चौधरी चरणसिंह

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(चरणसिंहः इत्यस्मात् पुनर्निर्दिष्टम्)
चौधरी चरणसिंह
Charan Singh
5th Prime Minister of India
In office
28 July 1979 – 14 January 1980
President Neelam Sanjiva Reddy
Deputy Yashwantrao Chavan
Preceded by Morarji Desai
Succeeded by Indira Gandhi
Minister of Finance
In office
24 January 1979 – 28 July 1979
Prime Minister Morarji Desai
Preceded by Hirubhai M. Patel
Succeeded by Hemvati Nandan Bahuguna
3rd Deputy Prime Minister of India
In office
24 January 1979 – 28 July 1979
Serving with Jagjivan Ram
Prime Minister Morarji Desai
Preceded by Morarji Desai
Succeeded by Yashwantrao Chavan
Minister of Home Affairs
In office
24 March 1977 – 1 July 1978
Prime Minister Morarji Desai
Preceded by Kasu Brahmananda Reddy
Succeeded by Morarji Desai
5th Chief Minister of Uttar Pradesh
In office
3 April 1967 – 25 February 1968
Preceded by Chandra Bhanu Gupta
Succeeded by President's rule
In office
18 February 1970 – 1 October 1970
Preceded by Chandra Bhanu Gupta
Succeeded by President's rule
व्यैय्यक्तिकसूचना
Born Chaudhary Charan Singh
(१९०२-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम १-२३)२३ १९०२
Noorpur, Meerut district, United Provinces of Agra and Oudh, British India
(present-day Hapur district, Uttar Pradesh, India)
Died २९ १९८७(१९८७-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम ५-२९) (आयुः ८४)
New Delhi, Delhi, India
Political party Janata Party (Secular) (1979–1987)
Other political
affiliations
Indian National Congress (Before 1967)
Bharatiya Lok Dal (1967–1977)
Janata Party (1977–1980)
Lokdal (1980–1987)
Spouse(s) Gayatri Devi (died in 2002)
Children 6; including Ajit Singh
Alma mater Agra University

साधना[सम्पादयतु]

सा.श.१९३७ तमे वर्षे फ़ेब्रवरी मासे उत्तरप्रदेशराज्यसभानिर्वचने स्पर्धयित्वा जयं प्राप्तवान् । सा.श.१९३८ तमे वर्षे व्यवसायोत्पन्नविपणीनाम् अधिनियमं राज्यसभायां प्रस्तुतवान् । एषः अधिनियमः सा.श.१९३८ तमे वर्षे मार्चमासस्य ३१ दिनाङ्के देहल्याः हिन्दुस्थानटाइम्स् पत्रिकायां प्रकाशितः । सा.श.१९४० तमे वर्षे ऐदम्प्राथम्येन पञ्जाबराज्ये अन्यराज्येषु च अपि अनुष्ठितम्म् । सा.श.१९५२ तमे वर्षे उत्तरप्रदेशस्य राज्यसभानिर्वाचने जयं प्राप्तवान् एषः करविभागस्य मन्त्री अभवत् । तस्मिन्‌ काले भूस्वामित्वपद्धतिः आसीत् । भूस्वामितायाः पद्धतिं स्थगितवान् तथैव भूसुधारणानियमस्य अनुष्ठानं कर्तुं प्रयत्नं कृतवान् । चौधरीचरणसिंहः तस्य कालस्य प्रधानिना जवाहरलालमहोदयेन यथा उक्तम् आसीत् तथा सोवियतसङ्घरीत्या आर्थिकप्रगतेः मण्डनं कृतवान् ।किन्तु स्वयं कृषिकस्य पुत्रः एषः यः भूम्यां कृषिं करोति सः एव भूस्वामी भवेत् इति विश्वसिति स्म । तस्मिन् काले जवाहरलालनेहरूमहोदयस्य अभिप्रायं कोऽपि न आक्षिपति स्म । अतः चौधरी चरणसिंहः सा.श.१९६७ तमे वर्षे काङ्ग्रेस् पक्षं त्यक्तवान् । सा.श.१९६७ तः सा.श.१९७० पर्यन्तम् उत्तरप्रदेशस्य अल्पकालीनमुख्यमन्त्री आसीत् ।

प्रधानमन्त्री चरणसिंहः[सम्पादयतु]

१९७७ तमे वर्षे यदा काङ्ग्रेस्पक्षः अतिहीनपराजयं प्राप्नोत् तदनन्तरं जनतापक्षस्य सर्वकारः रचितः । जनतापक्षस्य मित्रपक्षेषु अन्यतमस्य भारतीयलोकदलपक्षस्य नायकः चौधरी चरणसिंहः तदा प्रधानमन्त्री भवितुम् योग्यः आसीत् । किन्तु जयप्रकाशनारायणः मोरारजी देसायीवर्यं प्रधानमन्त्रिरूपेण चितवान् । किन्तु जनतापक्षस्य आन्तरिककलहकारणतः मोरार्जी महोदयः १९७९ तमे वर्षे त्यागपत्रं दत्तवान् । श्रीमत्याः इन्दिरागान्ध्याः सूचनानुसारेण चौधरी चरणसिंहः जनतापक्षाय दत्तं सहकारं प्रतिस्वीकृत्य काङ्ग्रेस्पक्षं प्रति दत्तवान् । अतः १९७९ तमे वर्षे जुलै २८ दिनाङ्के एषः ६४ जनानां लोकसभासदस्यानां सहयोगेन भारतस्य पञ्चमः प्रधानमन्त्री अभवत् ।

चौधरी चरणसिंहः महत्या आकाङ्क्षया प्रधानमन्त्री स्थानं प्राप्तवानासीत् । प्रधानमन्त्री सन् इतोऽपि एकं लोकसभाकलापमपि न कृतवानासीत् । तस्य प्रथम लोकसभाकलापः १९८० तमे वर्षे जनवरीमासस्य १५ दिनाङ्के करणीयः आसीत् । तन्निमित्तं बहु सज्जता अपि प्रचलन्ती आसित् । किन्तु दुर्दैववशात् ततः पूर्वदिने एव श्रीमती इन्दिरागान्ध्याः नेतृत्वस्य काङ्ग्रेस्पक्षः चरणसिंहस्य भारतीयलोकदलपक्षात् सहयोगं प्रतिस्वीकृतवान् । १९८० तमे वर्षे जनवरीमासस्य १४ दिनाङ्के स्पष्टबहुमतं प्रमाणीकर्तुम् अशक्यः एषः पदव्याः कृते त्यागपत्रं दत्तवान् ।

१९८७ तमे दिनाङ्के चरणसिंहस्य मरणानन्तरम् एतस्य पुत्रः अजितसिंहः चरणसिंहेन स्थापितस्य भारतीयलोकदलपक्षस्य नायकः अभवत् । चौधरी चरणसिंहः कृषिकजनानां बहु आत्मीयः आसीत् । अतः नवदेहल्यां विद्यमानस्य तस्य स्मारकं 'किसान् घाट्’ इति निर्दिश्य गौरवं प्रदर्शितवन्तः । उत्तरप्रदेशसर्वकारेण एतस्य स्मरणार्थं मीरट् विश्वविद्यालयस्य चौधरी चरणसिंहविश्वविद्यालयः इति पुनर्नामकरणं कृतम् ।

भारतस्य प्रधानमन्त्रिणः
पूर्वतनः
मोरारजी देसाई
चौधरी चरणसिंह अग्रिमः
राजीवगान्धिः
"https://sa.wikipedia.org/w/index.php?title=चौधरी_चरणसिंह&oldid=452201" इत्यस्माद् प्रतिप्राप्तम्