खरगौनमण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
खरगौनमण्डलम्

khargone District
खरगौन जिला
खरगौनमण्डलम्
खरगौनमण्डलस्य नयनाभिरामदृश्यम्
मध्यप्रदेश राज्यस्य मानचित्रे खरगौनमण्डलम्
मध्यप्रदेश राज्यस्य मानचित्रे खरगौनमण्डलम्
देशः  India
राज्यम् मध्यप्रदेशः
उपमण्डलानि खरगौन, बडवाह, सेन्धवा, कसरावद, भीकनगांव, भगवानपुरा, झीरान्या, महेश्वर, गोगांव
विस्तारः ८,०२५ च. कि. मी.
जनसङ्ख्या (२०११) १८,७३,०४६
Time zone UTC+५:३० (भारतीयमानसमयः (IST))
साक्षरता ६२.७०%
भाषाः हिन्दी, आङ्ग्लं
लिङ्गानुपातः पु.-५०%, स्त्री.-४८%
Website http://khargone.nic.in/

खरगौनमण्डलम् ( /ˈkhərəɡɔːnəməndələm/) (हिन्दी: खरगौन जिला, आङ्ग्ल: Khargone district) इत्येतत् भारतस्य मध्यभागे स्थितस्य मध्यप्रदेशराज्यस्य इन्दौरविभागे अन्तर्गतं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति खरगौन इति नगरम् ।

भौगोलिकम्[सम्पादयतु]

खरगौनमण्डलस्य विस्तारः ८,०२५ चतुरस्रकिलोमीटर्मितः अस्ति । मध्यप्रदेशराज्यस्य पश्चिमभागे इदं मण्डलम् अस्ति । अस्य मण्डलस्य पूर्वे खण्डवामण्डलं, पश्चिमे बडवानीमण्डलम्, उत्तरे इन्दौरमण्डलं, दक्षिणे महाराष्ट्रराज्यम् अस्ति । अस्मिन् मण्डले नर्मदानदी प्रवहति । अस्य मण्डलस्य उत्तरभागे विन्ध्याचलपर्वतशृङ्खला तथा दक्षिणभागे सतपुडापर्वतशृङ्खला अस्ति ।

जनसङ्ख्या[सम्पादयतु]

२०११ जनगणनानुगुणं खरगौनमण्डलस्य जनसङ्ख्या १८,७३,०४६ अस्ति । अत्र ९,५३,१२१ पुरुषाः, ९,१९,९२५ महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते २३३ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् २३३ जनाः। २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः २२.८५% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९६५ अस्ति । अत्र साक्षरता ६२.७०% अस्ति ।

उपमण्डलानि[सम्पादयतु]

अस्मिन् मण्डले नव उपमण्डलानि सन्ति । तानि- खरगौन, बडवाह, सेन्धवा, कसरावद, भीकनगांव, भगवानपुरा, झीरान्या, महेश्वर, गोगांव ।

कृषिः वाणिज्यं च[सम्पादयतु]

अस्मिन् मण्डले ’ग्रेनाईट’, ’कैल्साईट’, ’क्वार्टजाईट’, चूर्णपाषाणः, ’ब्रेक्सिया’ इत्यादयः लभ्यन्ते । कार्पासः अस्य मण्डलस्य प्रमुखव्यवसायः अस्ति । निमाड-प्रान्तः कार्पासपात्रम् इति प्रसिद्धम् ।

वीक्षणीयस्थलानि[सम्पादयतु]

खरगौन-नगरम्[सम्पादयतु]

इदं नगरं कुन्दा-नद्याः तटे स्थितम् अस्ति । अत्रस्थं प्राचीनं नवग्रहमन्दिरं सुप्रसिद्धम् अस्ति । इदं नगरं कार्पासोद्यमस्य प्रमुखं केन्द्रमस्ति ।

महेश्वर-नगरम्[सम्पादयतु]

पुरा हैहय-वंशीयस्य सहस्रार्जुन-नामकस्य राज्ञः राज्यस्य केन्द्रम् आसीत् इदं नगरम् । अयं हि राजा एकवारं रावणं पराजितवान् आसीत् । सहस्रार्जुनः जमदग्नेः हननम् अकरोत् इत्यतः परशुरामेण सः हतः । नर्मदानद्याः तटे स्थितम् इदं नगरं सुन्दरभव्यघट्टैः तथा माहेश्वरीशाटिकाभिः प्रसिद्धम् अस्ति । घट्टे अनेकानि कलात्मकानि मन्दिराणि सन्ति, येषु राजराजेश्वरमन्दिरं प्रमुखम् अस्ति । आद्यगुरुशङ्कराचार्य-मण्डनमिश्रयोः प्रसिद्धशास्त्रार्थः तत्रैव बभूव इति उल्लेखः प्राप्यते ।

मण्डलेश्वर-नगरम्[सम्पादयतु]

महेश्वर-नगरात् इदं स्थलं ८ कि. मी. दूरे अस्ति । तत्रापि नर्मदानदी प्रवहति । नर्मदाजलेन तत्र विद्युन्निर्माणं भवति । तस्मिन् नगरे बहूनि मन्दिराणि सन्ति यथा – दत्तमन्दिरं, राममन्दिरं, गुप्तेश्वरमन्दिरं, शीतलामातामन्दिरं, काशिविश्वेश्वरमन्दिरं, ’छप्पन’देवमन्दिरम् । एतानि सर्वाण्यपि मन्दिराणि प्राचीनानि, दर्शनीयानि च सन्ति । उच्यते यत् स्वतन्त्रताप्राप्तिपूर्वं १८५७ ई. समये क्रान्तिकारिभ्यः आङ्ग्लैः तत्र मृत्युदण्डः दत्तः आसीत् । इदं स्थलं ’फांसी-बैड्डी’ इति नाम्ना प्रसिद्धम् अस्ति ।

ऊन[सम्पादयतु]

ऊन-नामकं स्थलं खरगौन-नगरात् १४ कि. मी. दूरे अस्ति । तत्र परमारवंशकालीनं शिवमन्दिरं, जैनमन्दिरं च अस्ति । अतः इदं स्थलं प्रसिद्धमस्ति । खजुराहो इत्येतत् विहाय केवलं तत्रैव परमारकालीनमन्दिरम् अस्ति ।

’सिरवेल महादेव’-मन्दिरम्[सम्पादयतु]

इदं मन्दिरं खरगौन-नगरात् ५५ कि. मी. दूरे अस्ति । अस्य मन्दिरस्य विषये एवं मान्यता अस्ति यत् भगवते शिवाय रावणेन स्वस्य दशमस्तकानि अत्रैव अर्पितानि इति । अत एव अस्य मन्दिरस्य ’सिरवेल महादेव’ इति नाम । इदं मन्दिरं मध्यप्रदेशमहाराष्ट्रराज्ययोः सीमायाम् अस्ति इत्यतः मध्यप्रदेशमहाराष्ट्रराज्ययोः विविधस्थलेभ्यः श्रद्धालवः भक्ताः तत्र गच्छन्ति । अस्मिन् मण्डले बकावां एवं रावेरखेडी, देजला-देवडा, नन्हेश्वर, बडवाह-सनावद इत्यादीनि प्रमुखानि वीक्षणीयस्थालानि सन्ति ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

http://khargone.nic.in
http://www.census2011.co.in/census/district/307-west-nimar.html

"https://sa.wikipedia.org/w/index.php?title=खरगौनमण्डलम्&oldid=463977" इत्यस्माद् प्रतिप्राप्तम्