अन्ताराष्ट्रियवाताटोत्सवः (गुजरातराज्ये)

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(काइट् फेस्टिवल् इत्यस्मात् पुनर्निर्दिष्टम्)
अन्ताराष्ट्रियवाताटोत्सवः
अन्ताराष्ट्रियवाताटोत्सवस्य एकं दृश्यम्
तिथिः ११-१५ 'जनवरी'-मासे प्रतिवर्षे
स्थानम् गुजरातराज्यम्, भारतम्
आरम्भवर्षः १९८९ आरभ्य
शैली वाताटः
जालस्थानम् अधिकृतजालस्थानम्
અમદાવાદી ઉત્તરાયણ

अन्ताराष्ट्रियवाताटोत्सवः ( /ˈəntɑːrɑːʃhtrɪjəvɑːθɑːttsəvəh/) (गुजराती: પતંગોત્સવ - ઉત્તરાયણ, आङ्ग्ल: International Kite Festival in Gujarat – Uttarayan) मकरसङ्क्रमणदिने गुजरातराज्ये आचर्यमाणः विशिष्टः, सुप्रसिद्धश्च उत्सवः अस्ति । यस्मिन् दिने भगवान् सूर्यः मकरराशिं प्रविशति, तस्मिन् दिने भारते मकरसङ्क्रान्त्युत्सवः आचर्यते । सूर्यस्य मकरराशौ प्रवेशः मकरसङ्क्रमणम् इत्युच्यते । अतः मकरसङ्क्रान्तिः इति नाम । मकरसङ्क्रान्तिदिनादारभ्य षण्मासाः उत्तरायणपुण्यकालः भवति । अतः गुजरातराज्ये उत्सवस्यास्य उत्तरायणम् इति व्यवहारः । प्रतिवर्षं 'जनवरी'मासस्य चतुर्दशे दिनाङ्के मकरसङ्क्रान्तिः भवति । अस्मिन् उत्सवदिने तदङ्गत्वेन गुजरातराज्यस्य सर्वकारस्य प्रवासोद्यमनिगमेन काचन विशिष्टा अन्ताराष्ट्रिय-वाताट-उड्डयनस्पर्धा आयोज्यते इतीदं वैशिष्ट्यम् । अस्यां च स्पर्धायां न केवलं भारतस्य विभिन्नेभ्यः राज्येभ्यः, अपि तु नानादेशेभ्यः स्पर्धालवः समागत्य भागं गृह्णन्ति । स्पर्धां द्रष्टुम् अपि अत्यधिकसङ्ख्यायां द्रष्टारः भवन्ति । उत्सवदिने आकाशे सर्वत्र वाताटाः एव दृश्यन्ते । तस्मिन् दिने आबालवृद्धाः, महिलाः, युवतयश्च आदिनं स्वस्वप्रासादोपरि वाताटान् उड्डाययन्ति ।

प्रतिवर्षं गुजरातराज्ये द्विसहस्रोत्सवाः (२,०००) आचर्यन्ते जनैः । अन्ताराष्ट्रियवाताटोत्सवः (मकरसङ्क्रान्तिः) प्रमुखोत्सवेषु अन्यतमः अस्ति । मासत्रयात् पूर्वमेव पतङ्गनिर्माणस्य, पतङ्गरज्जोः रङ्गलेपनस्य च आरम्भः भवति । गुजरातीजनानां गृहेषु वाताटोत्सवस्य सज्जता एकमासात् पूर्वमेव प्रारभते । हिन्दुपञ्चाङ्गानुसारं मकरसङ्क्रान्तिदिनं शीतकालस्य समाप्तेः, ग्रीष्मर्तोः आरम्भस्य च प्रतीकः अस्ति । एतत् दिनं कृषकेभ्यः सङ्केतः अस्ति यत्, सूर्यकालः पुनरागतोऽस्ति, कृषिकार्ये सल्लग्नाः भवन्तु इति । आभारतम् एतत् दिनं कृषिकार्याय मुख्यतमम् । गुजरातराज्यस्य बहुषु नगरेषु वाताटस्पर्धायाः आयोजनं भवति । तस्यां स्पर्धायां नगरस्य वाताटप्रेमिणः भागं वहन्ति । स्पर्धाविजेतारः पुरस्कारान् प्राप्नुवन्ति । गुजरातराज्ये मकरसङ्क्रान्त्युत्सवस्य आचरणम् एतावत् प्रसिद्धम् अभूत् यत्, गुजरातसर्वकारेण प्रतिवर्षं 'जनवरी'-मासस्य १४-१५ दिनाङ्कयोः अवकाशस्य घोषणा कृता । मकरसङ्क्रान्त्युत्सवदिनेषु प्रादेशिकभोजनेषु 'उन्धियु, जलेबी, फाफडा'-भोजनं बहुप्रख्यातमस्ति । मकरसङ्क्रान्त्युत्सवस्य पूर्वदिने वाताटप्रेमिणः स्वेप्सितवाताटान् क्रीणन्ति । नगरस्य सर्वास्वपि विपणिषु रात्रिकाले वाताटापणाः रम्यैः वर्णरञ्जितवाताटैः सुसज्जिताः सन्तः सर्वान् आकर्षयन्ति । तस्यां रात्रौ कोटिशः वाताटानां क्रयणं, विक्रयणं च भवति । २०१२ तमे वर्षे गुजरातप्रवासोद्यमनिगमेन उद्घोषितं यत्, गुजरातराज्येण Guinness World Record पुस्तके स्थानं प्राप्तमस्ति इति । कारणं तस्मिन् वर्षे मकरसङ्क्रान्तिदिने अन्ताराष्ट्रियवाताटोत्सवे द्विचत्वारिंशत्(४२)देशाः भागम् अवहन् ।

स्थानम्[सम्पादयतु]

मकरसङ्क्रान्तिदिने वाताटमयं गगनम्

मुख्यतया गुजरातराज्यस्य अहमदाबाद, सुरत, वडोदरा, राजकोट, नडियाद-आदिषु नगर-महानगरेषु वाताटोत्सवस्य आयोजनं भवति । तेषु अहमदाबाद-महानगरे राष्ट्रिय-अन्ताराष्ट्रियपर्यटकेभ्यः अन्ताराष्ट्रियवाताटोत्सवस्य आयोजनं भवति । अन्ताराष्ट्रियवाताटोत्सवस्य आनन्दम् आस्वादयितुं प्रमुखं स्थलमस्ति ‘सरदार पटेल स्टेडियम्’ । तत्र ५४,००० वीक्षकेभ्यः आसनव्यवस्था अस्ति । साबरमती रिवर्-फ्रण्ट् इत्यस्मिन् स्थले सहस्रशः वाताटाः आदिनम् गगने उड्डयन्तः दरीदृश्यन्ते । अन्ताराष्ट्रियवाताटोत्सवस्य आनन्दम् आस्वादयितुं तत्रापि अत्यधिकसङ्ख्यायां द्रष्टारः गच्छन्ति । तद्विहाय अहमदाबाद-महानगरस्य अन्यस्थलेष्वपि अन्ताराष्ट्रियवाताटोत्सवस्य आयोजनं भवति ।

अन्ताराष्ट्रियवाताटोत्सवविषये किञ्चित्[सम्पादयतु]

वाताटचयननिरतः महानायकः

अन्ताराष्ट्रियवाताटोत्सवस्य दिनेषु बहवः प्रख्याताः वाताटापणाः चतुर्विंशतिघण्टां यावत् वाताटविक्रयणार्थम् उद्घाटिताः भवन्ति । तेषु वाताटापणेषु अहमदाबाद-महानगरस्य हृद्प्रदेशे स्थिता ‘पतङ्ग बाजार’ इतीयं विपणिः प्रख्याता अस्ति । अस्यां विपण्यां क्रेतॄणां, विक्रेतॄणां च सम्मर्दः आदिनम्, आरात्रिः च भवति । अन्ताराष्ट्रियवाताटोत्सवस्य प्रभावः एतावान् वर्धितोऽस्ति यत्, अहमदाबाद-महानगरस्य केचन गृहस्थाः स्वगृहे एव नवीनानां पद्धितीनाम् उपयोगं कृत्वा वाताटानां रचनां कुर्वन्ति । तेषु केचन स्वनिर्मितानां वाताटानां विक्रयणमपि कुर्वन्ति ।

१९८५ तमे वर्षे स्थापितः एशियाखण्डस्य बृह्त्तमः संस्कारकेन्द्र-नामकः वाताटसङ्ग्रहालयः अहमदाबाद-महानगरस्य पालडी-क्षेत्रे अस्ति । अस्मिन् सङ्ग्राहलये विविधप्रकारकाणां वाताटानाम् आकर्षकं, ज्ञानवर्धकं च प्रदर्शनी आवर्षं भवति । परन्तु उत्सवदिनेषु तत्र पुरातन-नव्यवाताटानां विशेषप्रदर्शनी भवति । अतः तस्मिन् सङ्ग्रहालयेऽपि जनानां सम्मर्दः अधिकः भवति अन्ताराष्ट्रियवाताटोत्सवदिनेषु ।

उत्सवदिनाङ्कः[सम्पादयतु]

प्रतिवर्षं 'जनवरी'-मासस्य चतुर्दशे दिनाङ्के मकरसङ्क्रान्त्युत्सवः भवति । तस्मिन् दिने एव अन्ताराष्ट्रियवाताटोत्सवस्य आयोजनं भवति । परन्तु 'जनवरी'-मासस्य पञ्चदशे दिनाङ्केऽपि उत्सवः आचर्यते । कारणं तद्दिनमेव कृषकेभ्यः ग्रीष्मर्तोः आगमनस्य प्रतीकः अस्ति । अतः तस्मिन् दिने उत्सवप्रियाः गुजरातीजनाः ‘वासी उत्तरायण’म् आचरन्ति । ‘वासी’ इत्यस्य गुजरातीशब्दस्यार्थः पुरातनम् इति । पुरातनस्य उत्तरायणपर्वणः उत्सवः इत्यर्थः ।

इतिहासः[सम्पादयतु]

अस्योत्सवस्य मुख्योद्देशः अस्ति यत्, प्रगाढनिद्राधीनाः देवताः अस्मिन् दिने जाग्रति । अतः तासां प्रार्थना कर्तव्या इति । भारतीयेतिहसविदां मतमस्ति यत्, वाताटोड्डयनस्य प्रप्रथमा प्रथा भारतदेशे एव प्रारब्धा । तां च प्रथां गुजरातराज्यस्य राजानः एव प्रारब्धवन्तः इति । तदानीन्तनकाले तु वाताटोड्डयनं केवलं धनिकानामेव उत्सवः आसीत् । कालान्तरेण गुजरातराज्यस्य जनसामान्याः अपि एनम् उत्सवं आचरितुं प्रारभन्त । अस्योत्सवस्य प्राधान्यम् एतावदभूत् यत्, कालान्तरे पर्वदिने अवकाशः अपि उद्घोषितः सर्वकारेण । ततः सामूहिकवाताटोत्सवस्य आयोजनं प्रारब्धम् । एवं १९८९ तमे वर्षे गुजरातराज्यस्य प्रवासोद्यमनिगमेन अहमदाबाद-महानगरे प्रप्रथमः आन्तरराष्ट्रियवाताटोत्सवः आयोजितः ।

२०१२ तमे वर्षे गुजरातराज्यस्य राज्यपालस्य डा. कमला इत्यस्याः आध्यक्षे मुख्यमन्त्री नरेन्द्र मोदी अन्ताराष्ट्रियवाताटोत्सवस्य उद्घाटनमकरोत् । तस्मिन्नेव वर्षे एव गुजरातराज्येण Guinness World Record पुस्तके स्थानं प्राप्तमासीत् ।

२०१४ वर्षे उत्सवायोजनम्[सम्पादयतु]

उत्तरायणरात्रौ ‘टुक्कल’-सहितवाताटोड्डयनम्

२०१४ तमे वर्षे 'जनवरी'-मासस्य ११ दिनाङ्कात् १३ दिनाङ्कपर्यन्तं ‘साबरमती रिवर्-फ्रण्ट्’ इत्यस्मिन् स्थले अन्ताराष्ट्रियवाताटोत्सवस्य आयोजनं भविष्यति । विश्वस्य ३५ देशेभ्यः द्विशतमधिकाः स्पर्धालवः स्पर्धायां भागं वहिष्यन्ति । अन्ताराष्ट्रियवाताटोत्सवस्य कार्यक्रमेषु आदित्यहृदयपाठः, बालानां सूर्यनमस्कारः, ‘थीम पेविलियन, फुड कोर्ट, एडवेञ्चर पेविलियन’-आदीनां मुख्याकर्षणमस्ति । अस्य अन्ताराष्ट्रियवाताटोत्सवस्य उद्घाटनं गुजरातराज्यस्य मुख्यमन्त्री नरेन्द्र मोदी श्लोकोच्चारणेन करिष्यति । अन्ताराष्ट्रियवाताटोत्सवस्य भागरूपिणाम् अन्येषां कार्यक्रमाणाम् उद्घाटनं गुजरातराज्यस्य प्रवासोद्यममन्त्री करिष्यति ।

अन्ताराष्ट्रियवाताटोत्सवस्य त्रिषु दिनेषु दिवससमये वाताटोड्डयनस्पर्धा भविष्यति, रात्रिकाले तु ‘टुक्कल’ इत्यनेन सह वाताटोड्डयनं भविष्यति । देहली-महानगरस्य 'कनोट सर्कल'-क्षेत्रेऽपि राज्यप्रवासोद्यमनिगमेन अन्ताराष्ट्रियवाताटोत्सवस्य आयोजनं कृतमस्ति । 'जनवरी'-मासस्य ८ दिनाङ्के मुम्बई-महानगरेऽपि वाताटोत्सवस्य आयोजनं राज्यप्रवासोद्यमनिगमेन कृतमस्ति । 'जनवरी'-मासस्य ९-१० दिनाङ्कयोः क्रमेण गुजरातराज्यस्य सापुतारागिरिधाम्नि, कच्छमरुभूमौ वाताटोत्सवस्य आयोजनं राज्यप्रवासोद्यमनिगमेन कृतमस्ति ।

शृङ्खलावाताटचित्रम्

सम्बद्धाः लेखाः[सम्पादयतु]

कर्णावती-महानगरम्

नरेन्द्र मोदी

मकरसङ्क्रान्तिः

गुजरातराज्यस्य उत्सवाः

बाह्यानुबन्धः[सम्पादयतु]

http://www.gujaratindia.com/about-gujarat/kite-festival.htm

http://www.thehindu.com/news/national/other-states/modi-inaugurates-international-kite-festival/article5570106.ece

http://www.kiteclubindia.in/international-kite-festival-ahmedabad-india.html Archived २०१४-०१-०८ at the Wayback Machine

http://www.narendramodi.in/liveevent/social/index.html

http://www.dnaindia.com/india/report-narendra-modi-inaugurates-international-kite-festival-in-gujarat-1949708