चक्रासनम्
पठन सेटिंग्स
चक्रासनं योगासनेषु अन्यतमम् ।
आसनकरणविधिः
[सम्पादयतु]- शवासने शयनं करोतु ।
- जानुतः पादद्वयं पुटीकृत्य, गुल्फद्वयं नितम्बयोः समीपं स्थापयतु ।
- करतलद्वयं मस्तकम् उभयतः स्थापयतु ।
- शनैः शनैः हस्तद्वयं पादद्वयं च दृढतया भूमिं नोदयन् पूरकं कुर्वन् शरीरभागम् ऊर्ध्वदिशि उत्थापयतु ।
- मेरुदण्डः वक्राकारेण भवतु ।
- शरीरं चक्रवत् शोभते ।
- पञ्चनिमेषान् यावत् अस्याम् अवस्थायां स्थित्वा शनै शनैः रेचकपूर्वकं सामान्यावस्थां प्रति आगच्छतु ।
लाभः
[सम्पादयतु]- मणिबन्धः, बाहू च दृढौ भवतः ।
- मस्तकं प्रति रक्तसञ्चालनं सम्यक् भवति ।
- वक्षस्थलस्य पेशीनां, श्वासकोषस्य च सम्प्रसारणत्वात् श्वासक्रिया सुलभा भवति ।