चन्दनेश्वर मंदिर
चन्दनेश्वरशिवमन्दिरं उत्कलराज्यस्य बालेश्वरमण्डलस्य प्रमुखं शिवमन्दिरम् अस्ति ।
वहुवर्ष पूर्वे अस्मिन् स्थाने घञ्च-अरण्यम् आसीत् । पौराणिकगाथानुसारं लछमी नाम्नी काचित् महिला गोचारणार्थं अस्मिन् अरण्ये आगतवती । तस्याः एका धेनुः प्रतिदिनं अरण्यस्य मध्यभागे गत्वा दुग्धप्रदानं करोति स्म । एवं गेहे यदा दुग्धदोहनं भवति, तदा सा दुग्धं न ददाति स्म । बहुकालान्तरं सा (लछमी) अन्वेषणं कृत्वा यदा पश्यति अत्र किमपि विशेषता अस्ति इति विचिन्त्य तत्रैव तपस्यां कृतवती । कलान्तरे देववाणी अभवत्। अह चन्दनेश्वरः महादेवः अस्मि मम पूजा भवतु अत्रैव । तदारभ्य इदानीं पर्यन्तं अत्र महावैभवेन शिवपूजा प्रचलिता अस्ति । प्रतिवर्षं चैत्र मासात् आरभ्यः वैशाख मासपर्यन्तं अत्र चड़कमेला नाम्ना एक महान् पर्वः प्रचलति अस्ति । प्रत्येक सोमवासरे, शिवरात्रौ तथा च अन्यस्मिन् दिने विशेषरूपेण चैत्र मासे लक्षाधिकं भक्ताः सन्यासव्रतः धारयन्ति ।