सामग्री पर जाएँ

किरातवेषः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

किरातवेषः

[सम्पादयतु]

लुब्धकवेषसंस्कारस्य इतिहासः प्रायः ३०० वर्षाणि यावत् अस्ति ।

किरातवेषः

किरातवेषस्य नियमः

[सम्पादयतु]

ये किरातवेषं धरन्ति ते मासान् यावत् नृत्यभ्यासं कुर्वन्ति । नृत्यदिने ते मयूरपुच्छम्, नूपुरं, श्मश्रुं, कार्पासं, रक्तवस्त्रं, खड्गं, वाद्यं, हस्ते निम्बफलं च बद्वा आगच्छन्ति । नगरस्य वीथिषु उच्चैः ध्वनिः श्रूयते । वेषधारी प्रेक्षकाणां मध्ये खड्गं प्रसारयन् अद्वितीयरीत्या नृत्यति तदा द्वौ जनाः तं पृष्ठतः नियन्त्रयन्ति। सः लघु डक्कानादं कृत्वा , नृत्यं कुर्वन्तं व्यक्तिम् उत्साहं ददाति। किरातवेषस्य नृत्यं नगरजनाः आरात्रौ आनन्देन पश्यन्ति विस्मिता च भवन्ति। सः सायङ्कालात् आत्मानं चित्रयति, मयूरपक्षं धारयति, खड्गं धारयति, रात्रौ ९ वादनानन्तरं लुब्धकवेषं कृत्वा नगरस्य वीथिषु नृत्यं करोति। लुब्धकस्य वेषः न केवलं अर्धरात्रे अपितु प्रदोषपर्यन्तं नगरस्य ध्यानम् आकर्षयति । नानाप्रार्थनाभिः कृताभि ते दिवा व्याघ्रवेषं धरन्ति ।

किरातवेषस्य अभ्यासः

[सम्पादयतु]

इयं परम्परा वर्षद्वये एकवारं पाल्यते । यस्मिन् वर्षे शिरसिमारिकाम्बा मेला भवति तस्मिन् वर्षे होली-उत्सवः नास्ति । अन्येषु वर्षेषु होलीपूर्णचन्द्रस्य पूर्वसंध्यायां किरातवेषसम्भ्रमः उत्तुङ्गं प्राप्नोति । होलीपूर्णमासात् पूर्वं दिनत्रयं यावत् किरातवेषपर्वः आचर्यते । किरातवेषस्य अभ्यासः २०-२२ दिवसेभ्यः पूर्वमेव आरभ्यते । अस्य कारणात् नगरस्य महत्त्वपूर्णमण्डलेषु किरातवेषस्य अभ्यासः, लघुडक्का शब्दः च सामान्यः अस्ति । किरातवेषधारी समूहं " बण्डी " इति कथ्यते । दशकपूर्वं अत्यल्पानि बन्डिनां संख्या अधुना वर्धिता अस्ति । नगरस्य मुख्यभागे नित्यं १५-२० बण्डि परिभ्रमन्ति, किरातनृत्यं च कुर्वन्ति ।

राज्ये अन्यत्र कुत्रापि इदृशः व्यवहारः नास्ति ।

[सम्पादयतु]

एषः अद्वितीयः उत्सवः सम्पूर्ण राज्ये केवलं शिरसिनगरे एव भवति। यस्मिन् वर्षे शिरसिमारिकाम्बा मेला भवति तस्मिन् वर्षे होली-उत्सवः न भवति । अन्येषु वर्षेषु होलि पर्वणात् पूर्वं दिनत्रयं यावत् पर्वणोऽयं विजृम्बेण आचर्यते ।

सन्दर्भाः

[सम्पादयतु]
  1. हि.चि. बोरलिङ्गय्य, कर्नाटक जनपद कलेगळ कोश , प्रसाराङ्ग , कन्नड विश्व विद्यालयः , हम्पि ,१९६६
"https://sa.wikipedia.org/w/index.php?title=किरातवेषः&oldid=497306" इत्यस्माद् प्रतिप्राप्तम्