क्षमा राव

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search

क्षमाराव ( /ˈkʃhəmɑːrɑːvə/) (हिन्दी: क्षमाराव, आङ्ग्ल: Kshmarao) संस्कृतसाहित्यसेवारतासु प्राचीनमहिलासु काश्चन एव प्रसिद्धाः भवन्ति । अतिविशाले वेदवाङ्मये गार्गी-मैत्रेयी-लोपामुद्रा-प्रभृतीनां ब्रह्मवादीनीनां नामानि उल्लिखितानि। गङ्गादेवी, तिरुमलाम्बा, मधुरवाणी-इत्यादि कर्णाटान्ध्रकवयित्रीणां काव्यानि सम्पूर्णरूपेण उपलब्धानि इति सन्तोषावहो विषयः । विंशतिशतकस्य प्रमुखा कवयित्री क्षमाराव्- महोदया इत्यत्र न कोऽपि संशयः ।

जन्म , बाल्यं च[सम्पादयतु]

क्षमारावमहोदया महाराष्ट्रप्रदेशे कस्मिंश्चन विद्वत्कुटुम्बे नवत्युत्तर-अष्टादशशततमे वर्षे सप्तमे मासे चतुर्थे दिनाङ्के (४-७-१८९०) अजायत । अस्याः पिता पण्डितः शङ्करपाण्डुरङ्गः माता च उषादेवी ।

यद्यपि ‘पण्डित’ इत्युपाधिः एततकुटुम्बेन परम्परया प्राप्तः तथापि अन्वर्थश्च आसीत् । क्षमायाः तिस्त्रः भगिन्यः चत्वारः भ्रातरश्च अभवन् । सुसंस्कृतयोः मातापित्रोः सद्गुणाः अनायासेनैव अपत्येष्वपि अनुवृत्ताः अभवन् । शङ्करपाण्डुरङ्गमहोदयस्य संस्कृतप्रीतिः सहजा आसीत् । सा प्रीतिः तत्कालीनसाहित्ये विराजमानस्य 'आर्. जि. भण्डारकर' इति ख्यातस्य विदुषः प्रभावेण पल्लविता । पित्रा प्रभावितायां पुत्र्यां क्षमायामपि संस्कृतप्रीतिः परमोज्ज्वला आसीत् इत्यत्र किमाश्चर्यम् ।

विद्याभ्यासः[सम्पादयतु]

प्रतिभासम्पन्ना क्षमा विद्याभ्यासे तत्रापि भाषाभ्यासे सर्वप्रथमा आसीत् । बाल्ये अनया अधिकः कालः ‘राजकोट्’ नगरे यापितः । तस्याः पिता बाल्ये एव दिवङ्गतः । क्षमायाः बाल्यं तु सुखकरं नासीत् । शालाभ्याससमये क्षमायाः आर्थिकस्थितिः उत्तमा नासीत् । अस्याः सकाशे तदा केवलं तिस्त्रः शाटिकाः एव आसन् । एताभिरेव शाटिकाभिः पुनः पुनः आवृतां क्षमां दृष्ट्वा तस्याः सहाध्यायिन्यः इमां ‘दरिद्रा’ इति उपहासन्ति स्म । किन्तु विद्यार्जनासक्तायाः क्षमायाः तासाम् उपहासः अवधारणयोग्यः नासीत् । सर्वदा विद्यार्जने दत्तादरा एषा मेट्रिकपरीक्षायां संस्कृत-आङ्ग्लभाषयोः सर्वप्राथम्यं प्राप्तवती । तदनन्तरं विल्सन्-महाविद्यालयं प्रविष्टायाः क्षमायाः गुरुः महामहोपाध्यायः भारतरत्नमिति उपाधिभूषितः पि.वि. काणेमहाभागः ग आसीत् । क्षमायाः गुरुषु विद्यालङ्कारः नगप्पशास्त्री प्रमुखः । दुर्दैवात् अस्याः विद्याभ्यासः स्थगितः अभवत् ।

डा. राघवेन्द्रराव् इति सुप्रसिद्धेन वैद्येन सह क्षमायाः विवाहः सम्पन्नः । तदारभ्य क्षमा क्षमाराव् इति प्रसिद्धिं प्राप । भर्त्रा सह देशविदेशेषु अटन्त्याः क्षमायाः ज्ञानं विस्तृतं सञ्जातम् । विदेशसम्पर्केण इटालियन्-फ्रेञ्च् भाषयोः अपि नैपुण्यं प्राप्तवती क्षमा । पूर्वमेव तस्याः मराठी-गुजराती-संस्कृत- आङ्ग्लभाषासु परिणतिः आसीत् । इत्थं सा क्षमा बहुभाषाभिज्ञा अभवत् ।

स्वातन्त्र्यसङ्ग्रामे भागः[सम्पादयतु]

यदा सा स्वविद्याभ्यासं समापयामास तदा भारते स्वातन्त्र्यसङ्ग्रामः पराकाष्ठातां गतः आसीत् ।गान्धीमहात्मा स्वातन्त्र्यसङ्ग्रामसेनानी भूत्वा अखिलं देशं पारतन्त्र्यात् विमोचयितुं सर्वान् प्रचोदयति स्म । प्रायशः तत्काले महात्मनः गान्धीमहोदयस्य प्रभावलये अनन्तर्गतः कोऽपि भारतीयः नासीत् । सूक्ष्मसंवेदिनां पुरुषाणां स्वातन्त्र्यसङ्ग्रामभूमिप्रवेशः परमश्रेष्ठं कर्तव्यम् एव आसीत् । क्षमापि गान्धीवीचारैः तीव्रतया आकृष्टाऽऽसीत् । भारतं पारतन्त्र्यात् विमोचयितुं ‘भूमिमवतीर्णः देवः एव गान्धी’ इत्येव क्षमायाः दृढनिश्चयः आसीत् । तस्याः कृतिषु गान्धीजीवनं तद्विचाराश्च प्रमुखतया वर्णिताः । तस्मिन्नेव समये गान्धीमहोदयं सा ‘साबरमती आश्रमे’ दृष्टवती ।

योगदानानि[सम्पादयतु]

‘सत्कार्यैः समययापनं क्षमायाः स्वभावलक्षणम् आसित् । तदा पिता उद्योगनिमित्तं प्रवासनिरतः भवति स्म तदा क्षमा काव्यरचनाध्ययनादिषु श्लाघ्यकार्येषु कालं नयन्ती आसीत् । क्षमामहाभागा जीवनान्तं यावत् काव्यस्य निर्माणे मग्ना आसीत् । सा देहत्यागात् केवलं सप्ताहात् पूर्वमेव ‘ज्ञानेश्वरचरितम्’ इति महाकाव्यं समापयत ।

एतस्याः १२ कृतयः मुद्रिताः सन्ति । तासु 'शङ्करजीवनाख्यानम्’, ‘तुकारामचरितम्’, ‘रामदासचरितम्’, ‘स्वराज्यविजयः’ इत्यादीनि महाकाव्यानि । ‘मीरालहरी’ तया विरचितं खण्डकाव्यम् । ‘विचित्रपरिषद्यात्रा’ नामके लघुपुस्तके अन्ते संस्कृतप्रचारविषये तया एवं प्रार्थ्यते-

संस्कृताधीतिनः सन्तु सर्वे भारतभूमिजाः ।
संस्कृतेनैव कुर्वन्तु व्यवहारं परस्परम् ॥
संस्कृतज्ञानमासाद्य संस्कृताचारवृत्तयः ।
सर्वतः संस्कृतीभूय सुखिनः सन्तु सर्वतः ॥

एवं सततसंस्कृताध्ययनसीला क्षमा अस्माभिः आदरणीया अनुकरणीया च भवति ।

"https://sa.wikipedia.org/w/index.php?title=क्षमा_राव&oldid=361195" इत्यस्माद् पुनः प्राप्तिः