गोमायुदुन्दुभिकथा

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(गोमायु-दुन्दुभि-कथा इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search
गोमायुदुन्दुभिकथा
दुन्दुभौ आरूढः शृगालः
कथोपस्थापकः दमनकाख्यः शृगालः
कं कथयति? पिङ्गलाख्यं स्वस्वामिनम्
तन्त्रम् मित्रभेदः
पात्राणि
  • गोमायुनामकः शृगालः
  • युद्धक्षेत्रस्थः दुन्दुभिः

गोमायुदुन्दुभिकथा पञ्चतन्त्रस्य मित्रभेदतन्त्रस्य द्वितीया कथा वर्तते। पञ्चतन्त्रस्य कथानुसारं दमनकाख्यः शृगालः स्वस्य स्वामिनं पिङ्गलक-नामकं सिंहम् एतां कथां कथयति। दुन्दुभेः (भेर्याः) गोमायु-नामकस्य शृगालस्य मिथ्याभयम् एतस्याः कथायाः मुख्यांशः वर्तते।

प्रसङ्गः[सम्पादयतु]

पिङ्गलकाख्यः वनराजः सिंहः यदा यमुनाजलं पातुं यमुनातीरं गच्छति, तदा सः सञ्जीवकाख्यस्य ककुद्मतः वृषभस्य गर्जनं शृणोति। तस्मात् भयङ्करात् शब्दात् भीतः सिंहः वटवृक्षतले चतुर्मलण्डलावस्थां तिष्ठति। तत्र दमनकाख्यः तस्य मन्त्रिपुत्रः सम्प्राप्य वटतले सिंहस्य चतुर्मण्डले अवस्थितेः कारणं पृच्छति। दमनकस्य विद्वत्तापूर्णां चर्चां श्रुत्वा पिङ्गलकः स्वभयस्य कारणं तं कथयति यत्, अस्माकं वने कश्चन क्रूरः जीवः सम्प्राप्तः स्यात्। तस्य एषः भयङ्करः शब्दः एव तस्य बलस्य, क्रूरतायाः च प्रमाणम् अस्ति इति। पिङ्गलकस्य भयकारणं ज्ञात्वा दमनकः सान्त्वनां यच्छन् विभिन्नानि नीतिवाक्यानि कथयति। तस्यां चर्चायां दमनकः निम्नाम् उक्तिं वदति।

पूर्वमेव मया ज्ञातं पूर्णमेतद्धि मेदसा।

अनुप्रविश्य विज्ञातं यावच्चर्म च दारु च॥पञ्च_१.११७॥

एताम् उक्तं श्रुत्वा पिङ्गलकः एतस्याः उक्त्यायाः उद्गमकथां पृच्छति। तस्य उक्त्याः उद्गमकथां श्रावयन् दमनकः पिङ्गलकं गोमायुदुन्दुभिकथां श्रावयति।

कथा[सम्पादयतु]

बुभुक्षया व्याकुलः कश्चन गोमायुनामकः शृगालः भक्ष्यम् अन्विषन् इतस्ततः भ्रमन् आसीत्। बुभुक्षया तस्य कण्ठः क्षामः (शुष्कः) जातः आसीत्। तदा सः परस्परं योत्स्यमानयोः सेनयोः युद्धस्थलं प्राप्तवान्। तत्र वृक्षस्याधः कश्चन दुन्दुभिः (भेरी) भूमौ पतितः आसीत्। वृक्षस्य वल्ल्यः (लताः) दुन्दुभेः साक्षात् उपरि उल्लम्बिताः आसन्। वायोः वेगेन तासां वल्लीनाम् अग्रभागः दुन्दुभेः उपरि दोलायते स्म। यदा वायोः वेगः किञ्चित् अधिकः भवति स्म, तदा वल्लीनाम् अग्रभागेन दुन्दुभौ तीव्राघातः भवति स्म। तेन तीव्राघातेन दुन्दुभेः घोरः शब्दः उत्पद्यते स्म। युद्धस्थलं प्राप्तः सः शृगालः तं घोरं शब्दम् अशृणोत्।

दुन्दुभेः घोरं नादं श्रुत्वा गोमायुः व्याकुलः सन् चिन्तयति यत्, अहो! अहं तु मरिष्यामि। यथा तस्य घोरशब्दकरस्य सम्मुखम् अहं नागच्छामि, तथा इतः स्थानान्तरं पलायै। परन्तु अनुक्षणं सः चिन्तयति यत्, अथवा विना विचिन्त्य सहसा मया एवं पलायनं न करणीयम्। यतो हि –

यः मनुष्यः भयस्य उत हर्षस्य स्थितौ कर्तव्याकर्तव्ययोः चिन्तनं करोति, सहसा च कामपि प्रतिक्रियां न करोति, सः कदापि सन्तापं (दुःखं) न प्राप्नोति। अर्थात् तस्मिन् काले विवेकेन यः कार्यं करोति, सः सर्वदा सुखं प्राप्नोति।[१] अतः अहं गवेषयामि यत्, एषः शब्दः कस्य इति।

एवं धैर्यम् आलम्ब्य विमर्शयन् (चिन्तयन्) गोमायुः यदा अग्रे गतवान्, तदा सः तं वृक्षच्छायायाम् अवस्थितं दुन्दुभिम् अपश्यत्। शनैः शनैः सः गोमायुः तस्य दुन्दुभेः समीपम् अगच्छत्। अधुना सः ससन्देहः आसीत् यत्, एषः घोरः शब्दः एतस्मात् दुन्दुभेः एव निर्गच्छन् अस्ति इति। परन्तु स्वस्य कौतूहलस्य पुष्ट्यै सः तस्मिन् दुन्दुभौ स्वयम् आघातम् अपि अकरोत्। आघातोत्तरं सः तमेव शब्दं श्रुतवान्, यं पूर्वम् अशृणोत्।

"अहो! एतत् तु बहुभ्यः दिनेभ्यः अनन्तरं प्रभूतं (अधिकं) भोजनं सम्प्राप्तम्। अवश्यमेव एतत् वाद्यभाण्डं विपुलेन मांसेन, रुधिरेण च परिपूर्णं स्यात्। मम तु बहूनां दिनानां भोजनस्य व्यवस्था अभवत्" इत्येवं साश्चर्यः हर्षितः गोमायुः अचिन्तयत्। ततः सः दुन्दुभौ आरूढः। परन्तु कठोरचर्मणा अवगुष्ठितस्य (आच्छादितस्य) तस्य दुन्दुभेः विदारणं (छेदनं) तावत् सरलं नासीत्। अतः सः इतस्ततः नखैः, दन्तैः च छेदं कर्तुं प्रयासान् आरभते। महता परिश्रमेण सः एकस्मिन् कोणे चर्म छेत्तुं (चर्मच्छेदने) सफलः अभवत्। ततः महत्या प्रसन्नतया सह गोमायुः अन्तः प्रविष्टः।

दुन्दुभौ प्रविष्टः गोमुखः अतीव निराशः अभवत्। यतो हि चर्मच्छेदनव्यापारे तस्य दंष्ट्राभङ्गः (दन्तभङ्गः) जातः आसीत्। दुन्दुभेः अन्तः अपि यष्ट्यः एव आसन्। अतः सः किमपि भोजनं न प्राप्तवान्। ततः बुभुक्षितः दन्तभङ्गः सः गोमायुः पौनःपुन्येन निम्नं श्लोकं पठन् आसीत्।

श्रुत्वैव भैरवं शब्दं मन्येऽहं मेदसां निधिम्।

अनुप्रविश्य विज्ञातं यावच्चर्म च दारु च॥

अर्थात्, एतस्य दुन्दुभेः भीषणं शब्दं श्रुत्वा अहम् अचिन्तयं यत्, एषः मांसादिना परिपूर्णः स्यात् इति। परन्तु यदाहम् अन्तः प्रविष्टवान्, तदा उपरिष्टात् चर्मणा अवगुष्ठितः एषः तु दारुमयः एव अस्ति इति ज्ञातवान्।

कथासारः[सम्पादयतु]

अनया कथया दमनकः स्वस्वामिनं पिङ्गलकं परामर्शयति यत्, केवलं शब्दमात्रं श्रुत्वा भयभीतेन न भवितव्यम्। अस्माभिः एतावता सः जन्तुः न दृष्टः अस्ति, तस्य भयङ्करः शब्दः एव श्रुतः। तावता भयस्य किमपि कारणं नास्ति। भवान् तु सः गोमायु-नामकः शृगालः यथा शब्दं श्रुत्वा अबिभेत्, तथा बिभेति। कदाचित् दुन्दुभेः वास्तविकतां ज्ञात्वा तस्य भ्रमः यथा दूर्यभवत्, तथा भवतः अपि भ्रमः दूरीभवेत्। अतः शब्दकरस्य अज्ञातं भयं मास्तु इति।

सम्बद्धाः लेखाः[सम्पादयतु]

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

सन्दर्भः[सम्पादयतु]

  1. भये वा यदि वा हर्षे सम्प्राप्ते यो विमर्शयेत्। कृत्यं न कुरुते वेगान्न स सन्तापमाप्नुयात्॥पञ्च_१.११८॥

अधिकवाचनाय[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=गोमायुदुन्दुभिकथा&oldid=405546" इत्यस्माद् पुनः प्राप्तिः