चामुण्डिपर्वतः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(चामुण्डीपर्वतः इत्यस्मात् पुनर्निर्दिष्टम्)

निर्देशाङ्कः : १२°१६′२९.१४″ उत्तरदिक् ७६°४०′१४.०४″ पूर्वदिक् / 12.2747611°उत्तरदिक् 76.6705667°पूर्वदिक् / १२.२७४७६११; ७६.६७०५६६७

मैसूरुनगरे विद्यमानः चामुण्डीपर्वतः

चामुण्डीपर्वतः (Chamundi Hills) (३४८९ पादपरिमितोन्नतः) कर्णाटकस्य मैसूरुनगरे विद्यमानः कश्चन पर्वतः । अयं ३४८९ पादपरिमितोन्नतः अस्ति । अस्मिन् प्रदेशे स्थितस्य चामुण्डेश्वरीदेवालयस्य भव्यं शिखरं ६४० मीटर् उन्नतं , २००० वर्षप्राचीनं च । चामुण्डीपर्वतप्रदेशः आकर्षकः अस्ति । एतत् स्थानं पवित्रम् इति प्रसिद्धम् अस्ति । अत्र चामुण्डेश्वरी शक्तिदेवतारूपेण अस्ति । अत्र आगन्तुं १००० सोपानानां पादमार्गः (४.कि.मी मितः) अस्ति । २३ कि.मी. मितः सुसज्जितः वाहनमार्गः च अस्ति । पर्वतमार्गे २६ पादोन्नतः, २५ पादविस्तारवान् कृष्णाशिलायाः बृहन्नन्दीविग्रहः अस्ति । क्रिस्ताब्दे १६६४ तमे वर्षे निर्मितः दर्शनीयः एकशिलानन्दिशिल्पः एषः ।

पर्वते विद्यमाना महानन्दिमूर्तिः
महिषासुरस्य प्रतिमा

बाह्यानुबन्धाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=चामुण्डिपर्वतः&oldid=480293" इत्यस्माद् प्रतिप्राप्तम्