कूटस्थनित्यत्वविचारः
उपोदधातः
वेदानां कूटस्यनित्यत्वमभ्युपगतं मध्वनये । तत्र टीकाटिप्पणीक्त आपाततः विरोध इव दृश्यते । सर्वेषां व्याख्यानानाम् आशयविशेष इह निरुपितः । विवक्षाभेदेन विरोधोऽपि परिहृतः
कूटस्थनित्यत्वविचारः
[सम्पादयतु]‘शाश्वता विष्णुबुध्दिगाः’ इत्यादिप्रमाणेन वेदानां कूटस्थनित्यत्वं प्रतिपादितमिति दृश्यते । तत्त्वनिर्णये अत्रेयमाशङ्का –‘वर्णास्तावत् नित्याः सर्वगताः स्वतः क्रमशून्याश्च’ । न च क्रमेण् विना पदवाक्याभावः सम्भावयितुं शक्यते । नाऽपि तमन्तरेण प्रामाण्यम् । अतः क्रमः अभ्युपेयः सोऽपि पुरुषबुध्दयुत्प्रेक्षित इति न वेदापौरुषेयत्वं अभ्युपगमार्हमिति । कूटस्यनित्यत्वं वा इयं च शङ्का तत्त्वनिर्णयटीकायां एवमपाकृता –‘न हि वयं वेदस्य कूटस्थनित्यतां ब्रूमः । किन्तु शब्दतोऽर्थश्च सर्वदैकप्रकारतामेव । ततश्च क्रमस्य जन्यत्वेऽपि पुरुषाभिप्रायप्रवेशेऽपि सजातीयोच्चारणमनपेक्ष्योच्चारयितृपुरुषपूर्वकत्वाभावेन उपपद्यत एव अपौरुषेयत्वमिति’ । तत्त्वसङ्ख्यानटीकाविरोधपरिहारः तत्त्वनिर्णयटीकायां वेदानां कूटस्थनित्यत्वमपाकृतम् । तत्त्वसङ्ख्यानटीकायां तु कण्ठत एव कूटस्थनित्यत्वम् अभ्युपगतम् । अत आपातत् अनयोष्टीकयोः विरोधो भाति । तथा हि तत्त्वसङ्ख्यानतट्टीकावचनानि-‘नित्या वेदाः’
अत्र टीका –“अत्र नित्यत्वं नाम कूटस्थतया आद्यन्तशून्यत्वम् । तच्च चेदानां ‘नित्य वेदाः समस्ताश्च’ इत्यादि प्रमाणसिध्दम् । अत्र वेदा इत्युपलक्षणम् । पञ्चाशद्वर्णानाम् अव्याकृताकाशस्य च तथाभावात् इति”
अयमाशयः ‘कूटं खं विदलं व्योम’ इत्याद्यभिधानात् आकाशवाचि कूटशब्दे उपपदे तिष्ठतेः सुपिस्थः इत्यतो योगविभागात् क्यप् प्रत्यये कूटस्थम् इति रुपं भवति । आकाशवत् निर्विकारमिति निर्गलितोऽर्थः । एवं च न केवलं वेदानां कूटस्थनित्यत्वं सिषाधयिषितम् अपि तु तथाभूतानाम् अव्याकृताकाशवर्णानामपि कूटस्थनित्यत्वं विज्ञेयम् । एवं च तत्त्वसङ्ख्यानटीकायां ‘वेदा इत्युपलक्षणम्’ इत्यत्र उपलक्षणपदम् अजहल्लक्षणापरं सत् अव्याकृताकाशवर्णलक्षकमित्युक्तं भवति ।
तत्त्वनिर्णयटीकायां तु- ‘न हि वयं वेदानां कूटस्थनित्यतां ब्रूमः किन्तु शब्दतोऽर्थतश्च एकप्रकारतामेव’ इत्युक्तम् । अत्र कूटस्थनित्यत्वं वेदानां नास्ति इति कण्ठरवेणोक्तमिति विरोधः स्फुरति ।
अत्रेदं समाधानम्-क्रमस्तु द्विविधः । ईश्वरबुध्दयुपाधिकः अस्मद्बुध्दयुपाधिकश्चेति । ईश्वरबुध्दयुपाधिकक्रमस्य ईश्वरबुध्देर्नित्यत्वेन तन्निष्ठस्यक्रमस्यापि नित्यत्वं निराबाधम् तत्त्वसङ्ख्यानटीकायाम् ईश्वरबुध्दिगतक्रमात्मकवेदस्य कूटस्थनित्यत्वमभ्यधायि । तत्त्वनिर्णयटीकायां तु अनित्यभूतायाम् अस्मदीयबुध्दौ कालविशेषे जायमानस्य क्रमस्य अनित्यत्वमनुलक्ष्य अस्मद्बुध्दयुपाधिक वेदस्य कूटस्थनित्यत्वं निराकृतम् । तथा च विवक्षाभेदेन तत्त्वनिर्णयतत्त्वसङ्ख्यानटीकयोः विरोधपरिहारः सम्भवति ।
तात्पर्यचन्द्रिकोक्तविरोधपरिहारक्रमः
[सम्पादयतु]अयं विरोधपरिहारक्रमः गायत्र्यधिकरणचन्द्रिकायां स्फुटं व्यक्तः । अतोऽत्र न मूलान्वेषण प्रयत्नः कर्तव्यः । तथा हि तद्वाक्यानि-“ गायत्रीरुपवेदस्य अनादिनित्यत्वात् । ननु कृतकक्रम विशिष्टवर्णात्मकवेदस्य न अनादित्वम् । उक्तं हि तत्त्वनिर्णयटीकायां- ‘न हि वयं वेदस्य कूटस्थनित्यतां ब्रूमः’ इति ‘क्रमस्य कृतकत्वे’ इति चेत्, मैवम् । तत्त्वसङ्ख्यानटीकायां नित्यत्वं नाम कूटस्थतया आद्यन्तशून्यत्वम् । तच्च वेदानां ‘नित्या वेदाः समस्ताश्च’ इत्यादि प्रमाणसिध्दम् इत्युक्तत्वात् । युक्तं चैतत् । क्रमस्य सदा ईश्वरबुध्दिस्थत्वात् । अत एवोक्तं तत्त्वनिर्णये ‘सर्वज्ञत्वादीश्वरस्य तद्बुध्दौ सर्वदा प्रतीयमानत्वात्’ इति । तट्टीकायां कौटस्थ्यनिषेधस्तु अस्मदादीन् प्रति प्रमापकत्वोपयुक्तस्य अस्मदादिबुध्दिस्थस्य उच्चारणाद्यधीनत्वेन कृतकत्वात् । कृत्वाचिन्तया वा अनादित्वोक्तिः । क्रमस्य अनन्याधीनत्वात् । इयं च ‘नित्यत्वादेव शब्दानां तत्स्वभावः कथं हरेः’ इत्यनुव्याखाने प्रदर्शिता इति” ।
तर्कताण्डवोक्तचिन्ताक्रमः
[सम्पादयतु]ईश्वरबुध्देः नित्यत्वेन तन्निष्ठक्रमस्यापि अनादिनित्यत्वस्य अवर्जनीयत्वेन तद्बुध्दयुपाधिकवेदस्य अनित्यत्वमपाकृतम् तर्कताण्डवे । तथा हि तर्कताण्डववचनानि “अनित्यत्वं त्वत्यन्तायुक्तम्” । तथाहि क्रमविशेषविशिष्टा वर्णा एव वेदाः । क्रमश्च बुध्दिनिमित्तक एव । न तु स्वत इत्युक्तम् । ततश्च सर्वेषां सर्वथा वर्णविषयविवक्षितक्रमोपाधिभूतबुध्युपरम् एव वेदे विनाशो वक्तव्यः । न तु घटादीनामिवापरः । न चेश्वरस्य तथाविधबुध्युपरमो युज्यते । तस्य सर्वदा सर्वज्ञत्वात् । पुराणादीनामप्यन्यथारचनमेवानित्यत्वम् इति ।
सत्तत्त्वरत्नमालायां कूटस्थनित्यत्वम्
[सम्पादयतु]सत्तत्त्वरत्नमालायाम् अचेतनप्रकरणे तत्त्वसङ्ख्यानटिकामनुरुध्य स्वरवर्णपदात्मकस्य वेदस्य अव्याकृताकाशस्य वर्णानां च कूटस्थनित्यत्वं कण्ठरवेणैव प्रतिपादितम् । तथा हि तद्वाक्यानि -
- नित्या वेदास्तथाकाशो दिङ्नामापि य एव हि ।
- वेदः सर्वोऽपि नित्यश्च स्वरक्रमपदात्मकः ।
- पञ्चाशत्सङ्ख्यवर्णानां क्रमाद्योगैः परस्परम् ।
- अनन्तानां च वेदानां स्थितिरित्यतिकौतुकम् ।
- ईश्वराचिन्त्यशक्त्यैव् घटना केवलं भवेत् । इति ।
कूटस्थनित्यत्वं तत्त्वनिर्णयटीकासम्मतम्
[सम्पादयतु]उक्तेन विरोधपरिहारक्रमेण तत्त्वनिर्णयटीकायां वेदानां कूटस्थनित्यत्वं निराकृतमित्येव न जानीयात् । अत एव तत्र ‘शब्दतः अर्थतश्च एकप्रकारतामेव’ इति ‘वेदस्य नियातानुपूर्वीकत्वेन अर्थावबोधनं शक्त्या आविर्भावो व्यक्तिः’ इति ‘यद्वर्णक्रमाद्युपेतमेव इदं श्रूयमाणवाक्यम् इति प्रत्यभिज्ञानात्’ इत्युक्तम् ।
एवं च अत्र तत्त्वसङ्ख्यानटीकागत उपलक्षणपदस्य अजहल्लक्षणार्थकत्वं स्वीकृत्य श्रीसत्यधर्मतीर्थाः (तत्त्वसङ्ख्यानटिप्पण्याम्) सत्यप्रज्ञतीर्थाः (तत्त्वसङ्ख्यानटिप्पण्याम्) विठ्ठलभट्टारकाः (टीकार्थदीपिकानामिकायां तत्त्वसङ्खानटिप्पण्याम्) मौद्गलनरसिंहाचार्याः (भाववर्णननामिकायां तत्त्वसङ्खानटिप्पण्याम् )काशीतिम्मण्णाचार्याः (तत्त्वसङ्ख्यानटिप्पण्याम्) भगवन्नामकाश्च (मन्दारमालानामिकायां तत्त्वसङ्ख्यानटिप्पण्याम्) वेदानां अव्याकृताकाशस्य च कूटस्थनित्यत्वं न्यरुपयन् ।
अभ्युपगमवादेन तत्त्वनिर्णयटीकाविरोधपरिहारः
[सम्पादयतु]अथवा अन्यथापि परिहारः शक्यते कर्तुम् । तत्त्वनिर्णयटीका तु वर्णानां, वर्णसमुदायात्मकक्रमस्य च जन्यत्ववादिनां नैय्यायिकानां खण्डनपुरस्सरं वेदापौरुषेयत्वं प्रसाधयितुं प्रवृत्ता । अतः तत्त्वनिर्णयटीकायाम् ‘अस्तु वा क्र्मस्य कृतकत्वमिति’ कृतकत्वमभ्युपगम्यापि वेदापौरुषेयत्वसाधनस्य सम्भवेन, ‘भक्षितेऽपि लशुने न शान्तो व्याधिः’ इति न्यायेन तार्किकाणाम् अस्माकमनिष्टापादनं न शक्यते कर्तुमिति तार्किकविचारपध्दतौ दोषाविष्कारार्थमेव ‘न वयं वेदस्य कूटस्थनित्यत्वं ब्रूमः’ इति वाक्यं प्रवृत्तम् । एवं च तत्त्वनिर्णयटीकायाः क्रमस्य कृतकत्वेऽपि वेदापौरुषेयत्वं सेत्स्यति इति साधन एव भरसद्भावेन कूटस्थनित्यत्वनिराकरणे नैर्भर्याभावात् । तत्त्वसङ्ख्यानटीकागतम् उपलक्षणपदं जहल्लक्षणापरमिति वदतामाशयः
तत्वनिर्णयटीकाटीप्पण्याम् श्रीश्रीनिवासतीर्थाः, तत्त्वसङ्ख्यानटिप्पण्यां केशवभट्टारकाः, तत्त्वसङ्ख्यानटिप्पण्यां ओट्टिवेङ्कटभट्टारकाश्च उपलक्षणापदस्य जहल्लक्षणार्थकत्वं स्वीकृत्य पञ्चाशद्वर्णानाम् अव्याकृतस्याकाशस्यैव कूटस्थनित्यत्वं न वेदस्येति प्रत्यपीपदन् । तेषामयमाशयः – न क्रमस्य अनादिनित्यत्वम् अङ्गीकारार्हम् । तथा सति क्रमस्य वर्णधर्मत्वेन वर्णानाम् अनादिनित्यत्वेन तदभिन्नस्य क्रमस्यापि अनादिनित्यत्वप्राप्त्या तयोर्यावदद्रव्यभावित्वेन वर्णानाम् अनादिनित्यत्वेन तदभिन्नस्य क्रमस्यापि अनादिनित्य्त्वप्राप्त्या तयोर्यावदद्रव्यभावित्वेन वर्णानामत्यन्ताभेदः प्रसज्यते । यथा-यद्यदभिन्नाभिन्नं तत्तदभिन्नमिति न्यायेन कृष्णाभिन्नमूलनारायणाभिन्नरामस्य परस्पर्म् अभेदवत् इहापि ‘घट’ इत्यत्र घकारटकारयोः एकवर्णोच्चारणानन्तरम् अपरवर्णाच्चारणरुपक्रमस्य दृष्टत्वेन क्रमस्य च वर्णधर्मत्वेन तदभिन्नत्वात् घकाराभिन्न क्रमाभिन्न टकारस्यापि घकाराभेदः, यदभिन्नाभिन्नेत्यादिन्यायेन अवर्जनीय एव । अत एव टीकायाम् उपलक्षणपदस्य जहल्लक्षणार्थकत्वं स्वीकृत्य वर्णाव्याकृताकाशयोरेव कूटस्थनित्यत्वमुपवर्णितमिति ।
अत्रदं विवेचनीयम् तत्त्वसङ्ख्यानटीकायां नित्यपदार्थप्रस्तावे नित्या वेदाः इति भगवत्पादीयवचनं प्रवृत्तम् । तद्वयाख्यानपरटीकायाः यदि क्रमाऽनित्यत्वं सम्मतं तर्हि वेदस्य नित्यत्वकोटौ अप्रवेशात् कुत्र प्रवेश इति वक्तव्यम् । न च उत्तरत्र नित्यानित्यकोटौ वेदसत्तां प्रतीमः । तेन ज्ञायते टीकाकाराणाम् उपलक्षणपदस्य जहल्लक्षणाप्रात्वं न सम्मतमिति । अत एव ‘अत्र नित्यत्वं नाम कूटस्थतया आद्यन्तशून्यत्वम्’ । तच्च वेदानां ‘नित्यावेदाः समस्ताश्च’ इत्यादिप्रमाणसिध्दम् । अत्र वेदाः इत्युपलक्षणम् । ‘पञ्चाशद्वर्णानाम् अव्याकृताकाशस्य च तथाभावात्’ इति वदद्भिष्टीकाकारैः ‘तच्च वेदानां नित्या वेदास्समस्ताश्च इत्यादि प्रमाणसिध्दम्’ इति ‘पञ्चाशद्वर्णानाम् अव्याकृताकाशस्य च तथाभावात्’ इति च वाक्यप्रयोगेन वेदानां कूटस्थनित्यत्वं कण्ठरवेणैव प्रतिपादितमिति वर्णानामेव कूटस्थनित्यत्वपरतया व्याख्यातृणां टीकाविरोधः स्फुटः ।
वेदस्य कूटस्थनित्यत्वाभावे अनुपपत्तयः
[सम्पादयतु]ईश्वरबुध्दिस्थवेदक्रमस्य कूटस्थनित्यत्वानङ्गीकारे इत्यत्मनङ्गीकारे च वेदानुत्पत्त्यावेदकवक्य् विरोधः सुस्थः
- ‘नित्यत्वादेव शब्दानां तत्स्वभावः कथं ततः’ ॥
- ‘वैकुण्ठस्याखिला वेदा उद्गीर्थन्तेऽनिशं यतः’ ॥
- ‘देशः कालः श्रुतिस्तथा’ ॥
- ‘वेदा नियत्वान्मानमुत्तमम्’ ॥ इत्यादिभगवत्पादोक्तिविरोधप्रसङ्गच्च ।
तत्त्वविवेकटीकायां ‘देशः कालः श्रुतिस्थथा’ इतिवाक्यव्याख्यानावसरे श्रुतिः वेदः इत्युक्त्ययोगाच्च ।
प्रमाणलक्षणटीकायाम् “आगमः द्विविधः, नित्यः अनित्यश्च, वेदः नित्यः अनित्यः पुराणादिः । वर्णानां सर्वत्र, नित्यत्वेऽपि=अत्पत्तिरहितत्वेऽपि, प्रबन्धविशेषस्य=आनुपूर्वीविशेषस्य, नित्यत्वा नित्यत्वाभ्याम्= अनुत्पन्नत्वोपन्नत्वाभ्याम्, अयं विभागः= ‘नित्यः अनित्यश्च’ इति विभागः” इत्युक्त्ययोगाच्च, वेदपुराणयोः अविनाशित्वरुपनित्यत्वसाम्येन अनुत्पत्त्युत्पत्तिभावाभावाभ्याम् एव वेशेषस्य वक्तव्यत्वात् ।
तत्त्वप्रकाशिकायां ‘न विलक्षणत्वादस्य तथात्वं च शब्दात् (२-१-४) इति सूत्रभाष्यव्याख्यानावसरे ‘बहुकालीनत्वमात्रेण नित्यत्वोपचारः किं न स्यात्?’ इत्यत आह ‘अनादि’ इति । अनादिनिधना नित्या, न तु बहुकालीनत्वमात्रेण नित्यत्वोपचारः इत्यर्थ इत्युक्त्ययोगाच्च । क्रमस्य नित्यत्वेऽपि वर्णाभेदशङ्कानिरासपुरस्सरं
क्रमानित्यत्ववादिनां केशवभट्टारकप्रभृतीनां आशयविशेषाविष्करणम्
[सम्पादयतु]वर्णानां नित्यत्वाङ्गीकारेऽपि क्रमस्य नित्यत्वं नाभ्युपेयम् । क्रमस्य वर्णधर्मत्वेन अयावद्रव्यभाविनोः धर्मदर्मिणोश्च सिद्धान्ते अभेदानङ्गीकारेण वर्णाभेदप्रसक्तिरिति यदाशङ्कितं तदसत् । तथा हि न ह्यस्माभिः क्रमस्य् नैय्यायिकप्रक्रियानुरोधेन व्यासज्यवृत्तित्वमभ्युपेयते । ‘भिन्नाश्च भिन्नधर्माश्च पदार्था निखिला अपि’ इत्यनुव्याख्यानोक्तेः । अतोऽत्र अनेकवर्णगतः क्रमोऽप्यनेक एव । एकैक वर्तिनोऽपि क्रमस्य परस्परमुभयनिरुप्यत्वेन एकस्मिन् तज्ज्ञानापादनस्य संयोगादिस्थल इव निराकरणसम्भवात् । अत एव एकैकस्मिन्नेव वर्णे क्रमप्रत्ययदोषोऽपि न लगति । किञ्च सिध्दान्ते द्वित्वादिधर्मा अपि नानुगताः । तदुक्तमनुव्याख्याने-
- संयोगश्च विभागश्च भेदश्चैव पृथक् पृथक् ।
- तथा द्वित्वादयोः धर्माः न हि व्यासज्यवर्तिनः ॥ इति ।
सिध्दान्ते द्वित्वादिधर्माः अपेक्षाबुध्दिव्यङ्गयाः इत्युक्तम् । ‘किञ्च द्वित्वादेः अपेक्षाबुध्दिजन्यतैव नासीति, तर्कताण्डवन्यायदीपे श्रीमद्राघवेन्द्रतीर्थश्रीमच्चरणैः श्रीमद्व्यासतीर्थानाम् आशयः एव प्रकटीकृतः –द्वित्वादेः अपेक्षाबुध्दिजन्यत्वम् अभ्युपेत्य उक्तम् । वस्तुतः तदेव नास्ति ।
- अपेक्षाबुध्दिजन्यत्वं द्वित्वादीनां सुधेरितम् ।
- पररीत्या स्वसिध्दान्ते तद्व्यङ्गयत्वं प्रकीर्तितम् ॥
अतोऽत्र न वर्णाभेदप्रसक्तिः । एतेन क्रमानित्यत्ववादिनां टिप्पणीकाराणां नैय्यायिकसरणिमनुसृत्य अभ्युपगमवादेन प्रवृत्तानां क्रमानित्यत्वेऽपि वेदापौरुषेयत्वे न काप्यनुपपत्तिरिति वेदापौरुषेयत्वप्रसाधन एव भरसत्वेन सिध्दान्ताशयाविष्करणे भरो न प्रकटित इति विरोधपरिहारः विज्ञेयः ।
काशीटिप्पण्युक्तवाक्यार्थानुगमः
[सम्पादयतु]ननु क्रमविशिष्टवर्णा एव वेदः, न तु आकाशवत् अर्थान्तरम्; क्रमश्च नित्यानां साक्षात् पौर्वापर्यरुपः सम्भवति इति पूर्वापरीभावापन्नबुध्दिविष्यत्वरुपः वक्तव्यः, तथाच तादृशबुध्दीनाम् अनित्यत्वात्, कथं तध्दटितविशिष्टरुपस्य वेदस्य नित्यत्वम् ? इति चेत् – एवं च ईश्वराचिन्त्यशक्त्या स्वाभाविक एअ वेदे वर्णक्रमोऽभ्युपेयः अत्र एके साम्प्रदायिकाः स्वभाविक एव वैदिकवर्णक्रमः । न च नित्यानां क्रमायोगः, ईश्वरशक्त्या तदुपपत्तेः । न च गकारादेः स्वतः एव ‘क’ कारोत्तरत्वे तस्य तत्पूर्वत्वं क्वापि न स्यात् विरोधात् इति वाच्यम्; वैदिकवर्णानाम् आनन्त्येन, एकस्य उत्तरत्वेऽपि अन्यस्य पूर्वत्वोपपत्तेः ।
न च वर्णानां पञ्चाशत्त्वविरोधः, पञ्चाशज्जातीयत्त्वमात्रोपगमात् ।
न च वर्णानां-
- वर्णानां देवतानां च नित्यत्वान्न क्रमः स्वतः ।
- व्यक्तिक्रमं ब्रह्मबुध्दावपेक्ष्य क्रम उच्यते ॥
इति तन्त्रसारविरोध इति वाच्यम् तत्र देशकालकृतक्रममात्रनिषेधेन, स्वाभाविकक्रमा विरोधात् । व्यक्तिक्रमकथनस्य च प्रणवादीनाम् उत्पत्तिक्रमस्वरुपनिरुपणपरत्वात् ।
न च “एवं ‘न हि वयं वेदस्य कूटस्थनित्यतां ब्रूमः’ इति तत्त्वनिर्णयटीकाविरोधः” इति वाच्यम्, तस्य अभ्युपगमवादेन प्रवृत्तत्वात्; अन्यथा एतट्टीकाविरोधात्, सप्रमाणत्वेन एतस्याः प्राबल्यात् ।
न च एवं पुराणादीनाम् अपि नित्यत्वापत्तिः, लौकिकवर्णानां स्वाभावैकक्रमानङ्गीकारात् । एवञ्च वेदनित्यत्वे न कश्चित विरोध इत्याहुः । वर्णानामेव कूटस्थनित्यत्वं च वेदानाम् केचित् तु पञ्चाशद्वर्णैः एव सकललौकिकवैदिकव्यवहारोपपत्तेः प्रमाणाभावाच्च न पूर्वोक्तबहुकल्पना युक्ता, नापि क्रमस्य स्वाभाविकत्वम् अङ्गीकारार्हम्; तथा सति, वर्णधर्मस्य क्रमस्य यावद्द्रव्यभावित्वेन वर्णैः अत्यन्ताभिन्नतया वर्णानां परस्पराभेदप्रसङ्गात् । तथा च क्रमस्य कृतकत्वात्, न तद्विशिष्टवर्णात्मकस्य वेदस्य नित्यत्वम् तत्त्वसङ्ख्यान न च वं विरोधः, तत्र वेदपदेन पञ्चाशद्वर्णानामे व ग्रहणात्, उपलक्षणम् इति टीकायाश्च जहत्स्वार्थलक्षणया वर्णाकाशपरत्वसम्भवात् ।
न च ‘नित्या वेदाः समस्ताश्च’ इति प्रमाणविरोधः, तत्र वर्णानां पृथक् ग्रहणेन तदुपलक्षणायोगात् इति वाच्यम्; न हि वयं वेदस्य कूटस्थनित्यतां ब्रूमः किन्तु शब्दतः अर्थतश्च सदा एकप्रकारताम् इति टीकाऽनुसारेण तद्वयाख्यानात् इति वर्णयन्ति । तत्त्वसङ्ख्यान- तत्त्वनिर्णयटीकोक्तकूटस्थत्वतदभावयोः ईश्वरबुध्दयस्मद्बुध्द्युपादिभेदेन उपपादनम्
अन्ये तु वैदिकवर्णक्रमः यदि नित्य एव, तदा तत्त्वनिर्णयटीकाविरोधः, यदि अनित्य एव तदा तत्क्र्मेणैव इत्युदाहृतप्रमाणविरोध इति अर्थापत्त्या द्विविध एव क्रमः अङ्गीकार्यः । अत्र ईशरबुध्दिघटितः नित्यः, अस्मदादिबुध्दिघटितस्तु अनित्य इति । ततश्च तत्तद्विशिष्टरुपस्य वेदस्यापि द्वैविध्यमेव । तथा च वेदनित्यत्वप्रतिपादकानाम् ईश्वरबुध्दिघटिटक्रमविशिष्टपरत्वात्; तदनित्यत्वप्रतिपादकानाम् अस्मदादिबुध्दिघटितक्रमविशिष्टपरत्वात् न दोष इत्याचक्षते उपाधिभेदेन वेदद्वयाङ्गीकारो न युक्त इति
- ईश्वरसङ्कल्पाधीनः वैदिकवर्णगतः क्रमः नित्य एव अभ्युपेय इति पक्षः
- अपरे तु न वेदद्वैविध्यं युक्तम्, प्रमाणाभावात् । तथात्वे च अस्मदादिपठयमानस्य प्रणीतत्वेन अप्रामाण्यप्रसङ्गात्; अभ्युदयसाधनत्वाभावप्रसङ्गाच्च । ‘ऋग्वेद एवाग्नेरजायत’ इत्यादेः अभिव्यक्त्यर्थतया व्याख्यानवैयर्थ्यच्च; वेदस्य बुध्दिघटितत्वासम्भवाच्च, अन्यथा बुध्देः अश्रावणत्वेन वेदस्य अश्रावणत्वप्रसाङ्गात् । तस्मात् साङ्कल्पिकक्रमइशिष्टवर्णानामेव वेदत्वम्; यथा हि मानससङ्कल्पतात् विप्राणां पूजादौ क्रमः, तथा नित्यानाम् अपि तदुपपत्तेः ।
न च सङ्कल्पस्य अश्रावणत्वेन वेदस्य अश्रावणत्वप्रसङ्गः, सङ्कल्पाघटितः वर्णधर्मः क्रमः अस्ति इत्यङ्गीकारात् । एवञ्च ईश्वरसङ्कल्पाधीनस्य वैदिकवणक्रमस्य नित्यत्वात् वेदस्य नित्यत्वं सिध्दम् ।
न चैवमुक्तप्रकारेण वर्णानाम् अभेदप्रसङ्गः, अन्योन्याभाववत् एकवर्णप्रतियोगिकक्रमस्य अपरवर्णनिष्ठत्वेन अनेकधर्मत्वाभावात् । एवं कालिदासादिवाक्येषु अपि तत्तत्सङ्कल्पाधीनः क्रमः उत्पद्यत इति वदन्ति ।
नित्ये वेदे स्वाभाविकक्रमायोगेऽपि व्यक्तिक्रम उपपद्यते
[सम्पादयतु]उपाध्यायास्तु एवम् आहुः-साङ्कल्पिकः अपि क्रमः किं पौर्वापर्यरुपः ? उत अन्यः ? नाद्यः, नित्यानां पौर्वापर्यस्य व्याहतत्वात्, नान्त्यः, प्रमाणाभावात्, विप्रेषु अपि क्रमिकपूजाविष्यत्वा तिरिक्तक्रमविशेषस्य असिध्देः । एवम् तत्तद्वक्तृसङ्कल्पादेव तत्र तत्र क्रमविशेषाङ्गीकारे पदार्थमात्रेऽपि तथाविधक्रमाङ्गीकारप्रसङ्गः । तस्मात् नित्यानां स्वाभाविकक्रमायोगात् व्यक्तिक्रम एव वक्तव्यः । तदुक्तम्-
- वर्णानां देवतानां च नित्यत्वान्न क्रमः स्वतः ।
- व्यक्तिक्रमं ब्रह्मबुध्दावपेक्ष्य क्रम उच्यते ॥
इति । तथा च क्रमेण् भासमानाः वर्णाः वेद इति फलितम् ।
यद्यपि क्रमेण भासमानत्वम् एकवर्णोत्तरभानविशिष्टापरवर्णत्वरुपम् न यावद्वर्णसाधारणम्, तथाऽपि तादृशवर्णत्वरुपवाक्यानुपूर्वीघटकभानविशिष्टवर्णत्वं बोध्यम् । एवञ्च तादृशभानस्य ईश्वरीयस्य नित्यत्वात् वेदनित्यत्वम् ।
- न च नित्यत्वे क्रमायोगः, उत्पत्त्यभावेऽपि व्यक्तिविशेषेण तदुपपत्तेः ।
- न च क्रमिकव्यक्त्यङ्गीकारे,
- वैकुण्ठस्याखिला वेदा उद्गीर्यन्तेऽनिशं यतः ॥
इति-आचार्योक्तिविरोधः अनन्तमुखैः अखिलवेदोच्चारणेऽपि एकैकमुखेन क्रमिकव्यक्त्यविरोधात् ।
न च अस्मदादिबुध्दिक्रमस्य अनित्यत्वात् वेदानित्यत्वप्रसङ्गः, सामान्यतः क्रमिकभानविशिष्टवर्णानामेव वेदत्वात्, तादृशविशिष्टस्य च सर्वदैव सत्त्वात् । तदुक्तं तत्त्वनिर्णयटीकायाम् –‘क्रमविशिष्टवर्णाः एव हि वेदः, क्रमश्च बुध्दिनिमित्त एव । ततश्च सर्वेषां सर्वथा वर्णविषयविवक्षितक्रमोपाधिभूतबुध्द्युपरम एव् वेदे विनाशः वक्तव्यः । न च ईश्वरस्य तथाविधबुध्दयुपरमो युज्यते ’ इति ।
एवश्च अयं समुदितार्थः –वेदानां कूटस्थनित्यत्वम् उक्तप्रमाणैः अभ्युपेयमेव यत्र व्यख्यातृषु क्रमाऽनित्यत्वादौ विवादः दृश्यते तत्र तस्य उक्तदिशा अभ्युपगमवादेन प्रवृत्तत्वात् सिषाधयिषित वेदापौरुषेयत्वे क्रमनित्यत्वस्याप्रयोजकत्वेन सिध्दान्तस्वरुपमाच्छाद्य प्रौढिवादेन प्रवृत्तत्वं विज्ञेयम् ।
टीप्पणी
[सम्पादयतु]<poem> F.N. page 1. वि.वि.ति. प् २४३ २. तत्तःशं-प् २८ ३. तत्त्व सं.ती p 161 Page-2 1. ता. चं . १-१-२५ p. 98-99 2. त. ता. P-283-285 Page-3 1. स.मा.P.19 Page-4 1. अभिप्रायविशेषश्चायं तर्कताण्डवे वेदापौरुषेयत्वप्रकरणे निरुपितो यथा –एतेन वेदस्यानादित्वरुपमपौरुषेयत्वं बाधितं सिध्दान्तविरुध्दञ्च । क्रमविशेषविशिष्टानां वर्णानां वेदत्वान्नित्यानां सर्वगतानां च तेषां स्वतः क्रमस्यायोगेनाभिव्यक्तिगतस्यैव तस्य वक्तव्यत्वादभिव्यक्तेश्च जन्यत्वेन तद्गतस्य क्रमस्यापि जन्यत्वात् टीकायां ‘क्रमस्य कृतकत्वेऽपि’ इत्युक्तेश्चेति निरस्तम् । क्रमस्य कृतकत्वेप्याधुनिकाध्यापकेन स्वबुध्दिस्थपूर्वदिवसीयक्रमानुसारेणैवोत्तरदिवसेष्विवेश्वरेणापि क्रमानुसारेणैवोत्तरोत्तरकल्पेष्वपि वेदस्योच्चरितत्वेन स्वातन्त्र्याभावेन नियतानुपुर्वीरहितत्वादिरुपोक्तत्रिविधापौरुषेयत्वे बाधाद्यभावात् । उक्तञ्च सुधायाम् ‘नियतैकप्रकारत्वमपौरुषेयत्वम्’ इति । एतदप्युक्तं ‘गौरवदोषेण’ इति । क्रमाकृतकत्वस्याप्यपौरुषेयत्वप्रवेशे गौरवदोषेणेत्यर्थः ॥ त. तां.P.246-247 Page-5 १. ब्र. सू. अनु. १-१-११ २. द्वा. स्तो.१-७ ३. त. वि. श्लो -८ ४. अ. भा. २-१ ५. प्र.ल.टी P.39 Page-7 1. तं. सा. सं १.२९ P. 274 Page-9 1.तं. सा. सं 1-30, P.274 2. द्वा. स्तो . 1-7, P. 370 3. वि. वि. टी. P.261