गण्डकीचण्डी (पोखारा)

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
शक्तिपीठं
धवलगिरिसमीपे गण्डकीनद्याः तीरे पोखारा स्तुपः।
धवलगिरिसमीपे गण्डकीनद्याः तीरे पोखारा स्तुपः।

गण्डकीचण्डी ( पोखारा ) एतत् शक्तिपीठं नेपालदेशस्य धवलगिरिसमीपे पोखारा इत्यत्र अस्ति ।

सम्पर्कः[सम्पादयतु]

एतत् स्थानं प्रति धवलगिरितः १२५ कि.मी.दूरे मुक्तिनाथस्य दिशि गण्डकीनद्याः तीरे पोखारा इत्यत्र अस्ति ।

वैशिष्ट्यम्[सम्पादयतु]

अत्रत्यः मुक्तिनाथः एव अधिकप्रसिद्धः। शक्तिपीठस्य तु द्वितीयं स्थानम् । अस्मिन् स्थाने देव्याः ललाटस्य भागः पतितः इति ऐतिह्यम् अस्ति । अत्रत्या देवी गण्डकीचण्डी इति पूज्यते । अत्रत्यः शिवः चक्रपाणिनाम्ना पूज्यते ।

"https://sa.wikipedia.org/w/index.php?title=गण्डकीचण्डी_(पोखारा)&oldid=392728" इत्यस्माद् प्रतिप्राप्तम्