कुमारीदेवी ( रत्नावळी)

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
कुमारीदेवी

एतत् क्षेत्रं भारतदेशस्य पश्चिमबङ्गालराज्ये विद्यमानेषु शक्तिपीठेषु अन्यतमम् ।

सम्पर्कः[सम्पादयतु]

हूग्लीमण्डलस्य खानाकूल् - कृष्णानगरयोः मध्ये रत्नाकरनद्याः तीरे अस्ति । कोलकतानगरतः बस् यानस्य सौकर्यम् अस्ति । नदीमार्गेण अपि गन्तुं शक्यते । एतत् स्थानं न तावत् प्रसिद्धम् । ( केषाञ्चन मतानुसारं कोलकतातः ९० की.मी. दूरे विद्यमाने खानाकुले विद्यमानः आनन्दमयी देवालयः एव शक्तिपीठम् । अन्ये केचन बिहार्राज्यस्य बेपट्टी उपविभागे उच्चैत् ग्रामस्य देव्याः भगवत्याः देवालयः एव शक्तिपीठम्। तृतीयाभिप्रायानुसारम् एतत् क्षेत्रं चेन्नै समीपस्थं रत्नावळीक्षेत्रम् एव शक्तिपीठम्)

वैशिष्ट्यम्[सम्पादयतु]

दाक्षायिण्याः शरीरं विष्णुः यदा कर्तितवान् तदा देव्याः शरीरस्य दक्षिणभुजः अस्मिन् स्थाने पतितः इति ऐतिह्यम् अस्ति । अत्रत्या देवी कुमारी इति नाम्ना पूज्यते । देव्या सह स्थितः शिवः भैरवः इति पूज्यते ।

"https://sa.wikipedia.org/w/index.php?title=कुमारीदेवी_(_रत्नावळी)&oldid=465688" इत्यस्माद् प्रतिप्राप्तम्