कालप्रयोजनम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

कालप्रयोजनम्

“नित्यो जन्यश्च कालौ द्वौ तयोराद्यः परेश्वरः। सोऽवाङ-मनसगम्योऽपि देही भक्तानुकम्पया” नित्यकालस्य पर-मेश्वरत्वे प्रमाणं पूर्वमेवोपन्यस्तम्। परमेश्वरस्य चावा-ङ्मनसगोचरत्वे सर्वे वेदान्तास्तदनुसारिस्मृतिपुराणानितत्त्वविदनुभवश्च प्रमाणम्। भक्तानुग्राहिमूर्तिस्वीकारश्च तलवकाराख्ये सामवेदशाखाविशेषे कस्यां चिदाख्यायिकाया-माम्नायते तस्यां ह्यास्त्यायिकायामेवमुक्तम्--अग्निवाय्विन्द्रादयो देवा ईश्वरानुगृहीताः सर्व्वत्र विजयमानाःस्वकीयमेव तत्सामर्थ्यमित्यमिमन्यन्ते स्म। तान् बोधायितुम-वाङ्मनसगम्यं परमेव ब्रह्म पूज्यां चक्षुर्गम्यां काञ्चिन्मूर्त्तिंध{??}रयित्वा प्रादुर्बभूव। तया सह वादं कृत्वापि राजस-चित्तावग्निवायू तद्ब्रह्मतत्त्वं नैव बुबुधाते इन्द्रस्तु सात्विकचित्तोबुबुधे इति। वासिष्ठरामायणेऽपि शुक्रोपाख्यानेशुक्रं मृतमवलोक्य तत्पिता भृगुः क्रुद्धो मारयितारं कालंशप्नुमुद्यत तदानीं कालोऽनुग्रहीतुमीदृशेन रूपेणाविर्ब-भूवेति पठ्यते

“अथाकलितरूपोऽसौ कालः कवलितप्रजः। आधिभौतिकमास्थाय वपुर्मुनिमुपाययौ। बहुपाशधरःश्रीमान् कुण्डली कवचान्वितः। ऋतुषट्कमयोदारवक्त्र-षट्कसमन्वितः। मासद्वादशकोद्दासभुजद्वादशकोद्भटः। स्वाकारसमया बह्व्या वृतः किङ्करसेनय। स उपेत्य प्रण-म्यादौ कुपितं तं महामुनिम्। कल्पक्षुब्धाव्धिगम्भीरंसान्त्वपूर्व्वमुवाच ह्। त्वमत्यन्ततपा विप्र! वयं नियति-प्रालका तेन संपूज्यसे पूज्य। साधो! नेतरवीक्षया। मा[Page1987-b+ 38] तपः क्षपयाऽबुद्ध! कल्पकालमहानलैः। यो न दग्धोऽस्मिमे तस्य किं त्वं शपेन धक्ष्यसि?। संसारावलयो ग्रस्तानिगीर्णारुद्रकोटयः। भुक्तानि विष्णुवृन्दानि केन शप्तावयं मुने!। भोक्तारो हिवयं ब्रह्मन् भोजनं युष्मदादयः। स्वयं नियतिरेषा हि नावयोरेतदोक्षितमिति”। न च भक्ता-नुजिघृक्षया स्वेकृता मूर्त्तिरीदृश्येवेति कश्चिन्नियमोस्तिसर्वात्मकस्य परमेश्वरस्य भक्तचित्तप्रियायाः सर्वस्या अपिमूर्त्ते स्वकीयत्वात् अतएव भगवद्गीतायाम्

“यो यो यांयां तनु भक्तः श्रद्धयार्चितुमिच्छति। तस्य तस्याचलांश्रद्धां तामेव विदधाम्यहम्। स तया श्रद्धया युक्तस्तस्याराधनमीहते। लभते च ततः कामान् मयैव विहि-तान् हितानिति”। विष्णुरुद्रादिवत् अचेतनमूर्त्तयोऽपितत्तत्फलविशषार्थिभिरोश्वरत्वेनोपास्याः। तदेतदृग्वेदेसमाम्नायते।

“एतं ह्येव बह्व्यच महत्युक्थे मीमांसन्तएतमग्नावध्वर्यव, एतं महाव्रतेच्छन्दोगा, एतमस्याम्(पृथिव्याम्) एतं दिव्येतं वायावेतमाकाश एतमोषधीष्वेतंवनस्पतिष्वेतं छन्दस्येतं नक्षत्रेष्वेतं सर्वेषु भूतेष्विति” वाज-सनेयिनोऽपि मण्डलब्राह्मणे

“तमेतमग्निमध्वर्यव उपा-सत इत्यारम्य पठन्ति

“विषमिति सर्पाः, सर्प इति सर्प-विदः, उर्गिति देवः, रयिरिति मनुष्याः, मायेत्यमुराः,स्वधेति पितरो, देवजन इति देवजनविदो रूपमिति गन्धर्वा,गन्धैत्यप्सरसस्तं यथायथोपासते तदेव भवतीति”। तैत्ति-रीयाश्च पठन्ति

“क्षेम इति वाचि, योगक्षेमम् इति प्राणा-पानयोरित्यादि”। परब्रह्मण्यारोपितं यद्यावज्जगद्रूपम्अस्ति तेन सर्व्वेणःप्युपासनया परमेश्वरो रूपवान्भवतीति-हिरण्मयाधिकरणतेजोमयाधिकरणयोः प्रपञ्चितम्। एवंच सति यो यदा यत्कर्म्मारभते स तदा तत्कर्म्मोपयुक्तांकालात्मकस्येश्चरस्य मूर्त्तिमिष्टदेवंतारूपेणानुस्मरेत्। अतएव मन्त्रशास्त्रेषु नानाविधानि ध्यानान्युपदिष्टानि। लोके-ऽप्याविद्वदागोपालाङ्गनं सर्वोऽपि जन एकैकां देवतां स्वेच्छयापूजयति तदेतद्भगवानाह

“यजन्ते सात्विकादेवान् यक्षरक्षां-सि राजसाः प्रेतान् भूतगणांश्चान्थे यजन्ते तामसा जनाः” इति तस्म दारभ्यमाणकर्म्मफलप्रदोनिजेष्टदेवतारूपोनित्यःकालः कर्म्मारम्भेषु अनुस्मर्त्तव्य इति सिद्धम्। ( अथ जन्यं कालं निरूपयामः। ननु कालस्य जन्यत्वेसति कथं प्रलये कालव्यवहारः। प्रलयत्वस्य जन्या-नधिकरणत्वरूपत्वात्। प्रलयोऽतीतः प्रलयोभावीतिकालनित्यत्ववादिनस्तवापि समोदोषः। नित्यस्य कालस्य[Page1988-a+ 38] तपनपरिस्यन्दाद्युपाधिभिः परिच्छेदे सत्येतावान्काल इति कालेयत्ता वर्ण्णयितव्या। न च प्रलयेतदुपाधयः सन्ति। अतस्तव कथं प्रलयकाले इयत्तानि-र्ण्णयः। अथ सत्कार्य्यवादाभ्युपगमेनोपाधयोऽपि वासनारूपेण सन्ति तर्हि कालेऽपि तत्समानं, न चैतावता नित्यता-प्राप्तिः उपाधिषु तदनङ्गीकरात्। अथ मन्यसे इयत्तार-हितेऽपि प्रलयकाले सृष्टिकालेयत्तावासनावशादियत्ता व्यव-ह्रियते। तत्रोपाध्यायत्वादिर्दृष्टान्तः। यथा कश्चिन्माणवकःत्रिंशद्वर्षवयस्कादध्येतुमुपक्रम्य संवत्सरमधीत्यास्मदुपाध्यायएकत्रिंशद्वर्षवयस्क इत्यध्ययनरहितेऽप्यतोते वयस्य्वपाध्यायत्वंव्यवहरति। तद्वदियत्ताव्यवहारः। एवं तर्ह्यनेन न्यायेनकालरहितप्रलये कालव्यवहारः किं न स्यात्?। कालरहितंच प्रलयादिकं वस्त्वस्तोति माण्डूक्यादिश्रुतयोऽभ्युप्रगच्छन्ति। तथा च श्रूयते,

“यच्चान्यत्त्रिकालातीतं तद-प्योङ्कार एवेति”। प्राभाकराश्चापूर्व्वस्य कालत्रयासंसृष्टा-ङ्काञ्चिदवस्थाभाहुः। तस्मात्कालः सुखेन जन्यतां स चसामान्यविशेषाभ्यान्द्विविधः। तस्य चोभयविधस्येश्वरा-ख्यान्नित्यात्कालादुत्पत्तिं मनुराह

“कालं कालविभक्तिञ्चनक्षत्राणि ग्रहांस्तथा। सृष्टिं ससर्ज चैवेमां स्रष्टुमिच्छ-न्निमाः प्रजाः” इति। तत्र यः सामान्यकालः स विशेषानु-गतत्वात्तदपेक्षया नित्योग्रहगत्यादिभिरनुमेयो भूतोत्पत्ति-निमित्तकारणमिति तार्किकज्यौतिषिकादयः प्रतिपेदिरे।

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=कालप्रयोजनम्&oldid=463309" इत्यस्माद् प्रतिप्राप्तम्