानुद्दण्डकविः वासुदेवस्य पितरं महर्षिरिति कथयति । तेन वासुदेवेन १४५७ मितवैक्रमाब्दात्पूर्ववर्तिना भाव्यमिति मन्यते। वासुदेवः विक्रमानन्तरदशमशतकादारभ्य पञ्चदशशतकपर्यन्तं कस्मिंश्चिदपि काले स्थितिमान् सम्भवति किन्तु विदुषां बहुमतं तु तं वैक्रमचतुर्दशशतकीनमेव मन्यते।

केचित्तु नलोदयं हि कालिदासस्य कृतिमपि कथयन्ति, किन्तु नैतदुपपद्यते भाषिकसंरचनादिदृष्ट्याऽपि । केचित्त्वस्य प्रणेतारं रविदासनाम्नाऽपि जानन्ति । नलोदयं हि काव्यं भाषाभावप्रस्तुतीकरणादिदृष्ट्या नितान्तमेव पश्चाद्वर्तिनी कृतिः।

अगस्त्यः[सम्पादयतु]

मुख्यलेखः : अगस्त्यः (कविः)

वारङ्गलनरेशस्य प्रतापरुद्रदेवस्य (१३५१-१३८२ वै०) सभाकविना अगस्त्याख्येन विदुषा चतुःसप्ततिः काव्यग्रन्थाः प्रणीताः इति समालोकाः कथयन्ति । असौ विद्यानाथोपाधिना विभूषितः आसीत् । अस्य बालभारतसंज्ञकमेकं महाकाव्यं सम्प्रति समुपलभ्यते, यत्र पाण्डवानां जीवनचरितमवतारितमस्ति । अत्र वैदर्भी रीतिः क्रीडन्तीव दृश्यते ।

वेदान्तदेशिकः वेङ्कटनाथः[सम्पादयतु]

फलकम्:मुख्यःवेङ्कटनाथः

काञ्चीनगर्यां १३२५ मितवैक्रमाब्दे जन्म गृहीत्वा १४३३ मितवैक्रमाब्दं यावत् जीवितवता सुदीर्घायुषा वेदान्तदेशिकाऽऽख्येन वेङ्कटनाथेन विंशत्यधिकशतग्रन्थाः प्रणीताः आसन् । असौ महान् कविः, दार्शनिकश्चासीत्। रामानुजसम्मतविशिष्टाद्वैतमतानुयायी च । स वेदान्ताचार्य-कविताककसिंह-सर्वतन्त्रस्वतन्त्रप्रभृत्युपाधिभिः विभूषितश्च आसीत् । अस्य पिताऽऽनन्दसुरिः माता च तोताम्बा । अस्य हि यादवाभ्युदयमहाकाव्यं हंससन्देशखण्डकाव्यं सङ्कल्पसूर्योदयनाटकञ्च साहित्यजगति सश्रद्धं स्मृताः ग्रन्थाः।

यादवाभ्युदयं हि चतुर्विंशतिसर्गेषु विस्तृतं महाकाव्यम् । अत्र हि कृष्णावतारकथा सुनिपुणं वर्णिताऽस्ति । काव्येऽस्मिन् तिस्र एव रीतयः साधु प्रयुक्ताः सन्ति । सर्वत्रात्र प्रसादमाधुर्ययोरेव बाहुल्यम् । षष्ठे च सर्गे चित्रकाव्याभ्यासोऽत्र । यत्र कुत्रात्र पूर्ववर्तिनां कवीनामनुसरणमपि दृश्यते । विमानाभूतलदृश्यवर्णनं रघुवंशस्य त्रयोदशसर्गं स्मारयति, चित्रकाव्याभ्यासश्च भारविमाघौ च । ग्रन्थस्यास्य महनीयत्वमेतावताऽप्यवधेयं यद् अप्पयदीक्षितसदृशो विशिष्टेतराद्वैतमतानुयायी ग्रन्थस्यास्य व्याख्याऽर्थं प्रवृत्तः।

अस्य हंससन्देशोऽपि कालिदासीयं मेघदूतमतुसति । अत्र रामः हंसदूतत्वेन सीतासकाशं प्रेषयति दयिताजीवितालम्बनार्थी। मेघदूते इवात्रापि मन्दाक्रान्तैव वृत्तम् । विशिष्टाद्वैतमतानुयायित्वादसौ हि साहित्यिकमपि कार्यं स्वाभीष्टमतप्रतिपादनायैव प्रयुनक्तीति कवेरस्य वैशिष्ट्यम् ।

गङ्गादेवी[सम्पादयतु]

मुख्यलेखः : गङ्गादेवी

गङ्गादेव्या मधुराविजयाख्यं महाकाव्यं प्रसिद्धमस्ति। असौ विजयनगरराज्यसंस्थापकस्य बुक्काख्यनृपस्य (वै० १४००-१४३६) द्वितीयपुत्र-वीरकम्परायस्य धर्मपत्नी । तेन तस्याः स्थितिकालः १४१५ मितवैक्रमाब्दाभ्यर्णेऽनुमितः । अस्याः आन्ध्रयाः महाकाव्यं स्वपतेः कम्पनाख्यस्य दक्षिणवर्तिप्रदेशविजयोदान्तमवलम्ब्यग्रथितमस्ति । विशेषतः कम्पनसम्पादितो मधुरेश्वरवधवृत्तान्तोऽस्य केन्द्रभूमिः ।

साकल्यमल्लो वा मल्लाचार्यः[सम्पादयतु]

मुख्यलेखः : मल्लाचार्यः

१४००-१४७० मितवैक्रमाब्दानभितः स्थितिमतां साकल्यमल्लेन मल्लाचार्याख्येन रामकथामाश्रित्य उदारराघवसञ्चकमष्टादशसर्गात्मकं महाकाव्यं प्रणीतमस्ति । तस्य सम्प्रति नवैव सर्गाः लभ्यन्ते।

वामनभट्टबाणः[सम्पादयतु]

मुख्यलेखः : वामनभट्टबाणः

वत्सगोत्रीयस्य कोमटीयज्वनः पुत्रो विद्यारण्यस्य शिष्यो वामनभट्टबाणः त्रिंशत्सर्गात्मकं रघुनाथचरिताख्यं महाकाव्यं प्रणीतवान् । सः अदक्या नृपस्य पेहुकोमटीवेमभूपालस्य (१४६०-१४७७ वै०) सभाकविरासीत् । तेनाऽस्य स्थितिकालः १४३०-१४८० मितवैक्रमाब्दानभितोऽनुमितः। रघुनाथचरिताख्ये महाकाव्ये रामस्य चरितं निपुणं चित्रितमस्ति। अस्यैव नलकथामाश्रित्य प्रणीतं नलाभ्युदयनामकं महाकाव्यमपि लभ्यते । अस्मिन् सम्प्रति अष्टावेव सर्गाः उपलभ्यन्ते। असौ हर्षचरितकृतो बाणभट्टोत्सर्वथा भिन्न एवेति समालोचकानामाशयः ।

जोनराजः[सम्पादयतु]

मुख्यलेखः : जोनराजः

१५०७ मितवैक्रमाब्दमभितः स्थितिमता जोनराजेन राजतरङ्गिणीनामकं महाकाव्यमैतिहासिकं प्रणीय कल्हणस्य राजतरङ्गिण्यामेकं पदमग्रे सारितवान् । कल्हणस्य राजतरङ्गिणी जयसिंहपर्यन्तामेव परम्परां वर्णयति । जोनराजेन जयसिंहादारभ्य सुल्तान जैन-ए-अविदिन संज्ञकराजपर्यन्ता परम्परा चित्रिता।

श्रीधरः[सम्पादयतु]

मुख्यलेखः : श्रीधरः (जैनकविः)

जोनराजशिष्येण श्रीधरेण १५३० मितवैक्रमाब्दमभितः स्थितिमता जैनराजतरङ्गिणी प्रणीय राजतरङ्गिणीपरम्पराऽग्रे सारिता । अनेन हि १५२५ मितवैक्रमाब्दपर्यन्ता परम्परा चित्रिता।

प्राज्यभट्टः[सम्पादयतु]

मुख्यलेखः : प्राज्यभट्टः

जोनराजशिष्येण प्राज्यभट्टेन १६४० मितवैक्रमाब्दमभितः स्थितिमता राजावलियताकासंज्ञकमैतिहासिकग्रन्थं प्रणीयैतिहासिककाव्यपरम्परायामेकं पदमग्रे चालितम् । अत्र अकबरविजयपर्यन्ता कथा चित्रिताऽस्ति ।

भानुदत्तः[सम्पादयतु]

मुख्यलेखः : भानुदत्तः

गणपत्याख्यपुत्रण मैथिलेन भानुदत्तेन १३१०-१४०० मितवैक्रमाब्दान्तरालवर्तिनाऽनेके ग्रन्थाः प्रणीताः सन्ति, येषु गीतगौरीपतिनामकं महाकाव्यं प्रसिद्धमस्ति । अत्र गीतगोविन्दस्य प्रभावः स्पष्टमेव लक्ष्यते तेनानेन वैक्रमत्रयोदशशतकपरवर्तिना भाव्यम् । तथैव १४२० मितवैक्रमाब्दाभ्यर्णर्वितना शार्ङ्गधरेणास्य श्लोकाः उद्धृता इति तस्य १३००-१४०० मितवैक्रमाब्दान्तराले स्थितिकालः । अस्य रसमञ्जरी, कुमारभार्गवीयं, अलङ्कारतिलकं शृङ्गारदीपिका च महाकाव्येतरग्रन्थाः।

मल्लिनाथः[सम्पादयतु]

मुख्यलेखः : मल्लिनाथः

रघुवंश-कुमारसम्भव-मेघदूत-किरातार्जुनीय-शिशुपालवध-नैषधादिग्रन्थानां व्याख्याता १३६०-१४४० मितवैक्रमाब्दन्तराले स्थितिमत्त्वेनानुमितो मल्लिनाथो रघुवीरचरितं नाम महाकाव्यमपि प्रणीतवानासीदिति ज्ञायते किन्तु ग्रन्थे लेखकत्वेन न कोऽपि समुल्लिखितः । तथापि ग्रन्थोऽयं मल्लिनाथप्रणीत इति आफ्रेक्ट्बृहत्सूच्यामुल्लिखितमस्ति ।

ग्रन्थेऽस्मिन् सप्तदशसर्गाः सन्ति यत्र रामस्य वनगमनादारभ्य राज्याभिषेकपर्यन्ता घटना वर्णिताऽस्ति । प्रसादमाधुर्यगुणसम्मतमिदं काव्यं स्वजातावुत्कृष्टस्थानं निदधाति ।

सुकुमारः[सम्पादयतु]

मुख्यलेखः : सुकुमारः

१५०७ मितवैक्रमाब्दमभितः स्थितिमता मालावारप्रदेशनिवासिनी सुकुमारकविना कृष्णस्य पराक्रमविषये कृष्णविलासः नाम महाकाव्यं प्रणीतमस्ति । सम्प्रत्यस्य चत्वार एव सर्गाः उपलभ्यन्ते । अस्य शैली सरला सरसा च ।

राजनाथो द्वितीयः[सम्पादयतु]

विजयनगरराजाश्रितेन डिण्डिमकविसार्वभौमोपाधिधारिणा द्वितीयराजनाथेन त्रयोदशसर्गात्मकं सालुवाभ्युदयसंज्ञकं महाकाव्यं प्रणीतमस्ति । अस्य स्थितिकाल: १४८७ मितवैक्रमाब्दमभितोऽनुमितः । अत्र साल्वनरसिंहस्य पराक्रमस्तत्पूर्वजचरितञ्च चित्रितमस्ति ।

राजनाथस्तृतीयः[सम्पादयतु]

मुख्यलेखः : राजनाथस्तृतीयः

१४९७ मितवैक्रमाब्दमभितः स्थितिमता द्वितीयराजनाथपौत्रेण तृतीयराजनाथेन विंशतिसर्गात्मकम् अच्युतरायाभ्युदयं नाम महाकाव्यं प्रणीतमस्ति । अत्र विजयनगरस्य राज्ञोऽच्युतरायस्य (१५८७-१५९९ वै०) पराक्रमो वर्णितोऽस्ति ।

रामचन्द्रः[सम्पादयतु]

मुख्यलेखः : रामचन्द्रः (कविः)

लक्ष्मणभट्टस्यात्मजेन १५९९ मितवैक्रमाब्दमभितः स्थितिमता रामचन्द्रेण द्विसन्धानपद्धतौ रसिकरञ्जनं नाम काव्यं प्रणीतमस्ति । इदं ऐकतः पठने शृङ्गारिकमर्थं ददाति, अन्यतः पठने तु वैराग्यसम्बद्धमर्थञ्च।

उत्प्रेक्षावल्लभः[सम्पादयतु]

मालावारनिवासिना उत्प्रेक्षावल्लभकविना प्रणीतं भिक्षाटनमहाकाव्यं प्रकाशितमस्ति । काव्येऽस्मिन् एकोनचत्वारिंशत्पद्धतयः (सर्गाः) सन्ति । काव्यमिदमपूर्णमेव दृश्यते । अस्य सम्भावितस्थितिकालः सम्प्रत्ययज्ञातः । समालोचकाः सामान्यतः कविमिमं वैक्रमषोडशशतकोत्तरार्धभवं मन्यन्ते । काव्येऽस्मिन् प्रणेतृत्वेन न कस्यापि नामोल्लिखितं दृश्यते । तत्र शिवभक्तदास इति समुल्लिखितं दृष्ट्वा लेखकस्य नामेति कल्पयन्ति केचित्किन्तु तदपि विशेषणमेव दृश्यते ।

रुद्रकविः[सम्पादयतु]

मुख्यलेखः : रुद्रकविः

रुद्रकविना राष्ट्रौढवंशमहाकाव्यं प्रणीतमस्ति। अत्र विंशतिः सर्गाः सन्ति । तत्र मयूरगिरेः प्रथमनृपाद् राष्ट्रौढान्नारायणशाह-पर्यन्तो वंशवृक्षो वर्णितोऽस्ति । असौ नारायणशाहस्य सभाकविः । तेन तस्य स्थितिकालः १६५३ मितवैक्रमाब्दमभितोऽनुमितः । अयमेव काव्यप्रणयनकालश्च।

चन्द्रशेखरः[सम्पादयतु]

मुख्यलेखः : चन्द्रशेखरः

बुन्दीनरेशसुर्जनाश्रितेन चन्द्रशेखरेण विंशतिसर्गेषु विभक्तं सुर्जनचरितमहाकाव्यं प्रणीतमस्ति । काव्यमिदं सरसं सुबोधञ्च । अस्य स्थितिकालः १६५० मितवैक्रमाब्दाभ्यर्णेऽनुमितः ।

चिदम्बरः[सम्पादयतु]

मुख्यलेखः : चिदम्बरः

विक्रमानन्तरं १६६० मिताब्दमभितः स्थितिमता चिदम्बराख्येन विदुषा त्रिसन्धानपद्धत्याश्रितं राघवपाण्डवीययादवीयाख्य-महाकाव्यं प्रणीतमस्ति । अस्य हि प्रत्येकश्लोकस्य त्रयोऽर्था भवन्ति रामपक्षीयः पाण्डवपक्षीयः कृष्णपक्षीयश्च । काव्यमिदमतीवं क्लिष्टम् ।

यज्ञनारायणः[सम्पादयतु]

मुख्यलेखः : यज्ञनारायणः

गोविन्दस्य पुत्रेण यज्ञनारायणेन १६६० मितवैक्रमाब्दमभितः स्थितिमता तञ्जोरराजरघुनाथाश्रितेन षोडशसर्गेषु विभक्तं रघुनाथभूपविजयं नाम महाकाव्यं प्रणीतमस्ति । अत्र रघुनाथस्य जीवनचरितं चित्रितमस्ति । ग्रन्थोऽयं साहित्यरत्नाकरनाम्नाऽपि ज्ञायते।

अद्वैतः[सम्पादयतु]

मुख्यलेखः : अद्वैतः (कविः)

विक्रमानन्तरं १६६५ मितवर्षाभ्यर्णे स्थितिमता अद्वैताख्येन विदुषा रामलिङ्गामृतं नाम महाकाव्यं प्रणीतमस्ति।

राजचूडामणिः[सम्पादयतु]

मुख्यलेखः : राजचूडामणिः

तञ्जोरराजरघुनाथाश्रितेन १६७७ मितवैक्रमाब्दमभितः स्थितिमता रत्नखेटश्रीनिवासपुत्रेण राजचूडामणिनाऽनेकेषु विषयेषु ग्रन्थाः प्रणीताः सन्ति; यत्र दशसर्गात्मकं रुक्मिणीकल्याणाख्यं महाकाव्यमप्यस्ति । अत्र कृष्णस्य रुक्मिण्या सह विवाहो वर्णितोऽस्ति सरसया रीत्या ।

रामभद्राम्बा[सम्पादयतु]

मुख्यलेखः : रामभद्राम्बा

१६७७ मितवैक्रमाब्दमभितः स्थितिमत्या तञ्जोरनरेशरघुनाथस्य पत्न्या रामभद्राम्बाख्यया रघुनाथाभ्युदयनामकं द्वादशसर्गात्मकं महाकाव्यं प्रणीतमस्ति यत्र राज्ञो रघुनाथस्य पराक्रमो र्वाणतोऽस्ति ।

मधुरवाणी[सम्पादयतु]

मुख्यलेखः : मधुरवाणी

रघुनाथाश्रितया तञ्जोरवासिन्या मधुरवाण्याख्यया कवयित्र्या रामायणाख्यं महाकाव्यं प्रणीतमस्ति, यत्र चतुर्दशसर्गाः १५०० श्लोकाश्च सन्ति । रघुनाथस्य स्थितिकालः १६७१-१७१९ वैक्रमाब्दान्तरालेऽनुमितः । स एवास्याः कवयित्र्याश्च।

चक्रः[सम्पादयतु]

मुख्यलेखः : चक्रः (कविः)

१६८० मितवैक्रमाब्दमभितः स्थितिमतो मधुरायास्तिरुमलनायकाश्रितस्य चक्रकवेः जानकीपरिणयमहाकाव्यं प्रसिद्धम् । अत्र अष्टासु सर्गेषु रामस्य सीतया सह विवाहो वर्णितः।

नीलकण्ठः[सम्पादयतु]

मुख्यलेखः : नीलकण्ठः (कविः)

नीलकण्ठः अप्पयदीक्षितस्य भ्रातुः पौत्रः । स हि १६७० मितवैक्रमाब्दे समुत्पन्नः आसीत् । असौ वेङ्कटेश्वरमखिनः शिष्यः आसीत्, मदुरायास्तिरुमलनायकस्य प्रधानमन्त्री। अनेन १७०७ मितवैक्रमवर्षाभ्य साहित्यिकं कार्यं प्रारब्धम् । तस्य सन्त्यनेके ग्रन्थाः यत्र शिवलीलार्णवं गङ्गावतरणञ्च द्वे महाकाव्ये प्रसिद्धे। शिवलीलार्णवे सन्ति द्वाविंशतिसर्गाः । अत्र हालास्यनाथाख्यस्य चतुःषष्टिक्रीडानां वर्णनमस्ति । गङ्गावतरणे सन्त्यष्टौ सर्गाः । अत्र भूतले गङ्गाया अवतरणस्य सुन्दरं वर्णनमस्ति ।

वेङ्कटाध्वरी[सम्पादयतु]

मुख्यलेखः : वेङ्कटाध्वरी

काञ्चीनिवासिना वेङ्कटाध्वरिणा रामानुजमतानुयायिना १७०७ मितवैक्रमाब्दमभितः स्थितिमता यादवराघवीयसंज्ञकं द्विसन्धानकाव्यं प्रणीतमस्ति यस्य सम्प्रति त्रिंशदेव श्लोका लभ्यन्ते । तस्य अनुप्रासच्छटा निभालनीया।

मेघविजयगणिः[सम्पादयतु]

मुख्यलेखः : मेघविजयगणिः

१७२८ मितविक्रमाब्दाभ्यर्णे स्थितिमता जैनेन मेघविजयगणिना नवसर्गेषु विस्तृतं सप्तसन्धानमहाकाव्यं प्रणीतमस्ति । तत्र श्लेषेण वृषभनाथ-शान्तिनाथ-पार्श्वनाथ-नेमिनाथ-महावीरस्वामि-कृष्ण-बलदेवानां सप्तानां चरितं चित्रितमस्ति । अस्य प्रत्येकं पद्यं सप्तविधमर्थं जनयति तत्तत्परम् ।

देवविमलगणिः[सम्पादयतु]

मुख्यलेखः : देवविमलगणिः

१७६० मितवैक्रमाब्दमभितः स्थितिमान् देवविमलगणिजैनः हीरसौभाग्यनामकं सप्तदशसर्गात्मकं महाकाव्यं प्रणीतवान् । स 'जगद्गुरु'रित्युपाधिना विभूषितः ।

रामभवः[सम्पादयतु]

मुख्यलेखः : रामभवः

तञ्जौरराज्यशासकस्य 'शाहजी' इत्येतस्य १७४१-१७६८ मितवैक्रमाब्दान्तराले स्थितिमतः सभापण्डितो रामभद्रः १७६० मितवैक्रमाब्दाभ्यर्णे पतञ्जलिचरितं नाम महाकाव्यं प्रणीतवान् । अत्र महावैयाकरणस्य पतञ्जलेश्चरितं चित्रितमस्ति ।

हरदत्तः[सम्पादयतु]

मुख्यलेखः : हरदत्तः

१७८० मितवैक्रमाब्दाभ्यर्णवर्तिना हरदत्तेन राघवनैषधीयाख्यं द्विसन्धानकाव्यं प्रणीतमासीत् । अत्र श्लेषेण रामनलयोश्चरितं चित्रितमस्ति । अस्य सम्प्रति द्वावेव सगौ लभ्येते ।

मोहनः[सम्पादयतु]

मुख्यलेखः : मोहनः (कविः)

१८०७ मितवैक्रमाब्दमभितः स्थितिमता मोहनस्वामिना रामचरितं नाम महाकाव्यं प्रणीतमस्ति ।

वसन्तत्र्यम्बकः शेवडेः[सम्पादयतु]

मुख्यलेखः : वसन्तत्र्यम्बकः

वसन्तत्र्यम्बकशेवडे-महोदयस्य विन्ध्यवासिनीविजयमहाकाव्यं षोडशसर्गात्मकं, शुम्भवधमहाकाव्यं चतुर्दशसर्गात्मकं, स्तवमञ्जूषा च प्रसिद्धग्रन्थाः। शेवडेमहोदयस्य वृतिः सरसतायां सरलतायां च कालिदासीयकृतिभिः सह तुलामारोहन्ति । अर्थगौरवे कविरेष भारविमनुसरति, पदसौष्ठवे दण्डिनञ्च । स स्वयमेव कथयति -

शब्दास्त एव हि भवन्ति भवन्ति चोर्थास्तेषां परं विजयते रचनाविशेषः।

यस्यैवं दोषगुणभेदकृतो विभाति भेदः स्फुटं जगति दुष्कविसत्कवीनाम्।।

अन्यकवयः[सम्पादयतु]

एवमेव अनेके अन्य ग्रन्थाः समालोचकैः स्मृताः सन्ति। तेषां नामानि, रचनाः च अधः उल्लिखिताः।

कृष्णदासकविराजस्य गोविन्दलीलामृतं, वस्तृपालस्य (१४ श० ) नरनारायणानन्दं, गोविन्दमखिनः (१६ श०) हरिवंशसारचरितं, वेङ्कटेश्वरस्य रामचन्द्रोदयं, शङ्कराराध्यस्य वसवेहाविजयं (१२०७ वै० ), सोमनाथस्य पण्डिताराध्यचरितं (१९०७), माधवाचार्यस्य यमकभारतं (१२८२); त्रिविक्रमस्य उषाहरणकाव्यं (१३१७ वै०) माधवस्य नरकासुरविजयं (१४३७ वै०) यासतीर्थस्य (१४६० वै०) जयतीर्थविजयं, कृष्णस्य जयतीर्थविजयाब्धिः, सङ्कर्षणस्य जयतीर्थविजयं, श्रीनिवासस्य जयन्द्रोदयं (१४६० वै०), शङ्करस्य कृष्णविजयं (१४८७ वै०) कृष्णाचार्यस्य भरतचरितं (१४८७ वै०), रामवर्मणो भारतसंग्रहः (१४८७ वै०), शिवसूर्यस्य पाण्डवाभ्युदयं (१५०७ वै०), अज्ञातकर्तृत्वं कुशाभ्युदयं (१५१७ वै०) चतुर्भुजस्य हरिचरितकाव्यं (१५५० वै०), स्वयम्भूनाथस्य (१५९७ वै०) कृष्णविलासः, मृत्युञ्जयस्य प्रद्युम्नोत्तरचरितं, वेङ्कटकृष्णस्य (१७०७ वै०) नाटेशविजयं, श्रीनिवासस्य (१७१७ वै०) भूवराहविजयं, वरददेशिकस्य लक्ष्मीनारायण चरितं, रघुवरविजयं (१७३७ वै०), भगवन्तस्य (१७४७ वै०) मुकुन्दविलासः, घनश्यामस्य (१७८२ वै०) भगवत्पादचरितं, वेङ्कटेशचरितं, रामपाणिवादस्य ( १८८२ वै० ), विष्णुविलासं, राघवीयकाव्यं, रामवर्मणः ( १८५७ वै० ) रामचरितं, केरलवर्मणो ( १९१७ वै० ) विशाखराजचरितं, परमेश्वरशिवस्य ( १९२७ वै० ) रामवर्ममहाराजचरितं, अभिनवरामानुजाचार्यस्य (१९३२ वै० ) श्रीनिवाससुधाकरं, विधुशेखरस्य (१८५७-वै० ) उमापरिणयं, हरिश्चन्द्रचरितं, चण्डमारुताचार्यस्य ( १९५७ वै० ) अलीनराजकथा, नारायणस्य सौन्दरविजयं ( १९५७ वै०) मद्राद्रिरामस्य (१९५७ वै० ) श्रीरामविजयं, शङ्करलालस्य (१९५७ वै०) रावजीराजकीर्तिविलासं, बालचरितं, शिवकुमारस्य (१९६७ वै०) यतीन्द्रजीवनचरितं, हेमचन्द्ररायस्य (१९७७ वै०) हैहयविजयं, पाण्डवविजयं, अन्नदाचरणस्य (१९८७ वै०) रामाभ्युदयं, महाप्रस्थानं, वटुकनाथस्य ( १९८७ वै० ) सीतास्वयंवरं, गुरुप्रसन्नस्य ( १९८७ वै० ) श्रीरासमहाकाव्यं, नागराजस्य ( १९९७ वै० ) सीतास्वयंवरं, देशभक्तचरितं, भगवदाचार्यस्य भारतपारिजातं, पारिजातापहारं, पारिजातसौरभं ( १९९७-२००७ वै० ), विष्णुदत्तस्य ( २०१५ वै० ) सौलोचनीयं, गङ्गाकाव्यं, मेधाव्रतस्य (२००७ वै०) दयानन्ददिग्विजयं, रामावतारस्य (२००४ वै०) भारतानुवर्णनं, दिलीपदत्तस्य ( २००६ त्रै.) मुनिचरितामृतं, अखिलानन्दस्य (२००५ वै०) दयानन्ददिग्विजयं, गङ्गाधरतैलङ्गस्य अलिविलापसंलापः, मथुरानाथस्य ( २००६ वै० ) जयपूरवैभवं, गोविन्दवैभवं; रघुनाथस्य चन्द्रौपालम्भवर्णनं (२००७ वै० ), मथुराप्रसादस्य प्रतापविजयं, भारतविजयं (२००७ वै० ), बदरीनाथस्य ( २००८ वै०) राधापरिणयः, गङ्गाप्रसादस्य भावोदयं उमापतेः परिजातहरणं, रामस्नेहिनो जानकीचरितामृतम् ( २००७ वै० ), द्विजेन्द्रनाथस्य स्वराज्यविजयम् (२०१७ वै० ), सत्यव्रतस्य (२०२० वै०) बोधिसत्वचरितं, गुरुगोविन्दसिंहमहाकाव्यं, भण्डारकरोपाह्वत्र्यम्बकशर्मणः स्वामि-विवेकानन्दचरितमहाकाव्यमष्टादेशंसर्गात्मकम्, रेवाप्रसादस्य (२०२५ वै०) सीताचरितं, एवमेव माधवप्रसाददेवकोटाऽऽव्यस्य भारतीवैभवं ( काव्यं ) उमानाथशर्मणो गण्डकीगौरवं, कृष्णप्रसादशर्मणः श्रीरामविलापः (खण्डकाव्यं ) श्रीकृष्णचरितामृतं ( महाकाव्यं, षट्पञ्चाशतसर्गात्मकं ) नाचिकेतसं, ययातिचरितं, सम्पातिसन्देशः, रोहिणीवल्लभशर्मणोऽभिनवमेघदूतं, नरहरिनाथस्य अन्योक्तिमुक्तावलिः, भरतराजशर्मणो महेन्द्रोदयमहाकाव्यं (दशसर्गात्मकं), छविलालसूरेः विरक्ततरङ्गिणी (खण्डकाव्यम्), लक्ष्मणकवेः कवितानिकषोपलः (१८५० वै०), कुलचन्द्रशर्मणो भागवतमञ्जरी, गङ्गागौरवं, श्रीकृष्णकर्णामृतं, हरिवरिवस्याः सोमनाथर्मण आदर्शराघवपुष्पाञ्जलिः पूर्णप्रसादब्राह्मणस्य सत्यहरिश्चन्द्रमहाकाव्यं, हरिप्रसादस्य शाहवंशचरितं च।

सम्बद्धाः लेखाः[सम्पादयतु]

सन्दर्भाः[सम्पादयतु]

  1. २।७।२४
  2. ४।३।१०१
  3. संस्कृतसाहित्यविमर्शे ४३६ पृष्ठे अन्तिमप्रखण्डे
  4. ३।२६०
  5. शृंगारप्रकाशे ११/१५६
  6. नवसाहसाङ्कचरिते १/५
  7. २१-२२
  8. २०
  9. २३-२८
  10. उत्तरमेघे ५
  11. ५/३९
  12. ५/३९
  13. ४।१४४
  14. ४/७०५
"https://sa.wikipedia.org/w/index.php?title=संस्कृतकवयः&oldid=443958" इत्यस्माद् पुनः प्राप्तिः