गङ्गासती

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(गंगा सती इत्यस्मात् पुनर्निर्दिष्टम्)
आध्यात्ममार्गदर्शिका गङ्गासती
गङ्गासती
जन्मस्थानम् भावनगरमण्डलस्य, गुजरातराज्यम्
तत्त्वचिन्तनम् आध्यात्ममार्गः
उक्तिः "विजळी ने चमकारे मोतीडा परो पानबाई...."

गङ्गासत्याः जन्म भावनगरमण्डलस्य पालीताणा उपमण्डलात् ३५ कि.मी. अन्तरे स्थिते राजपराग्रामे १८४६ तमे वर्षे बभूव । तस्याः पितुः नाम 'श्रीभाईजीभाई जेसाजी सरबैया' आसीत् । मातुः नाम 'रूपाळीबा' आसीत् । गङ्गासत्याः विवाहः 'कहळसङ्ग कालुभा-गोहिल' इत्यनेन सह १८६४ तमे वर्षे अभूत् । तत्कालीनं राजपूतपरम्परानुसारं गङ्गासत्या सह 'पानबाई' नामाख्या कन्या सेविकारूपेण प्रेषिता आसीत् । 'पानबाई' गङ्गासत्याः सेविकैव नापितु आत्मपथस्य सहगामिनी अपि आसीत् । द्वे धर्मपरायणे वयसा तु समाने एव आस्ताम् । गङ्गायां सर्वाः नद्यः गङ्गारूपमेव धरन्ते, तथैव 'पानबाई' अपि गङ्गासतीमया अभूत् ।

विकसितं पुष्पं परितः मधुमक्षिकाः इव ते परितः अनेकेषां सन्यासिनां, भक्तानां, गृहस्थानां, जिज्ञासूनां, दीनानां च वृन्दं समुद्भवति स्म । ते तेषां मार्गदर्शनं कुर्वन्त्यौ आस्ताम् । गार्हस्थ्यजीवनम् अध्यात्मजीवनञ्च द्वयोः सङ्गतिः संन्यासपरम्परायाः विशिष्टं लक्षणं वर्तते । अस्याः संन्यासपरम्परामाध्यमेन आसन-प्राणायाम-मुद्रा-नाडीशुद्धिक्रियादियोगैः ते ब्रह्माण्डस्य रहस्यानि ज्ञापितवत्यौ । गङ्गासती स्वरज्ञा अपि आसीत् । तस्याः मतमासीत् यत् स्वरसाधना आत्मज्ञानमार्गे मुख्या अस्ति । श्रुयते यत् गङ्गासती प्रतिदिनम् एकं भक्तिगीतं रचयति स्म । तत् गीतं 'पानबाई' इतीमाम् आत्मपथगमिनीं श्रावयति स्म । गङ्गासती 'पानबाई' इतीमाम् उद्दिश्य गायति स्म । अतः गीतेषु पूर्वगीतस्य वार्ता वा विषयोऽपि दृश्यते । गङ्गासती 'पानबाई' इतीमां क्रमशः अध्यात्ममार्गं प्रदर्शयति स्म।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=गङ्गासती&oldid=481521" इत्यस्माद् प्रतिप्राप्तम्