कान्तिमती

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search
कान्तिमती
DeadEnd-LeftTurn-Germersheim.jpg


साध्वी कान्तिमती[सम्पादयतु]

शाकलनगरे श्रुतदेव नामक ब्राह्मणः आसीत् । पवित्रे श्रीवत्सगोत्रे जातः एषः पूर्वजन्मनि कृतेन पुण्यविशेषेन आढ्यतां प्राप्तवान् आसीत् । तस्मै अनुरूपा, साध्वी, सुन्दरी च पत्नी अपि प्राप्ता आसीत् । सा न केवलं नाम्ना अपि च रूपगुणेषु च कान्तिमती आसीत् ।

पूर्वसंस्कारः, ब्राह्मणजन्म च आस्तां तथापि श्रुतदेवः विधिनियमानुसारं दुर्व्यसनग्रस्तः जातः आसीत् । एतेन भ्रष्टः जातः । सः तस्य नगरस्य विख्यातायाः वेश्यायाः जाले आपतत् । आरम्भे तस्याः गृहं प्रति गमनागमनं कुर्वन् अन्ते ताम् एव आनीय गृहे स्थापितवान् । तावति निर्लज्जता आगता श्रुतदेवस्य ।

सहनशीला कान्तिमती[सम्पादयतु]

पत्युः सेवानिरतया कान्तिमत्या वेश्यायाः सेवा अपि करणीया आपतिता । तस्याः सेवां न करोति चेत् पत्युः कोपः भवेत् इति एतस्याः भयम् । एतत् दृष्ट्वा वेश्यायाः एव लज्जा अभवत् । रात्रौ यदा तयोः मिलित्वा शयनं भवति स्म, एषा तयोः वीजनं कृत्वा अनन्तरं अधः शयनं करोति स्म । यदि रात्रौ कापि आवश्यकता भवति तर्हि कान्तिमती उत्थाय वेश्यायाः आवश्यकताः पूरयति स्म । एवं पत्युः सेवाकरणेन कान्तिमत्याः बहु आनन्दः भवति स्म । तस्याः द्र्ष्ट्या पतिः एव परमेश्वरः । पतिः तावतीं निर्लक्ष्यता दर्शयति चेदपि तस्याः हृदये पत्युः विषये कुत्रापि ईर्ष्याद्वेषौ न आस्ताम् । कान्तिमती आत्मानं तयोः दासी इति मत्वा श्रद्धया द्वयोः अपि सेवां करोति स्म । त्रिभिर्वर्षैस्त्रिभिर्मासैस्त्रिभिर्पक्षैस्त्रिभिर्दिनैः । अत्युग्रपुण्यपापानामिहैव फलमश्नुते ॥ अत्यन्तं पुण्यं वा अत्यन्तं पापं वा भवतु, एतदुभयमपि शीघ्रमेव फलं यच्छति । कदाचित् सः ब्राह्मणः मूलकं, माषं, तिमं, दधि च मेलयित्वा भोजनं कृतवान् । एतेन विषमेन भोजनेन तस्य वमनम् अतिसारः च आरब्धः । जठरस्य व्याधिः, अतीव वेदनाजनकः मूलव्याधिः च आरब्धौ । एतेन रोगेण सः आदिनं असह्यवेदनया चीत्कारं कुर्वन् भवति स्म। तेन आनीता सा वेश्या तु तस्मात् अत्यधिकं धनं स्वीकृत्य स्वगृहे पूरितवती आसीत् । इदानीं तस्य रोगकारणतः तस्याः असहना, जामिता च आरब्धे आस्ताम् । 'यदि तत्रैव तिष्ठामि तर्हि तस्य सेवा करणीया भवेत्’ इति चिन्तनेन सा ततः तं त्यक्त्वा गतवती । सः तु सर्वदृष्ट्या पतितः इत्यनेन सर्वे सम्बन्धिनः अपि तं पूर्वमेव त्यक्तवन्तः आसन् । मित्राणि तु आरम्भतः नासन् एव । अतः बान्धवाः, मित्राणि , अन्ते तस्य हस्ते यावत् पर्यन्तं धनम् आसीत् तावत् पर्यन्तं स्थितवती सा वेश्या अपि यदा त्यक्त्वा गतवन्तः तदा रोगेन निश्चेष्टितः इव पतितं तं द्रष्टुं, साहाय्यं कर्तुं पत्नी केवलम् अवशिष्टा आसीत् । कान्तिमती तु दुःखेन विना अहर्निशं पत्युः सेवां कुर्वती आसीत् । स्वस्य विश्रान्तिमपि अविगणय्य सर्वदा पत्युः शुश्रूषां कुर्वती कदा सः आरोग्यवान् भवति इति चिन्तयन्ती आसीत् । पत्युः वस्त्राणि स्वच्छीकरोति स्म । स्नानं कारयति स्म । भोजनं, वीजनं, समीपस्थेन वैद्येन औषधस्य आनयनम्, औषधदानम् उपचारं च कुर्वती आसीत् ।

सेवाव्रतिनी कान्तिमती[सम्पादयतु]

कान्तिमत्याः सेवां दृष्ट्वा सुधर्मस्य मनसः परिवर्तनम् अभवत् । इदानीं सः जीवनस्य सत्यं स्वस्य दोषं च ज्ञातवान् आसीत् । अतः सः कान्तिमत्यै वदति "अहं भवत्यै बहु कष्टं दत्तवान् अस्मि । भवत्याः अवमानं च कृत्वा भवतीं पीडितवान् अस्मि । तस्य पापस्य फलम् इदानीम् अनुभवन् अस्मि । मम क्षमां करोतु” इति क्षमां याचितवान् । एतद् श्रुत्वा कान्तिमत्याः मनसि कष्टम् अभवत् । सा लज्जया वदति "हे प्रभो ! माम् अपराधिनीं मा करोतु । भवत्तः मम किमपि कष्टं नास्ति । भवतः सेवाकरणेन मम महान् आनन्दः एव । अहं भवतः दासी अस्मि । मम कर्तव्यम् अहं पालयन्ती अस्मि” इति । तदा तस्याः पतिः 'कर्तव्यम्’ इति पदप्रयोगेन मम लज्जां मा वर्धयतु प्रिये ! यथा भवती भवत्याः कर्तव्यं निर्वहन्ती अस्ति तथा अहं मम कर्तव्यस्य निर्वहणं न कृतवान् । भवत्यै बहुकष्टं दत्तवान् किल ?” इति उक्तवान् । पत्युः वचनं श्रुत्वा “ तथा सर्वं न वदतु मम देव !” इति पतिभक्तिं प्रदर्शयन्ती सा तस्य पादे मस्तकं स्थापितवती । सा साध्वी पत्युः स्वास्थ्यार्थम् अनेकानि व्रतानि आचरितवती । अनेकान् देवान् अर्चितवती । तपः आरब्धवती । रुग्णपत्युः कष्टनिवारणार्थं सर्वविधान् प्रयत्नान् कृतवती ।

शीलवती[सम्पादयतु]

कदाचित् वैशाखस्य मध्याह्ने महर्षिः देवलः तेषां गृहम् अतिथिरूपेण आगतवान् । अतीवश्रद्धाभक्त्या कान्तिमती तस्य स्वागतं कृत्वा शीतलजलेन तस्य पादौ प्रक्षाल्य, पादोदकं स्वस्य, पत्युः च शिरसि सिक्तवती। स्नानाय चन्दनकर्पूराभ्यां मिश्रितस्य जलस्य व्यवस्थां कृतवती । तस्मै स्वादिष्टं, मधुरं च भोजनं दत्तवती । ततः महर्षेः निर्गमनसमये तस्मै ताडपत्रेन निर्मितं छत्रं, चन्दनकाष्ठेन निर्मितं चरणपादुकां च अनुरोधेन समर्पितवती । एतेन पुण्यकार्येन तस्याः पत्युः कष्टं किञ्चित् दूरम् अभवत् । एकदा सुधर्मः असङ्गतानि वचनानि वक्तुम् आरब्धवान् । ज्वरस्य तापकारणेन तथा जायमानम् आसीत् । एतेन कान्तिमत्याः भयं जातम् । सा तु एकाकिनी अस्ति । किं वा करोति ? समीपे विद्यमानस्य वैद्यस्य समीपं गत्वा रोगस्य लक्षणानि उक्त्वा औषधानि आनीतवती । तावता एषः ब्राह्मणः दन्तान् भद्रतया दष्टवान् आसीत् । एतद् ज्ञात्वा सा तस्य दन्तान् उद्घाट्य, मुखे औषधं स्थापयितुं प्रयत्नं कृतवती । किन्तु मूर्च्छारोगस्य कारणतः आवेशेन सः पुनः दन्तान् दृढं गृहीतवान् इत्यनेन तस्य मुखे विद्यमाना अङ्गुली काचित् कर्तयित्वा तस्य मुखे एव अवशिष्टा । तस्मिन् समये सः बहुकष्टेन प्राणत्यागं कृतवान् । एतेन तस्याः माङ्गल्यमयसौभाग्यस्य जीवनं समाप्तम् अभवत् ।

आजीवनम् अनुभूतानाम् असहनीयकष्टानां चित्राणि तस्याः पुरतः आगतानि । इतःपरं जीवनं व्यर्थम् इति सा निश्चितवती । पत्न्याः कर्तव्यं किम् इति चिन्तितवती । तस्याः मुखतः शोकछाया गता । स्नानं कृत्वा नूतनानि वस्त्राणि धृतवती । अलङ्कारं कृतवती । श्मशाने चितां निर्मितवती । पत्युः शवम् आरोपितवती । स्वयमपि चितारोहणं कृतवती । पत्युः शवस्य आलिङ्गनं कृत्वा अग्निं ज्वालितवती । चिता प्रज्वलिता । पत्युः शवेन सह कान्तिमत्याः शरीरमपि अग्निदेवाय आहुतिरूपेण समर्पितम् अभवत् । "सः ब्राह्मणः मरणसमयेऽपि वेश्यायाः ध्यानं कृतवान् । महर्षेः देवलस्य चरणोदकेन तस्य पापं दूरं गतं चेदपि, जीवनस्य अन्तिमे क्षणे वेश्यायाः चिन्तनं कृतवान्, अपि च साध्व्याः पत्न्याः रक्तमयीम् अङ्गुलीं मुखे संस्थाप्य मृतः इत्यनेन तस्य सद्गतिः न प्राप्ता । तस्य पापस्य प्रायश्चित्तरूपेण अग्रे सः व्याधः इव जन्म प्राप्तवान् ।


""

"https://sa.wikipedia.org/w/index.php?title=कान्तिमती&oldid=408263" इत्यस्माद् पुनः प्राप्तिः