सामग्री पर जाएँ

खारवेलः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

महामेघवाहनः खारवेलः (१९३ ई.पू – १७० ई.पू पश्चात्) कलिङ्गस्य चेदीवंशस्य एकः शक्तिशाली राजा आसीत्।। खारवेलाविषये विवरणं भुवनेश्वरस्य उदयगिरिस्थ-हातिगुम्फाशिलालेखात् प्राप्यते |

खारवेलशासनसमये चेदीराजवंशः क्षमतायाः शिर्षकं प्राप्तवान्।कलिङ्गस्य पूर्ववैभवं तस्य आधिन्ये पुनः आगतम् । तस्य शासनकाले कलिङ्गस्य नौवाणिज्यं तदानीन्तनकाले सिंहलः ( श्रीलङ्का ), बर्मा ( म्यांमार ), सियाम ( थाईलैण्ड् ), वियतनाम, कम्बोडिया, बोर्निओ, बाली, समुद्र ( सुमात्रा ) जाभाद्वीपं ( जाभा ) च यावत् व्यापकमासीत्।। तदरिक्तं मगधं, अङ्गं, सातवाहनं, पाण्ड्यासाम्राज्यम् ( आधुनिकतमिलनाडु ) इत्यादीनि दक्षिणभारतीयप्रान्ताः च जित्वा गङ्गातः कावेरीपर्यन्तं कलिंगस्य सीमां विस्तारितवान् । सः जैनधर्मस्य ग्रहणं कृतवान्। . [] []

प्रारम्भिकम् जीवनम्

[सम्पादयतु]

खारवेलः चेदीवंशस्य वंशजः आसीत् । सः अस्य वंशस्य तृतीयः राजा आसीत् ।

सः न केवलं १३ वर्षाणि यावत् शासनं कृतवान् । तस्य साम्राज्यं मौर्यवंशस्य संस्थापकस्य चन्द्रगुप्तमौर्यस्य अपेक्षया बृहत्तरम् आसीत् । इतिहासकाराः अनुमानयन्ति यत् तस्य सेना प्रायः षट्लक्षतः अधिकैः सैनिकैः समृद्धाः आसन्। [ <span title="This claim needs references to reliable sources.">सन्दर्भस्य आवश्यकता</span> ] ଶ୍ରେଣୀ:Pages containing citation needed template with deprecated parameters खारवेलस्य बहव्यह राज्ञ्यः आसन् । तस्य प्रमुखायाः राज्ञायाः नामा आसीत् धूसिः। सा लालराज्यस्य हास्तिसाहः अथवा हस्तिसिंहः इति नाम्नी राज्ञः पुत्री आसीत् ।। [ <span title="This claim needs references to reliable sources.">सन्दर्भस्य आवश्यकता</span> ] उदयगिरि-नगरस्य मञ्चपुरी, यमपुरी इत्याख्यनगरे तस्य पुत्रद्वयस्य नाम वर्तेते।यत् ब्राह्मणी-शिलालेखेषु प्राप्यते। । कन्दर्पश्रीः धूस्याः ज्येष्ठः पुत्रः आसीत्, सम्राजः खारवेलस्य अनन्तरं सः कलिङ्गसाम्राज्यस्य उत्तराधिकारी अभवत् ।


बरेषश्रीः (अथवा कुमारबडुखः) यमपुरीगुहां निर्माणं कारयामास।

खारवेलस्य सम्बन्धिनः मुख्यतथ्यानि आधुनिकभुवनेश्वरस्य समीपे स्थितस्य उदयगिरिपर्वतस्य हाथीगुम्फाशिलालेखात् प्राप्यते। तस्मिन् शिलालेखे निर्दिष्टं यत् खारवेलः चेदी ଶ୍ରେଣୀ:Pages containing citation needed template with deprecated parameters वंशस्य राजा आसीत्। एवं सःमहर्षेः वासोः वंशजः आसीत्। लोककथाजनिततथ्यानां लिखितप्रमाणानां च अभावात् अनेके ऐतिहासिकाः खारवेलः ओड़ियावंशीयः इति वदन्ति स्म।

उत्तर-पूर्वभारते खारवेलनाम्ना एकः जाठवंशः स्वयं सम्राजः खारवेलस्य वंशधराः इति वदन्ति। ऐरः नामः एकः नागवंशीराजा ऐरावतात् उद्धृतः इति ज्ञायते।खारवेलविाषये अधिकं ज्ञातुं अद्यापि बहु संशोधनस्य अधिका आवश्यकता अस्ति।

  1. "ମହାରାଜ ଖାରବେଳ". आह्रियत 2012-01-16.
  2. "ମହାରାଜ ଖାରବେଳଙ୍କ ପରିବାର". आह्रियत 2012-01-16.
"https://sa.wikipedia.org/w/index.php?title=खारवेलः&oldid=497305" इत्यस्माद् प्रतिप्राप्तम्