गणपतिशास्त्री
| गणपतिशास्त्री | |
|---|---|
|
| |
| जन्म | 1860 |
| मृत्युः | 1926 |
| वृत्तिः |
संपादक, विद्वान, Indologist |
गणपतिशास्त्री, टि. : 1860-1926. इत्येषः महोदयः भासस्य नाटकानि संस्कृतजगते ऐदम्प्राथम्येन समर्पितवान् किञ्च संस्कृतस्य अपरस्य अमरकृतिभूतस्य कौटिल्यस्य अर्थशास्त्रस्य विद्वत्पूर्णं व्याख्यानं रचितवान् इति कीर्तेः कृते सभाजितः महान् विद्वान् आसीत् ।
बाल्यम्
[सम्पादयतु]१६ शतके यः रामसुब्बय्यर्-महोदयः प्रसिद्धसंस्कृतविदुषः अप्पय्यदीक्षितस्य वंशे सञ्जातः, एतस्य पिता आसीत् । एषः तिरुनल्वेलिमण्डलस्य तरुवाय् इत्यत्र जनिं प्राप । षोडषे वर्षे सः तिरुवनन्तपुरम् आगतवान् । तस्मिन् काले, करमनै सुब्रह्मण्यशास्त्री तिरुवाङ्कूर्-महाराजस्य धर्माधिकारी आसीत् । तस्य निकटे स्वस्य संस्कृताध्ययनम् अग्रे सारितवान् । गणपतिशास्त्रिमहोदयः असामान्यप्रतिभावान् असामान्यविद्वान् च आसीत् । सप्तदशतमे वयसि एव माधवीवसन्तम् इति नाटकं लिखितवान् । तदर्थं युवराजेन विशाखं तिरुनाळ् इत्येतेन पुरस्काररूपेण वज्रस्य अङ्गुलीयकं प्राप्तवान् । अर्थचित्रमणिमाला इति अलङ्कारग्रन्थः, सेतुयात्रावर्णनम् इति गद्यग्रन्थः, मर्चेण्ट् आफ् वेनिस् इति नाटकस्य संस्कृतानुवादः च एतस्य प्राथमिकाः कृतयः सन्ति ।
व्यवसायः
[सम्पादयतु]अष्टादशतमे वयसि एव तिरुवाङ्कूर्-प्रदेशस्थे उच्चन्यायालये एषः उद्योगं प्राप्तवान् । परन्तु सः तं त्यक्त्वा महाराजस्य विशाखं तिरुनाळ् इत्यस्य आग्रहेण प्रासादस्य सरस्वतीभण्डारस्य ग्रन्थपालः अभवत् । तत्र केरळवर्मा, वलिय कोयिल् तम्पुरान्, एळत्तूर् रामस्वामिशास्त्री इत्यादीनां प्रसिद्धानां संस्कृतविदुषां निकटसम्पर्केण प्राचीनपाण्डुलिपीनाम् अध्ययनं कर्तुम् आरब्धवान् । एषः १८८९ तमे वर्षे संस्थापितस्य तिरुवनन्तपुरसंस्कृतमहाविद्यालयस्य १८९९ तमे वर्षे प्रधानाधिकारी अभवत् । एवं भूत्वापि सः प्रासादस्य ग्रन्थालयस्य अध्यक्षः भूत्वा एव तिरुवाङ्कूर्-संस्कृतग्रन्थावल्याः सम्पादकत्वम् अनुवर्तितवान् ।
संस्कृतस्य सेवा
[सम्पादयतु]एतस्य नेतृत्वे तस्याम् आवल्यां सप्ताशीतिः प्रसिद्धाः ग्रन्थाः प्रकाशिताः अभूवन् । एतस्मिन्नन्तरे, शास्त्रीमहोदयः समयं कल्पयित्वा न केवलं बहून् संस्कृतपाठ्यग्रन्थान् लिखितवान् किन्तु अद्यापि प्रसिद्धम् अपर्णास्तवः इति स्तोत्रग्रन्थम् अपि लिखितवान् । सिल्वेन् लीवी इत्यस्य आग्रहेण भारतानुवर्णम् इति भारतीयसंस्कृतिविषयकम् एकं ग्रन्थमपि रचितवान् [१] । १९०८ तमे वर्षे तिरुवाङ्कूर्-सर्वकारः शास्त्रीमहोदयस्य ग्रन्थसम्पादनक्षमतां, पाण्डुलिपीनां विमर्शनवैदुष्यं च परिगणय्य पाण्डुलिपीनां सङ्ग्रहाय एव एकं विभागं स्थापितवान् । गणपतिशास्त्री तस्य अध्यक्षः भूत्वा १,४०० पाण्डुलिपीनां सङ्ग्रहणं कृतवान् । १९१० तमः वर्षः शास्त्रिणः जीवनस्य महत्वपूर्णः वर्षः आसीत् । तदा शास्त्रिणः कृते भासनाटकानां पाण्डुलिपयः प्राप्ताः [२] । १९१२ तमे वर्षे ताः मुद्रिताः भूत्वा प्रकाशिताः च भूत्वा विश्वस्य कोणे कोणे स्थितानां संस्कृतविदुषां हस्ताः सम्प्राप्ताः । पाश्चात्यप्राच्यविद्वांसः ऐकमत्येन शास्त्रिणः प्रशंसनं कृतवन्तः [३] । एषा विंशतिशतके संस्कृतभाषासम्बद्धा अभूतपूर्वा घटना इति वर्णिता वर्तते [४] ।
सम्मानाः पुरस्काराः च
[सम्पादयतु]अलाहाबाद-नगरे आयोजितस्य अखिलभारतीय-प्राच्यविद्यासम्मेलनस्य अध्यक्षपदं शास्त्रिमहोदयस्य पार्श्वे आगतम् । १९२० तमे वर्षे प्यारिस्-नगरे आयोजिते विश्वप्राच्यविद्यासम्मेलनं एतस्य कृते अभिनन्दनसमारोहस्य आयोजनं कृतवत् । लण्डन्-नगरस्य रायल्-एशियाटिक्-सङ्घस्य गौरवसदस्यत्वं, जर्मनीदेशस्य टूबिङ्गेन्-विश्वविद्यालयस्य डाक्टरेट्-पुरस्कारः, एतेषां मुकुटरूपेण भारतसर्वकारस्य महामहोपाध्यायपुरस्कारः च - एते सर्वेऽपि शास्त्रिमहोदयेन लब्धाः [५] । १९२४-२६ तमवर्षेषु शास्त्रिमहोदयः कौटिल्यस्य अर्थशास्त्रस्य व्याख्यानं लेखितुम् आरब्धवान् । तस्मिन् काले एव शास्त्रिमहोदयः बरोडासंस्कृतग्रन्थावल्यां भोजस्य समराङ्गणसूत्रधार इति ग्रन्थस्य सम्पादनं कृतवान्, सः ग्रन्थः मुद्रितश्च । महाराजः मौलम् तिरुनाळ् इत्येषः शास्त्रिमहोदयस्य आश्रयदाता आसीत् । तस्य मृत्युः शास्त्रिमहोदयस्य मनसि महान्तम् आघातम् अजनयत् । गणपतिशास्त्रिमहोदयः सातत्यरूपेण, शतकार्धम् अतिक्रम्य, संस्कृतार्थं, पाण्डुलिपीनां विमर्शात्मकसम्पादनार्थम् अहर्निशं श्रमं विहितवान् । सः १९२६ तमे वर्षे एप्रिल-मासस्य तृतीये दिनाङ्के इहलोकं परित्यक्तवान् । अद्य यः कोऽपि भासनस्य नाटकानि पठति, अभ्यासं करोति, सः एतस्य नाम विस्मर्तुं न शक्नोति ।