ग्रन्थसम्पादनप्रविधिः

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
ऋग्वेदस्य पाण्डुलिपिः

हस्तलिखितानि मातृकापुस्तकानि आश्रित्य प्राचीनकृतीनां मूलग्रन्थाविष्करणं नाम समालोचनात्मक-ग्रन्थसम्पादनं, यदाङ्ग्लभाषायां Critical Text Editing इति वर्ण्यते । हस्तलिखितेषु परिदृश्यमाननां लेखकेन ज्ञाताज्ञातकृतानाम् अशुद्धीनां प्रमादानां च परिशुद्धिपूर्वकं ग्रन्थस्य प्रायेण पाण्डुलिप्याधारेणैव तन्मूलरूपसम्पादनरूपः यथाश्क्यं प्रयत्नः संशोधितावृत्तिः ग्रन्थसम्पादनप्रविधिः कथ्यते । लेखकः ज्ञानतोऽज्ञानतः वा बहून् प्रमादान् करोति इति पूर्वम् अस्माभिर्लिखितम् । तेषां दूरीकारणार्थमयं प्रयत्नः । तेन ग्रन्थस्य परिशुद्धिः भवति । मूलस्वरूपोसम्पादने यथाशक्यं प्रयत्नः क्रियते ।


ग्रन्थसम्पादनस्य प्रयोजनम्[सम्पादयतु]

मूलग्रन्थः इति ग्रन्थकृता यद्रुपो विरचितः तद्रुपा तस्य कृतिः । बहुवर्षेभ्यः पूर्वं विरचितानां, तत्पश्चात् श्रुतिपरम्परया च प्राप्तानां ग्रन्थानां प्रतिलिपिषु पाठभेदाः प्रक्षेपादयश्च सर्वथा सुलभा एव । एष विपर्यासः संस्कृतग्रन्थानां विषये विशेषेण सम्भवतीत्यपि वक्तुं शक्यते । तत्र सन्ति बहुनि कारणानि । तथा च गीर्वाणी इयं भाषा बहुभ्य कालेभ्य समग्रभारतखण्डे प्रचलति । तद्द्वारासंस्कृतग्रन्थानामपि सर्वत्र प्रचारः अस्ति । परं भारतदेशे लिपयः भिन्ना वर्तन्ते, लेखनपत्राणि च भिन्नानि, यथा-भूर्जपत्र-तालपत्र-काष्ठफलक-चर्म-कार्पासपटादीनि । लेखनी लेखनद्रव्याणि लेखनसम्प्रदायाः लेखनचिह्नानिऽपि भिन्नानि भवन्ति । लेखकाः अपि सर्वदा अभिज्ञाः नासन् । इतः परमपि एकस्यांलिप्यां लिखिताभ्यः मातृकाभ्यः अपरस्यां लिप्यां प्रतिलिपीकरणं तदानीम् इष्टमासीत् । लेखकानां प्रायः लिप्यन्तरस्य अज्ञानाद् एकेन पठितं अन्येन श्रुत्वैव प्रतिलेखनमभवत् । अस्याम् अवस्थायां लेखकप्रमादाः सुलभाः एव । एवं स्थिते प्रचलितासु प्रतिलिपिषु पाठभेदादीनाम् अन्तर्भावे आश्चर्यस्य नास्ति अवकाशः ।

ग्रन्थसम्पादनस्य सोपानानि[सम्पादयतु]

मार्कण्डेयपुराणस्य पाण्डुलिपिः
हस्तलिखितम् सूचीकरणम् संरक्षणम् सम्पादनम्
लेखकः सूचिः पारम्परिकम् पाण्डुलिपिसंग्रहणम्
साधनानि अकारादिक्रमेण आधुनिकम् पाठलेखनम्
पत्राणि विस्तृतविवरणम् वैज्ञानिकम् पाठतुलना
अङ्गानि पञ्जीकरणम् सङ्गणकीयम् पाण्डुलिपिवर्णनम्
संग्रहाः मातृकासंग्रहसूचिः वंशवृक्षः
पाठनिर्धारणनियमाः
समीक्षितपाठलेखनम्
प्रस्तावना
अन्यावृत्तिश्लोकतुलना

प्रविधिः[सम्पादयतु]

सम्पादनार्थं पाण्डुलिपिसंग्रहणम्[सम्पादयतु]

सर्वप्रथमं विविधासु संस्थासु सम्पादनार्थं स्वीकृतस्य ग्रन्थस्य याः संख्यकाः पाण्डुलिपयः सन्ति, तासां सङ्कलनमवश्यकम् । तासु याः सम्पूर्णाः समयनिर्देशयुक्ताः प्राचीनाः शुद्धरूपाश्च सन्ति, तासां सङ्कलने सम्प्राप्तौ च प्रथमं प्रयत्नः क्रियते । तत्र विविधप्रदेशनां विविधलिपिषु लिखितानां विविधपाठयुक्तानां विशिष्टानां मातृकानां विशेषतः महत्वं प्रदीयते ।

पाठलेखनम्[सम्पादयतु]

शुद्धस्य, समग्रस्य, प्राचीनस्य हस्तलेखस्य प्रथमं लेखनं वा विशिष्टलेखनपत्रोऽपरि क्रियते । विशिष्टपत्रमिदं १९ चतुरस्रविभागयुक्तं विद्यते, यत्र प्रतिक्षरं ग्रन्थस्य प्रतिपादं लेखनं क्रियते । वामे उपविभागे हस्तलिखितानां संक्षेपलेखनार्थं स्थानं रक्ष्यते ।

पाठतुलना/पाठभेदसमीक्षा[सम्पादयतु]

ग्रन्थस्य अनेकानां पाण्डुलिपीनां सूक्ष्मतया तुलनां कृत्वा तेषामक्षर-शब्द-पद-वाक्य-पाद-श्लोक-आदिगतानां लोपपरिवर्तन-परिवर्धनादीनां विशेषाणां लेखनं सन्तुलनापत्रोपरि आलेख्यते । प्राक्तने भारते कापि ग्रन्थसम्पादनप्रणाली प्रचलिता आसीत् । मातृकाग्रन्थेषु सत्स्वपि भारतीयव्याख्यातारः शुद्धपाथ्मेव स्वीकृत्य अन्यत् सर्वं तुष्णीं निरकरोति स्म इति प्रायशो दृश्यते, ये च अपपाठाः आधुनिकग्रन्थप्रक्रियानुसारं मुद्रितपुस्तकस्याधोभागे प्रदर्श्यते । तथापि व्याख्यानेषु तत्र अपपाठः, पाठान्तरं, प्राचां, पाश्चत्यः, दाक्षिणात्याः इत्यादिभिः शब्दैः पाठान्तराणि प्रदर्शयन्ते । लेखनिकप्रमादाविष्करणं विरलतया एव प्रदर्श्यन्ते, यथा वल्लभदेवस्य मेघदूतटीकायां "आषाढस्य प्रथमदिवसे" (१.२) इत्यादि श्लोकव्याख्याने केचित्तु श-कार-थ-कारयोर्लिपिसारूप्यमोहात् "प्रशम" इति उचुः ।


पाण्डुलिपिवर्णनम्[सम्पादयतु]

प्रयुक्तस्य प्रत्येकस्य हस्तलिखितस्य विस्तृतं विवरणं कार्यम् । प्राप्तिस्थानं, क्रमाङ्कः, पत्राणि, ग्रन्थाग्राणि, लिपिः, लेखकवर्णनं, लेखन-समयः, लेखनसाधनं कर्गजादिकं, प्रतिपादमक्षराणि, प्रतिपृष्ठं पदानि, विभिन्नमसीनामुपयोगः, प्रथमेन द्वितीयेन वा लेखकेन कृताः प्रामादास्तेषां शोधनं च । इत्थं विशिष्टं च हस्तलेखवर्णनं कार्यम् ।

वंशवृक्षनिर्माणम्[सम्पादयतु]

तालिकानिर्माणम्

उपलब्धानां पाण्डुलिपीनां परस्परसम्बन्धप्रस्थापनं कृत्वा वंशवृक्षनिष्पादनं कार्यम् । तत्तु-

  • प्रक्षेपानाम्
  • ग्रन्थलोपानाम्
  • परिवर्तानाम्
  • पाठभेदानाम्

साम्यं वंशवृक्षानिष्पादने समुपयुक्तं प्रमाण्भूतं कारणम् ।


पाठनिर्धारणम्[सम्पादयतु]

मूलपाठनिश्चयार्थं पाण्डुलिपीनां वंशवृक्षस्य ग्रन्थस्य चाध्ययनेन काचन नियमावलिः विशिष्टा च निर्धार्यते । तदनुसारेण च समीक्षितावृत्तेः प्रमाणभूतस्य पाठस्य निर्धारणं कृत्वा तल्लेखनं क्रियते ।

पाठनिर्धारणस्य सामान्यनियमाः[सम्पादयतु]

सम्पादितग्रन्थाः
  • प्रायेण प्राचीनतमस्य पाठस्य ग्रहणं कर्तव्यम् ।
  • व्याकरणशास्त्रानुकलस्य छन्दश्शास्त्रसम्मतस्य पाठस्य ग्रहणम् ।
  • सम्पादनसमये सर्वमतस्य नैकेषु हस्तलिखितेषु विभिन्नप्रदेशेषु विशेषतः दक्षिणोत्तरप्रदेशसम्मतस्य बहुमान्यस्य पाठस्य चयनम् ।
  • सरलस्य सुगमस्यापेक्षया कठिनस्य दुर्बोधस्य पाठस्य स्वीकरणम् ।
  • पाठभेदपरिवर्तनस्य स्पष्टीकरणस्य शक्यतास्ति वा इति अवलोकनम् ।
  • पाठमध्ये रिक्तस्थानापेक्षया विचारपूर्वकम् अन्यग्रन्थाधारेण वा किञ्चित् लेखनम् ।
  • असम्बद्धस्य क्वचित् परिवर्तनम्, साधारणतः पाठपरिवर्तनापेक्षया समुपलब्धस्यैव स्पष्टीकरणम् ।
  • लेखकस्य सामान्यानाम् अज्ञातो अथवा कामतः समुद्भूतानां प्रमादानां दूरीकरणम् ।
  • ग्रन्थस्थपाठानां किञ्चित् परिवर्तनार्थं वर्तुलस्य() नवीनभागस्य सन्निवेशनार्थं चतुरस्रस्य [] समुपयोगः कर्तव्यः ।
  • यदा कस्यचित् टीकासहितस्य ग्रन्थस्य सम्पादनं भवति तदा मूलग्रन्थ-टीकांशयोर्विभाजनम् अवश्यं सम्यकतया कर्तव्यम् ।
  • ग्रन्थमध्ये यदि कस्यचित् ग्रन्थस्य ग्रन्थकारस्य वा उल्लेखः भवति, तदा तस्य विशेषतः निर्देशः आवश्यकः ।


पाठान्तरलेखनम्[सम्पादयतु]

विविधेषु हस्तलेखेषु विभिन्नाः पाठाः समुपलभ्यन्ते । पाठनिर्धारणानन्तरं हस्तलिखितेषु परिदृश्यमाना ये अवशिष्टाः पाठाः, तेषां पद्धतिपुरस्सरं सुस्पष्टं सुव्यवस्थितं लेखनं कार्यम् । तत्र न केवलं पाठभेदानाम् अपितु प्रक्षिप्तपाठानां, लुप्तपाठानां, लुप्तांशानां, त्रुटितभागानां, पाठाद्बहिः(Marginal) लिखितांशानां सम्यकतया लेखनं कार्यम् । तत्र पद-पाद-श्लोकादीनां ये केचन भेदाः स्युः, तेषां सूक्ष्मतया लेखनं क्रमेण यथास्थानेऽवश्यं कर्तव्यम् ।

प्रस्तावना[सम्पादयतु]

ग्रन्थसम्पादनप्रविधिः अनुसारं प्रस्तावनायां ग्रन्थस्य ग्रन्थकारस्य च परिचयः प्रदातव्यः । ग्रन्थकारस्य नामधेयं, पितरौ, गुरोर्वा विवरणम् । बाह्यान्तर्गतप्रमाणाभ्यां तस्य समयस्य, निवासस्थानस्य, विद्वत्तायाः, विविधशास्त्राभ्यासस्य विषयकं विवेचनं करणीयम् । ग्रन्थस्य वैशिष्ट्यवर्णनपुरस्सरं तस्य तुलनात्मकः विवेचनात्मकः अभ्यासः प्रस्तोतव्यः । पाण्डुलिपीनां विवरणम्, लेखकस्य समयस्थान-गुणदोषविवरणसहितं वर्णनं च करणीयम् । विविधपाण्डुलिपीनां परस्परसम्बन्धः, तेषां च वंशवृक्षस्य प्रस्तुतिः, विशिष्टानां पाठाभेदानां चर्चा, पाठभेदानां चर्चा, विभिन्नानां प्रक्षेपाणां विचारः इत्यादयः विषयास्तत्र विचारणीयाः ।