खासी भाषा
खासी | |
---|---|
Ka Ktien Khasi, क क्त्येन् खासी | |
उच्चारणम् | /ka kt̪eːn kʰasi/ |
विस्तारः | भारतम् |
प्रदेशः | मेघालयराज्यम् |
Ethnicity | खासीजनसमूहः |
भाषाकुटुम्बः |
Austro-Asiatic
|
लिपिः |
रोमनलिपिः (खासीवर्णमाला) बङ्गाल-असमीयालिपिः |
भाषा कोड् | |
ISO 639-2 | kha |
ISO 639-3 | kha |
![]() खासीभाषासमूहस्य मानचित्रम् |
खासी भाषा वा खासिया नाम्नी अष्ट्रो-एशियाटिक्-परिवारस्य एकः भाषा अस्ति, या मुख्यतः भारतस्य मेघालयराज्यम् प्रदेशे प्रयुज्यते। अस्य भाषायाः अधिकतमं वक्तारः मेघालयप्रदेशे वसन्ति। अस्य भाषायाः मौखिकसाहित्यं लोककथाभिः, लोकगाथाभिश्च समृद्धम् अस्ति।
जनसंख्या
[सम्पादयतु]भारतदेशे (२०११ तमस्य जनगणनायाः अनुसारम्) खासीभाषा प्रथमभाषारूपेण १०,३८,००० जनैः भाष्यते। मेघालयराज्ये प्रायः ९,९७,००० जनाः एषां प्रथमा भाषा खासी अस्ति। खासीभाषायाः वक्तारः प्रायः खासीपर्वतप्रदेशे, जयन्तियापर्वतप्रदेशे च निवसन्ति। असमराज्ये अपि ३४,६०० खासीभाषावक्तारः सन्ति। बङ्गलादेशे अपि अल्पसङ्ख्यकः खासीभाषाभाषी समुदायः अस्ति।
लिपिः
[सम्पादयतु]प्राचीनकाले खासीभाषायाः स्वलिपिः नासीत्। सन् १८१३-१८३८ पर्यन्तं विलियम् केरी नामकः व्यक्तिः अस्य भाषायाः लेखनं पूर्वनागरीलिप्या (बङ्गाल-असमिया लिप्या) कर्तुम् अयच्छत्।[१] तस्मिन्काले अनेके खासीभाषाग्रन्थाः तेन लिप्या रचिता। तेषु एकं विशेषं ग्रन्थम् अस्ति — Ka Niyiom Jong Ka Khasi इत्याख्यं, यः ग्रन्थः खासीधर्मस्य (सेन्ग खासी) प्रमुखं पाण्डुलिपिरूपेण परिगण्यते। सन् १८४१ तमे वर्षे वेल्सदेशीयः मिशनरी थोमस् जोन्स् नामकः रोमनलिप्या खासीभाषायाः लेखनं आरब्धवान्। अतः खासीभाषायाः रोमनलिप्यां वेल्सदेशीयलिपेः प्रभावः दृश्यते। अधुना खासीभाषा मुख्यतः रोमनलिप्यां लिख्यते।
वर्णमाला
[सम्पादयतु]- महान्तः अक्षराः — A, B, K, D, E, G, Ng, H, I, Ï, J, L, M, N, Ñ, O, P, R, S, T, U, W, Y
- लघ्वक्षराः — a, b, k, d, e, g, ng, h, i, ï, j, l, m, n, ñ, o, p, r, s, t, u, w, y
सन्दर्भाः
[सम्पादयतु]- ↑ "ScriptSource – Khasi". scriptsource.org. Archived from the original on 29 October 2021. Unknown parameter
|access-date=
ignored (help); Unknown parameter|url-status=
ignored (help)