कृष्ण मन्दिर पाटन
| कृष्ण मन्दिरम् पाटन | |
|---|---|
|
पाटन दरवार क्षेत्रअवस्थित कृष्ण मन्दिरम् | |
| अवस्थितिः | |
| देशः: | नेपाल |
| प्रदेशः: | बागमती |
| मण्डलम्: | ललितपुर |
| अवस्थितिः: | पाटन दरवार क्षेत्र |
| स्थापत्यकला संस्कृतिश्च | |
| स्थापत्यशैली: | शिखर |
| इतिहासः | |
| स्रष्टा: | सिद्धिनरसिंह मल्ल |
ललितपुरमण्डलस्य पाटनदरबारक्षेत्रे पाटनस्य कृष्णमन्दिरम् अस्ति . एतत् मन्दिरं विक्रमस्य १७ शताब्दे सिद्धिनर्सिंहमल्लराजेन निर्मितम् । पाटनस्य कृष्णमन्दिरं शिखरशैल्या निर्मितं प्रथमं मन्दिरम् इति प्रसिद्धम् अस्ति | नेपाले सर्वाधिकं २१ गजुराः सन्ति इति एतत् मन्दिरं पाषाणेन निर्मितम् अस्ति ।
संरचना
[सम्पादयतु]एतत् मन्दिरं सप्तदश शताब्द्यां मल्ल राज्ञ सिद्धिनार्सिंहमल्लेन निर्मितम् आसीत् | राज्ञेन पाटननगरे कियत् भूमौ महादेवमन्दिरनिर्माणाय आरक्षिता आसित्। एकदा स्वप्ने कानिचित् राज्ञ सिद्धिनरसिंहं यत् निर्दिष्टं तत्भूमौ कृष्णमन्दिरस्य निर्माणं करोतु इति । यदा राजा तत्रगत्वा खनितवान् तदा सः भूमौ अधः कृष्ण मूर्तिं प्राप्नोत् । तदनन्तरं अधः कृष्णमन्दिरं, उपरि शिवमन्दिरं च स्थापितं इति इतिहास।
वास्तुकला
[सम्पादयतु]अस्य मन्दिरस्य त्रयः तलाः सन्ति । त्रितलस्य मध्यतलस्य श्रीकृष्णस्य मूर्तिः अस्ति । श्रीकृष्णस्य मूर्तिं परितः विष्णुस्य दशावतारस्य मूर्तयः अपि सन्ति |
अस्य मयूखाः महाभारतकथायाः आधारेण बिम्बैः उत्कीर्णाः सन्ति ।
२०७२ भूकम्प
[सम्पादयतु]२०७२ तमे वर्षे भूकम्पेन अस्य मन्दिरस्य आंशिकक्षतिः अभवत् ।
पुनर्स्थापनम्
[सम्पादयतु]काष्ठमण्डप उपत्यकासंरक्षणन्यासेन (केवीपीटी) मन्दिरस्य पुनर्स्थापनार्थं वर्षत्रयं यावत् समयः अभवत् इति उक्तम् आसीत् । मन्दिरस्य पुनर्निर्माणकार्यं काष्ठमण्डप उपत्यकासंरक्षणन्यासेन कृतम् ।
पुनर्निर्माणकार्यं तुल्यकालिकरूपेण शीघ्रमेव सम्पन्नम् यतः मन्दिरस्य केवलं आंशिकरूपेण क्षतिः अभवत् । प्रायः ५७ लक्षरूप्यकाणां व्ययेन अस्य मन्दिरस्य निर्माणं कृतम् । पुनर्निर्माणं सम्पन्नं जातं ततः परं मन्दिरं सर्वेषां कृते उद्घाटितम् ।
उत्सवः
[सम्पादयतु]श्रीकृष्णजन्माष्टम्या अवसरे कृष्णमन्दिरे महति उत्सव भवति। बहब जनाः पाटन आगत्य मन्दिरस्य दर्शनम् अर्चना च कुर्वन्ति। तदवसरे नेपालस्य राष्ट्राध्यक्ष मन्दिर दर्शनम् अर्चनां च कुर्वन्ति इति पम्परा अस्ति। तीज पर्वावसरे च जनसंघ भवति।