कुट्टिकृष्णमारारः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(कुट्टिकृष्णमारार् इत्यस्मात् पुनर्निर्दिष्टम्)

श्रीमान् कुट्टिकृष्णमारारः १९०० जूनमासस्य १४ दिनाङ्के कॊल्लवर्षं १०७५ मिथुनं २ पूर्वाषाढानक्षत्रे अजायत। कुलविद्याभूतायां वाद्यविद्यायां विशिष्य सोपानसङ्गीते प्रावीण्यमभजत, यदिदानीम् अष्टपदीत्वेन सङ्कल्प्यते। क्रि. १९२३ इत्यस्मिन् वर्षे पट्टाम्बी संस्कृतमहाविद्यालयात् प्रथमश्रेण्यां सर्वोच्चस्थानं सम्पाद्य साहित्यशिरोमणिबिरुदं प्राप्तवान्। श्रीमत: कुट्टिकृष्णमारार् महोदयस्य स्वतन्त्रग्रन्थेष्वतितरां प्रसिद्धो भवति महाभारतसारसर्वस्वभूतो भारतपर्यटनं नामको ग्रन्थः।

"https://sa.wikipedia.org/w/index.php?title=कुट्टिकृष्णमारारः&oldid=437012" इत्यस्माद् प्रतिप्राप्तम्