कोहिमामण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
कोहिमामण्डलम्

Kohima district
मण्डलम्
नागाल्याण्डराज्ये कोहिमामण्डलम्
नागाल्याण्डराज्ये कोहिमामण्डलम्
देशः  India
जिल्हा कोहिमामण्डलम्
विस्तारः १२६७ च.कि.मी.
जनसङ्ख्या(२०११) २,६७,९८८
Time zone UTC+५:३० (भारतीयमानसमयः(IST))
Website http://kohima.nic.in/default.htm
टौफेमा ग्रामे गृहाणि
द्वितीयमहायुद्ध-स्मरणचिह्नम्
उत्सवेषु जनाः
नागाजनानां गृहम्, सर्वकारवास्तू

कोहिमामण्डलं (आङ्ग्ल: Kohima District) नागाल्याण्डराज्ये स्थितं मण्डलम् । अस्य मण्डलस्य केन्द्रं कोहिमा इत्येतन्नगरम् ।

भौगोलिकम्[सम्पादयतु]

कोहिमामण्डलस्य विस्तारः १२६७ च.कि.मी.मितः अस्ति । अस्य मण्डलस्य पश्चिमदिशि दिमापुरमण्डलं, पूर्वदिशि फेकमण्डलं, दक्षिणदिशि मणिपुरराज्यं, पेरेनमण्डलं च, उत्तरदिशि वोखामण्डलम् अस्ति । अस्य मण्डलस्य वातावरणं सामान्यतः आर्द्रं भवति ।

जनसङ्ख्या[सम्पादयतु]

कोहिमामण्डलस्य जनसङ्ख्या(२०११) २,६७,९८८ अस्ति । अस्मिन् १,३८,९६६ पुरुषाः, १,२९,०२२ महिलाः च सन्ति । अस्मिन् मण्डले चतुरस्रकिलोमीटर्मिते क्षेत्रे १८३ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् १८३ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः ०.००% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९२८ अस्ति । अत्र साक्षरता ८५.२३% अस्ति । मण्डलेऽस्मिन् ५४.८२% जनाः ग्रामेषु निवसन्ति ।

ऐतिहासिकं किञ्चित्[सम्पादयतु]

१ डिसेम्बर् १९६३ दिनाङ्के नागाल्याण्डराज्यस्य स्थापना जाता । तदा एव कोहिमा नगरं राजधानीत्वेन चितम् ।

उपमण्डलानि[सम्पादयतु]

  • त्सेमिन्यु
  • त्सोगिन्
  • बोत्सा
  • कोहिमा सदर
  • चिएफोबोझोउ
  • केझोचा
  • जखम
  • सेचु-झुब्जा

लोकजीवनम्[सम्पादयतु]

कोहिमामण्डलस्य अङ्गमी-नागा, रेङ्गमा-नागा च पुरातनजनजातिः अस्ति । कोहिमा नगरम् नागल्याण्डराज्यस्य राजधानी, cosmopolitan city अपि वर्तते अतः कोहिमामण्डलस्य विकासः जायमानः अस्ति ।

  • अङ्गमीजनैः 'सेक्रेन्यी' इति उत्सवः आचर्यते । फेब्रुअरी मासे अस्य आचरणं भवति । सेक्रेन्यी उत्सवः केचन विधीनां समाहारः अस्ति । अस्मिन् 'केझी' इति प्रथमदिनस्नानं, सप्तमदिनस्य युवासहभागिनां मृगया, अष्टमदिने ग्रामान्तरं गत्वा जनैः सह मेलनं भवति । एतेषु उत्सवदिनेषु कृषिकार्यं न भवति ।
  • रेङ्गमाजनाः 'नगदा' उत्सवम् आचरन्ति । नवेम्बर् मासे कृष्युत्पादनात् अनन्तरम् अष्टदिनेषु अस्य उत्सवस्य आचरणं जनाः कुर्वन्ति । प्रप्रथमदिने प्रत्येकस्मिन् गृहे महिलाः तण्डुलैः सुरां (Rice beer) पचन्ति । उत्सवेऽस्मिन् गतजीवितेभ्यः जनेभ्यः सुरया सह सस्यानां श्रद्धाञ्जलिः दीयते । अनन्तरं पुरुषाः स्वभोजनं गृहीत्वा एकस्मिन् स्थाने मिलित्वा भोजनं च कुर्वन्ति । पञ्चमदिने पुरुषाः लोकगीतान् गायन्तः एकत्र शोभायात्रां गच्छन्ति । तदा मार्गे यानि गृहाणि सन्ति तानि गत्वा जनैः सह मिलन्ति, संवादं साधयन्ति च । सप्तमदिने जनाः काष्ठेन्धनं, सस्यानि, कदलीवृक्षपर्णानि आहरणार्थं वनं गच्छन्ति । जनाः एकत्र भोजनं पचन्ति, अग्नेः पुरतः त्रयाणां विधीनाम् आचरणं च कुर्वन्ति । तेषु अग्निना सह शान्त्यर्थं सन्धिः, याचना च भवति यत् अग्निना हानिः न भवतु इति । अपरं च मूषकान् उद्दिश्य प्रार्थना भवति यत् ते सस्यानां विमर्दं मा कुर्युः इति । अथ च विघ्नकर्त्र्यः याः शक्तयः, ताः अपि अपसर्पन्तु इति प्रर्थना क्रियते । एवम् अष्टदिनानि यावत् 'नगदा' उत्सवं अत्रस्थाः जनाः आचरन्ति ।
  • २००० तमवर्षतः 'होर्नबिल् उत्सवः' आचर्यते । सर्वाः नागा जनजातयः एकत्र आगच्छन्ति, उत्सवाचरणं च कुर्वन्ति । सर्वकारः अस्य उत्सवस्य नेतृत्वं, योजनां च वहति ।

वीक्षणीयस्थलानि[सम्पादयतु]

अस्मिन् मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि -

  • झुकोउ व्हेली
  • टुओफेमा ग्रामः
  • द्वितीयमहायुद्ध-स्मरणचिह्नम्
  • किसामा ग्रामः
  • जप्फु शिखरम्
  • त्सेमिन्यु नगरम्
  • अभयारण्यम्
  • कोहिमा वस्तुसङ्ग्रहालयः

बाह्यानुबन्धाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=कोहिमामण्डलम्&oldid=458894" इत्यस्माद् प्रतिप्राप्तम्