कालिदासजयन्ती

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
कालिदासजयन्ती
कालिदासस्य कृति:
कालिदासस्य कृति:

विश्वसाहित्ये संस्कृतभाषायां महत्वपूर्णं स्थानं प्राप्तवान् । कालिदासः महाकविः कविकुलगुरुः इति च प्रसिध्दः अस्ति । भारतदेशे कालिदासमहाकवेः जयन्तिन्त्युत्सवं वैभवेन आचरन्ति । कालिदासजयन्ती समये कालिदासस्य कृतीनां विषये अनेकविधाः कार्यक्रमाः भवन्ति ।

कालिदासमहाकवेः कालविषये भिन्नाभिप्रायाः सन्ति । किन्तु उज्जयिन्यां गुप्तानाम् अधिकारसमये द्वितीयचन्द्रगुप्तः अथवा विक्रमादित्यः इति महाराजः आसीत् । तस्य समये एव कालिदासमहाकविः अपि आसीदिति विमर्शकानाम् अभिप्रायः अस्ति । विक्रमादित्यस्य आस्थाने अनेकपण्डिताः कवयः आसन् इति च प्रसिध्दम् अस्ति । सुवर्णकालः इति च सः कालः प्रख्यातः आसीत् । अतः क्रिस्तशके चतुर्थे शतके कालिदासः आसीदिति स्पष्टं भवति ।

कालिदासः उज्जयितीवर्णनं स्वमेघसन्देशकाव्ये सुन्दरतया कृतवान् । अतः कालिदासस्य वासः उज्जयिन्याम् आसीदिति अभिप्रायः अस्ति । कालेः दासः एकः पण्डितः कालिदास इति एका कथा सूचयति । अन्यकथानुसारं विद्याधरा इति राजकुमारी मन्त्रि पुत्रेण साकम् अध्ययनं कृतवती पण्डिता च आसीत् । मन्त्रिपुत्रः तां परिणेतुम् इष्टवान् । विद्याधरा तिरस्कृतवती । अनेन दुष्टः मन्त्री एकेन अजपालकेन मूर्खेण साकं तस्याः विवाहं कारितवान् । अनन्तरं सा आजपालकं कालीमन्दिरं नीत्वा कालीमातुः अनुग्रहं प्रार्थितवती ।

कालीदेवी अजपालकाय अनुग्रहं कृतवती, ज्ञानवान् कालिदासः देवीं स्तोत्रं कुर्वन्नेव बहिरागतवान् । विद्याधरा तु भक्तिलीना आसीत् । जयमातङ्गतनये --- इत्यादि स्तुतवान् कालिदासः देशान्तरं गतवान् । अनन्तरं विक्रमादित्यस्य आस्थाने प्रख्यातः अभवत् । काव्यकुशलः नाटककारः कालिदासः श्रेष्ठकविरिति प्रसिध्दः अभवत् । कालिदासः रधुराजानां चरित्रं ‘रघुवंश’ काव्ये वर्णितवान् । उमामहेश्वरयोः प्रीतिविषयकं ‘कुमारसम्भवं’ महाकाव्यम् अतिप्रसिध्दम् अस्ति । मेघसन्देश इति खण्डकाव्यं च लिखितवान् । अभिज्ञान शाकुन्तलं, विक्रमोर्वशीयं, मालविकानिमित्रम् इति नाटकत्रयं कृतवान् कालिदासः विश्वमान्यः अभवत् ।

कालिदासस्य प्रतिभाविषये सर्वेषां भारतीयानाम् अभिमानः अस्ति । कालिदासः स्वकाव्येषु दर्शनशास्त्रं, नीतिशास्त्रं, व्याकरणं, ज्योतिषं, सङ्गीतं, चित्रकला, नृत्यं, वेदोपनिषदः, पुराणानि, धर्मशास्रम् इत्यादीनां उल्लेखं कृतवान् । सर्वशास्त्रवित् कालिदासः सर्वश्रेष्ठकविः नाटककारः इत्यत्र संशयः नास्ति ।

   	कालिदासः प्रकृतिप्रियः इति तु तस्य काव्य दर्शनेन ज्ञातं भवति । महाभारते स्थितं शकुन्तलोपाख्यानम् आधरीकृत्य अभिज्ञानशाकुन्तलं नाटकं रचितवान् । महाभारते विषयः सुवर्णशिला इवासीत् । तं विषयं सुन्दरम् आभरणमिव कालिदासः नाटकं कृतवान् । ‘पुराणमित्येव न साधुसर्वम् ’ इति वदन् कालिदासः अपूर्व रचनायां प्रतिभावान् आसीत् । मालविकाग्निमित्र नाटके नृत्यगीतादीनां विवरणं दत्तवान् । अभिज्ञान शाकुन्तल नाटके सहजजीवनदर्शनं कारितवान् कण्वाश्रमवर्णनम् अतीव सुन्दरम् अस्ति । कालिदासमहाकविं भारतीय ‘षेक्स्पियर्’ इति कथयन्ति । नाट्यविषये कालिदासः‘नाट्यं भिन्नरुचेर्जनस्य बहुधाप्येकं समाराधनम्’ इति उक्तवान् । शकुन्तलायाः पतिगृहप्रेषणसमये अतीव सहजतया सुन्दरं वर्णनं कृतवान् ।

कालिदासस्य शैली मधुरास्ति । माधुर्यगुणपूर्णः कालिदासः मानवजीवनदर्शनं काव्यद्वारा प्रदर्शितवान् । कविकालिदासः सुन्दरोपमालङ्कारैः बहुप्रसिध्दः । दीपशिखाकालिदास ‘इत्यपि कालिदासस्य नाम अभवत् । कालिदासस्य सुन्दरकल्पनानां दर्शनं मेघसन्देश काव्ये पश्यामः । मध्यप्रदेशसर्वकार कालिदासस्य नाम्ना पुरस्कारं ददाति । संस्कृते ‘काव्येषु माघः कवि कालिदासः इत्युक्तिः प्रसिध्दा अस्ति । कालिदासः महाकविः स्वकृतिभिः सर्वकालयोग्यैः वर्णनैः सदा स्मरणीयः अस्ति । कालिदासस्य एकैकं वाक्यमपि संशोधनयोग्यमस्ति । एषः प्राचीनभारतसंस्कृतिप्रतिपादकः आसीत् ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=कालिदासजयन्ती&oldid=484839" इत्यस्माद् प्रतिप्राप्तम्