चान्दिपुरम
चान्दिपुरम ( आङ्ग्ल: Chandipur ) अथवा चान्दिपुरसमुद्रतटः ओडिशाप्रदेशस्य बालेस्वरमण्डले स्थितः समुद्रतटः अस्ति । अयं वङ्गोपसागरस्य समीपे बालेस्वर- नगरात् १६ कि.मी दूरे स्थितम् अस्ति । अयं अद्वितीयः समुद्रतटः अस्ति यत्र समुद्रजलं समुद्रतटात् १-४ कि.मी.दूरे गत्वा पुनः आगच्छति । एषा प्रक्रिया दिने द्विवारं भवति । यथा - यदि प्रातःकाले एकवारम् आगच्छति तर्हि द्वादशघण्टानन्तरं पुनः आगच्छति। अस्य कारणात् अत्र बहु जैवविविधता दृश्यते । मिर्जापुरपार्श्वस्थ समुद्रतटे अश्वखुराकृतौ मत्स्यजीवाः दृश्यन्ते । बुढ़ाबलङगनद्याः समीपे एकं स्थानम् अस्ति।यत् बलरामगडी इति नाम्ना ज्ञायते। अत्र मत्स्यसंग्राहकनौकादिस्थानम् अस्ति।
चान्दिपुरनगरे भारतीयसेनायाः गोलाबारूदपरीक्षणकेन्द्रमपि अस्ति ।
भौगोलिकस्थितिः
[सम्पादयतु]चान्दिपुरनगरं उत्तरदिशि 21.47डिग्री, पूर्वदिशि 87.02 डिग्री अक्षांशरेखांशयोः अवस्थितम् अस्ति। अस्य सामान्योन्नोतिः 3 मीटर् (१० फुटम्) ।

पदातिकसेना
[सम्पादयतु]भारतीयसेनायाः परीक्षापरिधिः (ITR) चान्दिपुरनगरे स्थितः अस्ति । इतः आकाशः, अग्निः, शौर्यम्, पृथिवी,ब्रह्मोस् इत्यादीनां अनेकानाम् परमाणु-सक्षम-क्षेपणास्त्रानाम् परीक्षणं कृतम् अस्ति ।
गमनागमनम्
[सम्पादयतु]बालेश्वरतः चान्दिपुरनगरं मार्गेण गन्तुं शक्यते ।भुवनेश्वरतः कोलकाता गमनार्थं यत् राजमार्गमस्ति(5नं), मध्ये वालेश्वरनगरम् आयाति।