गायत्री (मन्त्रः)

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
राजा रविवर्मणा चित्रिता गायत्री
गायत्री

गायत्री इति पदं मूलतः संस्कृतस्य ’गायत्र’ इति पदस्य स्त्रीलिङ्गरुपम् । संस्कृते अस्य विग्रहं तु गायन्तं त्रायते यस्मात् इति गायत्री इति । अस्य अर्थः एवं सम्पन्ना भवति यत्, यस्य उच्चारणेन सङ्कष्टनिवारणादिकं भवति इति । हिन्दूधर्मानुयायिनां वचनलेखनादिषु एवं धर्मग्रन्थेषु च स्वरुपत्रये इदं पदं दृश्यते ।

गायत्री छन्दः[सम्पादयतु]

गायत्रीछन्दसि प्रतिपादे अष्टौ अक्षराणि सन्ति । आहत्य चतुर्विशति अक्षराणि सन्ति, अतः त्रिपदी इत्युच्यते । अस्मिन्नेव छन्दसि गायत्रीमन्त्रोऽपि विद्यते । ऋग्वेदस्य श्लोकेषु, पादशः श्लोकाः अस्मिन्नेव छन्दसि वर्तन्ते इति ऊह्यते ।

गायत्रीमन्त्रः[सम्पादयतु]

योऽयं गायत्रीमन्त्रः सः प्रथमतः ऋग्वेदे दृश्यते, तदनन्तरम् इतरवेदोपनिषत्सु प्रस्तापितः । अयं हिन्दूधर्मस्य प्रमुखमन्त्रः । गायत्री छन्दसि लिखितः यः कोऽपि मन्त्रः गायत्रीमन्त्रः इत्येवं प्रतीतिरप्यस्ति । सैषा गायत्री वेदमाता, देवीसरस्वत्याः स्वरूपिणी ।

हिन्दू धर्मसम्बन्धिषु अतिश्रेष्ठमन्त्रेषु गायत्रीमन्त्रः अपि अन्यतमः । अनेन मन्त्रेण सवितृदेवस्य आवाहनं क्रियते इत्यतः अयं मन्त्रः सावितृमन्त्रः इत्यपि प्रसिद्धः । अयं च मन्त्रः महर्षिणा विश्वामित्रेण लिखितः इति केचित् अङ्गीकुर्वन्ति । किन्तु ऋग्वेदेन सहितः समग्रवेदभागः ब्रह्ममुखात् विनिसृतः इत्ययं विषयः ज्ञायते ।

आवैदिककालात् अयं अभिप्रायः वर्तते यत्, गायत्रीमन्त्रस्य वर्ग-जाति-लिङ्गानां सीमा नास्ति इति । एवं यः कोऽपि इमं मन्त्रम् उच्चारयितुं (पठितुम्) शक्नोति । इत्येवं अनेके धर्मशास्त्रज्ञाः स्वाभिप्रायं मण्डयन्ति । ऋग्वेदस्य तृतीयमण्डलस्य, द्विषष्ठि सूक्तस्य, दशमं वर्तते अयं मन्त्रः । ॐ भूर्भुवः स्वः तत्सवितुर्वरेण्यं भर्गोदेवस्य धीमहि धियो यो नः प्रचोदयात् ॥ अस्य मूलार्थस्तु एवमस्ति यत्-

भूम्याकाशान्तरिक्षम् अभिव्याप्य स्थितः तेजोमयः, दिव्यरुपी, पूजितः सः परब्रह्म (सतितृदेवः) अस्माकं बुद्धिं, विवेकं च तेजोमार्गे (ज्ञानमार्गे) प्रेरयतु ।

ॐ –ॐ , भूः- भूमिः भुवः आकाशः, स्व –अन्तरिक्षम तत्-सः सतितु- सतितृनामकः परमात्मा,वरेव्यम्= पूजितः, भर्गः तेजोमय, देवस्य, देवम्, धीमहि- तमुद्दिश्य ध्यानं कुर्मः, धियः- बुद्धिः, विवेकश्च, यः यावान् नः अस्मान्, प्रचोदयात्= प्रचोदनं कुर्यात् ।

वेदेषु प्रथमः ऋग्वेदः, तस्य अंशाः यजुर्वेदादि-वेदत्रयेष्वपि अन्तर्गताः, अतः अस्य मन्त्रस्य उल्लेखः गर्वेष्वपि वेदेष्वस्ति । भगवदीतायाम्, अनेकासु उपनिषत्सु शङ्कराचार्याणां कृतिषु, एवं भागवतेऽपि गायत्रीमन्त्रस्य प्रस्तापः अस्ति ।

गायत्रीदेवी[सम्पादयतु]

एषा ब्रह्मपत्न्याः सरस्वत्याः स्वरूपिणी, इति प्रतीतिरस्ति । वेदमाता इति प्रथितायाः तस्याः पञ्चमुखानि, दश बाहवः च सन्ति । एवं सा कमलासना, हंसवाहिनी इत्यपि वर्णयन्ति । केचित्, वैदिककाले अस्याः उल्लेखः नासीत् इति वदन्तः तस्याः अर्चनादिकमपि अवैदिकं इति वदन्ति । किन्तु सामान्यतः सर्वेऽपि गायत्रीदेवीम् अङ्गीकुर्वन्ति ।

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=गायत्री_(मन्त्रः)&oldid=460643" इत्यस्माद् प्रतिप्राप्तम्