कुटीरोद्योगः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्
कुटीरोद्योगः
यन्त्रः
यन्त्रः

कुटीरोग्योगः (Cottage Industry) नाम सः उद्योगः यः गृहाधारितः भवति न तु कार्यागाराधारितः । गृहे एव तिष्ठन्तः जनाः वस्तूनां निर्माणं, सेवासौलभ्यानि वा कल्पयन्ति । अत्र निर्मितानि वस्तूनि, सेवाः च विशिष्टानि भवन्ति । किन्तु कुटीरोद्योगम् आश्रितवद्भिः कार्यागाराधारितैः उद्यमैः सह स्पर्धाकरणं भवति अति दुष्करम् ।

कुटीरोद्योगस्य प्रारम्भः[सम्पादयतु]

उन्नतये अभ्युदयाय वा कर्मसु कौशलं यः सम्पादयति सः उद्योगी इति कथ्यते। भारते प्राचीनकालादेव कुटीरोद्योगानाम् उल्लेखः उपलभ्यते। प्राचीनकाले तेषां व्यवस्थितरूपेण नियन्त्रणं संचालनं प्रवर्तनं च आसीत् न वा इति वक्तुं दुष्करम्। ऋग्वेदे तक्षा, हिरण्यकारः, चर्मकारः, वासोवायः इत्यादीनाम् उल्लेखो लभ्यते। । यजुर्वेदे (अ.30.5-22) बहवः कुटीरोद्योगाः सनामोल्लेखं प्राप्यन्ते। तत्र केचन कुटीरोद्योगाः प्राधान्येन निर्दिश्यन्ते। यथा-रथकारः, तक्षा, मणिकारः, इषुकारः, धनुष्कारः, ज्याकारः, रज्जुसर्जः, हिरण्यकारः, कुलालः, अयस्तापः, कर्मार, सुराकारः इत्यादयः। कुटीरोद्योगेषु संलग्नानां नारीणामपि वर्णनम् आप्यते। यथा-विदलकारी, रजयित्री, पेशस्कारी, कोशकारी, अञ्जनीकारी, वासः पपूली, स्मरकारी-प्रभृतयः आसन्।

नवदशशताब्दीं यावद् भारतवर्षं स्वोद्योगार्थं संसारे ख्यातिं लेभे। भारतीयनिर्मितं वस्तु शोभनं सुदृढम् इति दूरदेशं यावत् प्रसिद्धिमवाप । रोमदेशं यावत् भारतीयवस्त्राणां ख्यातिः आसीत्। ऊर्णावस्त्राणि, क्षौमवस्त्राणि, कश्मीरदेशीयानि वस्तूनि शाल-दुशाला-कम्बल-प्रभृतीनि अद्यावधि लोके ख्यातिमुपयान्ति। ढाका-नगरस्य मलमल-वस्त्रं विदेशेषु अपि प्रसिद्धिं लेभे। हस्ति-दन्त-कर्माणि, काष्ठकृतयः, लौहवस्तूनि च भारतस्य गौरवम् अद्यावधि प्रथयन्ति। भारतीयवस्तूनि अरब-फारस-सीरिया-प्रभृतिदेशेषु ख्यातिं ययुः। एतच्च १९१९ ईसवीये प्रकाशितेन औद्योगिकायोग-विवरणेन प्रमाणीक्रियते ।

कुटीरोद्योगस्य महत्त्वम्[सम्पादयतु]

उद्योगेन एव निर्धना धनिनो भवन्ति। स्वतन्त्रभारते क्रान्तदर्शिना महात्मागान्धिना कुटीरोद्योगस्य महत्त्वं बहुधा प्रतिपादितम्। यान्त्रिकसभ्यता विनाशावह इति विचारं विचारं सः तद्विरोधरूपेण कुटीतोद्योगं प्रावर्तयत् । तस्य अभिमतं यत् कुटीरोद्योगानां लघु-उद्योगानां च माध्यमेन भारते आर्थिकी समानता सम्भाव्यते। नगरस्थेषु विद्युत्संचालितेषु फेक्टरी-मिल-प्रभृतिषु अशिक्षितानां सामान्यानां ग्राम्यजनानां प्रवेशो न सम्भाव्यते। अतस्तेषां हितसम्पादनार्थम्, तेषाम् आर्थिकीं दु:साध्यां समस्यां समाधातुं च कुटीरोद्योगं वरदानरूपेण प्रतिष्ठापयत्। एतेन तस्याभिमतं यद् अवकाशकाले ग्रामीणा नागरिका वा लोकाः स्वल्पव्ययसाध्येन उद्योगेन अतिरिक्तधनोपार्जने क्षमाः स्यु:। एवं विधया रीत्या समयस्य सदुपयोगेन सहैव अतिरिक्तवित्तलाभोऽपि स्यात्। पारिवारिका जनाः बाला वृद्धाः स्त्रियश्च औद्योगिककर्मणि साहाय्यप्रदानेन स्वसमयं सफलयन्तः, अतिरिक्तं धनम् अर्जयेयुः, स्वीयाम् आर्थिकीं समस्यां च निराकुर्युः। लोकमान्यतिलक-गोखले- महात्मागान्धिप्रभृतिभिः देशभक्तैः कुटीरोद्योगेन एव वैदेशिक-पारतन्त्र्याद् इयं मातृभूमिः विमुक्ता कृता । क्रियमाणानि कार्याणि कुटीरोद्योगेन एव सिद्ध्यन्ति । लक्ष्मी उद्योगे संलग्नं जनं प्रति याति। उक्तञ्च-

उद्योगिनं पुरुषसिंहमुपैति लक्ष्मीः, दैवेन देयमिति कापुरुषाः वदन्ति।
दैवं निहत्य कुरु पौरुषमात्मशक्त्या,यत्ने कृते यदि न सिस्तद्ध्यति कोऽत्र दोषः॥ (चा.नी.13)

अत्र एतद् अवधेयं यत् अयं भारतदेशः कृषिप्रधानः वर्तते। अस्य देशस्य नवतिप्रतिशतं जनाः कृषिकर्मनिरताः। सम्पूर्णवर्षे प्रायशः षण्मासं यावत् कृषिकर्माभावात् समयस्य दुरुपयोगः एव दरीदृश्यते। यदि समयं बहुमूल्यम् अवगच्छन्तो ग्राम्या जना: लघु-उद्योगेषु कुटीरोद्योगेषु च अतिरिक्तसमयं विनियोजयेरन्, तहिं आर्थिकस्थितिसमुद्धारसमकालमेव तेषां पारिवारिकी सामाजिकी राष्ट्रिया च स्थितिः समुद्धरेत्।

अस्मिन् जगति त्रिविधाः मानवाः सन्ति। प्रथमप्रकारकाः जनाः अभीष्टवस्तूनि प्राप्तुं प्रयत्नं कुर्वन्ति लभन्ते च। द्वितीयप्रकारकाः जनाः अपि प्रयत्नं कुर्वन्ति किन्तु विघ्नैः प्रतिहताः मध्ये एव प्रयत्नं त्यजन्ति। अन्ये तु अस्मिन् विषये विघ्नभयेन यत्नमपि न आरभन्ते। एषु प्रथमप्रकारकाः जनाः उद्योगिनः कथ्यन्ते। ते जनाः स्व-उद्योगेन असम्भवान्यपि कार्याणि सम्पादयति। यथा हि-

प्रारभ्यते न खलु विघ्यभयेन नीचैः, प्रारभ्य विघ्नविहिता विरमन्ति मध्याः।
विघ्नैः पुनः पुनरपि प्रतिहन्यमानाः, प्रारभ्य चोत्तमजनाः न परित्यजन्ति।
उद्योगिनो मनुष्यस्य ननुमत्या कि दुर्घटम्।
आकाशमपि पातालमेकीकुर्यात्कदाचन॥

कुटीरोद्योगस्य जीवनोपयोगित्वम्[सम्पादयतु]

कुटीरोद्योगाः लघु-उद्योगाश्च स्वीयावश्यकतापूर्त्यैव समं समाजस्य राष्ट्रस्य च आर्थिकस्थितिसमुन्नयने क्षमाः। तत्र केचन तथाविधा अपि लघूद्योगाः सन्ति, ये स्वल्पव्ययसाध्याः, विद्युद् अभावेऽपि च प्रक्रमन्ते। लघु-उद्योगेषु विशेषत: उल्लेख्या उद्योगाः सन्ति यथा-वस्त्र-दरी-गलीचा-रज्जु-खद्दर-कम्बल-मोजास्वेटर-शाल-इत्यादीनां निर्माणम्, सुवर्ण-रजत-ताम्र-पित्तल-प्रभृतिधातूनां पात्राणां कलात्मककृतीनां च निर्माणम्। एवमेव तैलोद्योगः, चर्मोद्योगः, फेनकोद्योगो (soap) दुग्धशालोद्योगश्च आर्थिकदृष्ट्या अतीव लाभप्रदाः। देशस्य विभिन्नराज्येषु यथा-मैसूर-मद्रास-बंगाल-असमकश्मीरादिषु अपरिष्कृत-रेशम-उद्योगः अतीव प्रथते । बंगादिषु च जूट-वस्तु-निर्माणं प्रतिवर्षं प्रवर्धत एव। उद्योगिनः एव संसारे धनविद्याज्ञानादिकं लभन्ते। उद्योगं विना तिलेभ्यः तैलमपि प्राप्तुं न शक्यते। यथोक्तम्-

उद्यमेन हि सिद्ध्यन्ति कार्याणि न मनोरथैः।
नहि सुतस्य सिंहस्य प्रविशन्ति मुखे मृगाः॥ (सुभाषितम्)

अत एव भगवद्गीतायां श्रीकृष्ण: एतद् एव उपादिशत्—

कर्मण्येवाधिकारस्ते मा फलेषु कदाचनः।
मा कर्मफलहेतुर्भूर्मा ते सङ्गोऽस्त्वकर्मणि॥ (श्रीमदभगवद्गीता 2/47)

कुटीरोद्योगेन लघु-उद्योगेन च निर्धनानां हीनानां दीनानां च वृत्तिसमस्या निराक्रियते। तेषाम् आर्थिकी स्थितिः उन्नीयते। तेषां भौतिकसौविध्याभावः सुतरां पूर्यते। अपह्रियते च । तेषाम् अर्थाभावजन्यं दैन्यम्, संह्रियते च तेषां स्व-उदर-पूर्तिचिन्ता, निरस्यते च अन्नवस्त्राद्यभावजा हीनत्वभावनारूपिणी पिशाचिनी। समष्टेव्र्यष्टेर्राष्ट्रस्य च उत्थाने उद्योगानाम् एषां गौरवपूर्णं स्थानम्। सुविदितमेव एतत् समेषामपि सुधियां यद् जापानदेशो लघूद्योगबलेनैव जगति स्वीयं गरिमाणम् अभ्युन्नतत्वं च प्रथयति। अत एव उन्नतये अभ्युदयाय वा कर्मसु कौशलं यः सम्पादयति स उद्योगी इति कथ्यते। उद्यमः जनस्य मित्रम् अस्ति येन सः दु:खसागरं तरति। यथोक्तम्-

आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः।
नास्त्युद्यमसमो बन्धुर्यं कृत्वा नावसीदति । (भर्तृ. 2/74)

अयं कुटीरोद्योगः दैन्यनाशकः, पतितोद्धारकः, दुर्गतिदमकः, समुन्नतिसाधकः, । वृत्तिसमस्यानिवारकः, आर्थिकस्तरोन्नायकः, श्रममहत्त्वप्रतिपादकः, सर्वलोकहितसाधकः, क्षुत्-पिपासा-वस्त्राभाव-धनाभावादि-दोषरोधकश्च। एवं कुटीर-उद्योगो जनस्य राष्ट्रस्य च श्रेयसेऽभिवृद्धये च प्रथते।

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=कुटीरोद्योगः&oldid=409153" इत्यस्माद् पुनः प्राप्तिः