चण्डीदासः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search


कविपरिचयः[सम्पादयतु]

चन्डिदासय (Chandi Das) जन्म १८०५ तमे ईशवीयाब्दे हरियाणाप्रदेशस्य पुन्डरीग्रामे अभवत् । अस्य पितुर्नाम दुर्गादत्तः इति आसीत् । कविः हृदये सरस्वत्याः प्रेरणामनुभूय जयपुरमागच्छत् । तदुक्त्तं तेन-

तदैवान्तरयामिन्य सरस्वत्या हृदिस्थया ।
प्रेरितः पुत्र गच्छ त्वमितो जयपुरं प्रति ॥
तत्र सुन्दरलालेन कृतो भाषाप्रबन्धकः।
राधाकृष्णकलो भूयः कुरु त्वं देवभाषया ॥

जयपुरसेनानायकस्य सुन्दरलालकायस्थस्य साहाय्येन कविः राजसभायां प्रवेशं लब्धवान्। ततशचायं जम्मूनरेशस्य रणवीरसिंहस्य आश्रयं प्राप्तवान् ।

रचनापरिचयः[सम्पादयतु]

कविः त्रीणि महाकाव्यानि राधासुन्दरभक्तिबोध-रामप्रतापोदय-रघुनाथगुणोदयसंज्ञाकानि प्रणीतवान्।

राधासुन्दरभक्त्तिबोधाः[सम्पादयतु]

इदं पौराणिकं महाकाव्यं खण्डद्वयात्मकं वर्तते । उभयत्र क्रमशो नव षट् च अध्यायाः (सर्गाः) सन्ति । अत्र राधा कृष्णयोः पौराणिकं वृत्तान्तं वर्णितम् । महाकव्यस्य लक्षणानुसारम् ॠतुवर्णनादित्वानां समावेशः कृतः ।

रामप्रतापोदयम्[सम्पादयतु]

अस्मिन् महाकव्ये ९ सर्गाः सन्ति । अत्रापि रामकथा भड्ग्यन्तरेण वर्णिता । रामायणमनुसरताऽपि कविना मौलिकवर्णनशक्त्या नवातायाः समावेशः कृतः अस्ति ।

काव्यकला[सम्पादयतु]

चन्डीदासः सुकुमारमार्गस्य कविः । अस्य काव्यशैल्यां रसाभिव्यक्तिपक्षः प्रबलः । अलङ्काराः अपि रसाभिव्यक्तये साहाय्यं कुवन्ति । प्रकृतिचित्राणि प्रायेण सरसानि अलङ्कृतानि च सन्ति । तद्यथा-

नीलपट्टमिदमस्ति नो घटा
नाङ्गयष्टिरिति किं तडिल्लता ।
आननां नवविधुरेष पौर्णिमो
द्यौरियं घृतवपुर्न कामिनि ॥

रात्रिवर्णनं यथा -

नायं राकाशशि किन्तु स्थिता सन्दर्शनाया ते ।
कराग्रे मुकुटे कृत्वा चतुरा रात्रिनायिका ॥

काविना प्रकृतेः आलम्बनोद्दिपनयोः उभयोरपि रूपयोः रमणीयचित्रणि प्रस्तुतानि । अस्य पदयोजना ललिता वर्तते । शैली च प्रसादमाधुर्यगुणन्विता ।

"https://sa.wikipedia.org/w/index.php?title=चण्डीदासः&oldid=395342" इत्यस्माद् पुनः प्राप्तिः