चिदम्बरदीक्षितः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search
शिवचिदम्बरदीक्षितस्वामी
चिदम्बर नमस्तेऽस्तु चिन्तितार्थप्रदायिने।
औदुम्बरसदावास चिदम्बर नमोऽस्तुते ॥

पीठिका[सम्पादयतु]

यथा भगवद्गीतायां श्रीकृष्णः "धर्मसंस्थापनार्थाय सम्भवामि युगे युगे" इति वदन् अस्ति तथा बहवः महात्मानः भारतभूमौ सञ्जाताः भूत्वा धर्मरक्षणं कृतवन्तः सन्ति । एतेषु सत्पुरुषेषु भक्तोद्धारकः श्रीशिवचिदम्बरदीक्षितस्वामी प्रमुखः ।

जननं बाल्यं लीलाश्च[सम्पादयतु]

२५० वर्षेभ्यः प्राक्, सामान्यतः क्रि.श.१७५८ तमे वर्षे बेळगावीमण्डलस्य सवदत्ती-उपमण्डलस्य मुरगोडुसमीपे श्रीक्षेत्रकेङ्गेर्यां कार्तिकषष्ठ्यां श्रीचिदम्बरदीक्षितमहास्वामिनः जन्म अभूत् । एतस्य पिता श्रीमार्ताण्डदीक्षितः, माता श्रीमती लक्ष्मीः । अनयोः दम्पत्योः बहुवर्षाणि यावत् सन्ततिः नासीत् । सन्तानप्राप्त्यर्थं केवलं दूर्वारसस्य सेवनं कुर्वन्तौ द्वादशवर्षाणि यावत् आकाशचिदम्बरक्षेत्रे कठिणतपः आचरितवन्तौ । अस्य प्रतिफलरूपेण श्रीचिदम्बरदीक्षितस्य जन्म अभूत् । श्रीचिदम्बरदीक्षितस्य पूर्वजाः बिजापुरमण्डलस्य गोठे ग्रामवासिनः । तस्मिन् काले पिता मार्ताण्डदीक्षितः ग्रामे महान् तपस्वी इति प्रख्यातः आसीत् । धारवाडमण्डलस्य कृष्णेन्द्रगुरुरिति ख्यातिं प्राप्तवान् अनन्तशास्त्री, सिद्धेश्वरस्वामी च मार्ताण्डदीक्षितस्य वयस्यौ आस्ताम् ।

मुरगोडुग्रामे वसन् मार्ताण्डभट्टः सवदत्ति-उपमण्डलस्य बेडसूरुग्रामस्य जक्कनगौडस्य पुत्रीं लक्ष्मीम् ऊढवान् आसीत् । एतौ दम्पती मुनवळ्ळिग्रामे सोमयागं कृतवन्तौ । अत एव मार्ताण्डभट्टः इति तस्य नाम मार्तण्डदीक्षितः इति अभवत् ।

चिदम्बरः बाल्ये अलौकिकलीलाः कुर्वन् संस्कृताध्ययने पाण्डित्यं प्राप्तवान् । १६८५ वर्षे मार्ताण्डदीक्षितः स्वीयपुत्रस्य उपनयनसंस्कारं सोगलश्रीक्षेत्रे अनेकैः ब्राह्मणवटुभिः साकम् अकरोत् । अस्मात् चिदम्बरः तेजस्वी, वाक्पटुः च अभवत् । चिदम्बरः बाल्ये एव सर्ववेदान्, उपनिषदः, अष्टादशपुराणानि च अधीत्य प्रकाण्डपण्डितः इति प्रसिद्धः अभवत् । शूलनिवारणं, ब्राह्मणसंरक्षणं, कुष्ठनिवारणं, मान्त्रिकस्य गर्वभङ्गं, दारिद्र्यविमोचनं, जलसुवर्णीकरणं, मृतपुत्रसञ्जीवनम् इत्यादिलीलाः श्रीचिदम्बरदीक्षितः तस्य जीवितावधौ कृतवान् अस्ति ।

जीवनम्[सम्पादयतु]

चिदम्बरः १६९७ वर्षे सत्तिगेरी इति ग्रामस्य श्रीलिङ्गोपन्तस्य पुत्रीं सरस्वतीं तथा शेल्लिकेरिग्रामस्य भीष्मप्पस्य पुत्रीं सावित्रीं च ऊढवान् आसीत् । अग्रे श्रीचिदम्बरः आत्मोद्धारेण सह लोकोद्धारकार्यमपि कृतवान् । लोककल्याणार्थं धर्मबोधनकार्यमपि कृतवान् । अन्नदानम् अतिथिसत्कारः च मानवस्य महाधर्मौ इति सः बोधितवान् । लोककल्याणार्थं सः गोण्णागरग्रामे यत् महायज्ञं कृतवान् तदेव एतस्य निदर्शनम् । सर्वधर्मसमन्वयकारः श्रीचिदम्बरदीक्षितः जाति-मत-दरिद्र-धनिकादिभावनया विना सर्वान् लोकान् सन्तुष्य, तेषां कष्टानि परिहृत्य स्वस्य जीवने धन्यथां, सार्थकतां च प्राप्तवान् । एषः अवतारपुरुषः श्रीशिवचिदम्बरदीक्षितमहास्वामी भक्तान्, आराधकान् अथवा यान् कान् अपि दण्डनेन विना तेषां दोषान् शान्तचित्तेनैव परिहरति स्म । पश्चात्तापः एव प्रायश्चित्तः इति सः बोधयति स्म । "पश्चात्तापः एव प्रायश्चित्तः" इति तत्त्वं श्रीचिदम्बरदीक्षितः स्वयमपि अनुसरति स्म । स्वस्य सुललितोपदेशामृतेन जनानां कृते सन्मार्गम् उपद्दिश्य तान् ज्ञानप्रवृत्तान् करोति स्म ।

गरगग्रामस्य मडिवाळप्पः चिदम्बरमहास्वामिनः यज्ञकाले उग्राणाधिपतिः आसीत् । गरगग्रामस्य श्री मडिवाळप्पः, तस्य शिष्याः च, चिदम्बरदीक्षितस्य समकालीनाः । श्रीसिद्धारूढः, अङ्कलगिग्रामस्य अडिवेप्पः, अक्कलकोटेग्रामस्य महास्वामी, पुणेनगरस्य पेश्वाः, पटवर्धनाः, मैसूरुनगरस्य दिवानाः च श्री चिदम्बरदीक्षितमहास्वामिनः शिष्यवर्गे प्रमुखाः आसन् । शृङ्गेर्याः शारदापीठस्य श्रीशङ्करभारती महास्वामी, उडुपीमण्डलस्य श्री भुवनेन्द्रतीर्थः च श्रीचिदम्बरदीक्षितस्य महिम्नः श्लाघनं कृतवन्तौ स्तः । श्रीचिदम्बरदीक्षितस्य लीलानां विषयाः इतिहाससंशोधकस्य वासुदेवशास्त्रिणः लेखनसङ्ग्रहे उल्लिखिताः सन्ति । तस्मिन् काले मिरज् संस्थानस्य (१८०२ वर्षतः १८०६ वर्षपर्यन्तम्) पत्रेषु श्रीचिदम्बरस्य अलौकिकलीलानां विषयस्य सङ्ग्रहाः सन्ति ।

चिदम्बरः जाति-मतानां भेदम् अकृत्वा दीन-दलितानाम् उद्धरणं कृतवान् । तस्य स्पर्शमात्रेण रोगाः परिहृताः भवन्ति स्म । वन्ध्याः सन्तानं प्राप्तवत्यः । दुर्भिक्षे अन्नसन्तर्पणं कृत्वा अन्नपूर्णां हस्तवशां कृतवान् एषः महापुरुषः । सर्वधर्मसमन्वयकारः एषः देवलापुरः, कुसुगल्, कुन्दगोळ, हुब्बळ्ळी, शिरहट्टि, ओक्कुन्द, सत्तिगेरि, हावनूरु, मुनवळ्ळि, असुण्डि, बेटसूरु, अम्मिनभावि, नवलगुन्द, दोडवाड, लक्षेश्वर, धारवाड इत्यादिषु प्रदेशेषु सञ्चारं कृत्वा भक्तानाम् उद्धरणं कृतवान् । पुणेनगरस्य पेश्वाः, पटवर्धनः, गोखले, मैसूरुनगरस्य दिवान् पूर्णय्यमहोदयः च श्रीचिदम्बरदीक्षितस्य प्रभाववलये आसन् ।

गोण्णागारग्रामस्य मलप्रभानद्यः तटे लोककल्याणार्थं श्रीचिदम्बरदीक्षितः कञ्चन महायज्ञं कृतवान् । तदा शृङ्गेरीमठाधीशः श्री शङ्करभारती महास्वामी, उडुपीमण्डलस्य श्री भुवनेन्द्रतीर्थः च अगतवन्तौ । बापू, गोखले, जमखण्डिसंस्थानस्य परशुरामपन्तः, अक्कलकोटेग्रामस्य महाराजाः, अवरादि फलहारेश्वरस्वावमी, गरगग्रामस्य मडिवाळेश्वरः, हुब्बळ्ळीप्रदेशस्य सिद्धारूढस्वामी च अस्मिन् यज्ञे सहभागिनः आसन् । दिनपञ्चकस्य अस्मिन् यज्ञे ३० लक्षजनानां भोजनव्यवस्था आसीदिति अधिकृताधाराः सन्ति ।

सन्तराजारामः चिदम्बरमहास्वामिनः अन्तरङ्गस्य भक्तः आसीत् । सः चिदम्बरदीक्षितम् उद्दिश्य १५१४९९ अभङ्गानि मराठीभाषया रचितवान् । ख्यातः मराठी कविः सुखरामगर्देमहोदयः "श्रीमन्त चरित" इति १५०० पद्यानां काव्यरूपेण ग्रन्थं रचितवान् । प्रख्यातः संस्कृतकविः शिवशास्त्रीमहोदयः, पाच्छापुरस्य भोजराजदेशपाण्डेमहोदयः च चिदम्बरस्य महिम्नः संस्कृतेन कञ्चन उद्ग्रन्थं रचितवन्तौ स्तः । विशेषतया श्रीराजारामः, शिवशास्त्री च चिदम्बरस्य भक्तिप्रकाशे वर्धितवन्तौ । परन्तु तयोः अभिप्रायाः मनोभावाः च परस्परं विरुद्धदिशि आस्ताम् । एकः उत्तरध्रुवः इव अन्यः दक्षिणध्रुवः इव आस्ताम् । सन्तराजारामः श्रीचिदम्बरदीक्षिते विष्णुरूपं दृष्टवान्, शिवशास्त्री तस्मिन् शिवस्य अपरावतारं दृष्टवान् । अभिप्रायेषु द्वाभ्यां भिन्नता आसीत् किन्तु चिदम्बरस्य भक्तिविषये तयोः एकमत्यम् आसीत् । सामान्यगृहस्थः इव जीवनं यापितवान् श्रीचिदम्बरदीक्षितः लोककल्याणार्थम् अलौकिककार्याणि कृत्वा कर्णाटकराज्ये, महाराष्ट्रराज्ये च सञ्चारं कृत्वा अवतारपुरुषः इव ख्यातः अभवत् ।

देहत्यागः[सम्पादयतु]

श्रीचिदम्बरदीक्षितस्वामी शालिवाहनशकवत्सरे १७३७ (क्रि.श.१८१५)तमे वर्षे पुष्यशुक्लचतुर्थ्यां मुरगोडुग्रामस्य केङ्गेर्यां निर्वाणं प्राप्य स्वस्य अवतारं समाप्य, पञ्चमहाभूतेषु लीनः अभवत् ।

श्रीचिदम्बरस्य जीवितावधिः कर्णाटकस्य भगवद्भक्तानां इतिहासे कश्चन सुवर्णाध्यायः इव अस्ति । श्रीचिदम्बरः अद्यापि बेळगावीमण्डले सवदत्ति-उपमण्डलस्य मुरगोडु ग्रामे केङ्गेरीश्रीक्षेत्रे लिङ्गरूपेण भक्तानां मनोकामनाः पूरयन् अस्ति । श्रीचिदम्बरदीक्षितमहास्वामिना प्रतिपादिताः बोधनाः अद्यापि प्रस्तुताः । कर्णाटकराज्ये, महाराष्ट्रराज्ये, आन्ध्रप्रदेशराज्ये च अद्यतनेषु दिवसेष्वपि जाति-मतानां भेदेन विना श्रीचिदम्बरजयन्तीं सम्भ्रमेण आचरन्ति ।

श्रीचिदम्बरदीक्षितस्य ज्येष्ठपुत्रः श्रीदिवाकरदीक्षितः अपि पितुः सदृशं महान् महिमासम्पन्नःअस्ति । प्रथमस्वातन्त्र्यान्दोलने सहभागी भवन् सः सवणूरुग्रामस्य नवाबम् औदुम्बररूपेण दर्शनं दत्तवान् इति इतिहासे आधाराः सन्ति । निराडम्बरजीवनं यापितवान् श्रीचिदम्बरदीक्षितः अन्नदानं, विद्यादानं, अतिथिसत्कारः, एतत् सर्वं मानवस्य मूलधर्माः इति बोधितवान् । इदानीं चिदम्बरजयन्तीं बेळगावी, रायचूरु, हावेरी, दावणगेरे, दुग्गत्ति, बिजापुर, बेङ्गळूरु, मैसूरु इत्यादि नगरेषु, महाराष्ट्र-आन्ध्रप्रदेशराज्येषु च प्रतिवर्षम् आचर्यते ।

मुरगोडुग्रामे केङ्गेरी श्रीक्षेत्रे प्रस्तुतपीठाधिपतिः श्रीशङ्करदीक्षित-इनामदारः अस्य पीठस्य परम्परायां तस्यैव विशिष्टव्यक्तित्वेन आदर्शप्रायः अस्ति । श्रीचिदम्बरदीक्षितमहास्वामिनः महिमां, बोधनाः च अस्मिन् आधुनिकयुगे प्रसारं कृत्वा "श्रीचिदम्बरप्रतिभा" इति त्रैमासिकपत्रिकां प्रारम्भितवान् । अमरसन्देशसदृशं जाति-मतानां भेदेन विना सकललोकानां अतिथिसत्कारः, आदरातिथ्यं च श्रीचिदम्बरदीक्षितस्य जन्मोत्सवदिने प्रचलति । एतदेव तस्य दिनस्य विशेषः अस्ति । एतत् श्रीचिदम्बरतत्त्वानि, ध्येयाः च अद्यतनेषु दिनेष्वपि जाग्रतावस्थायां विद्यन्ते इति दर्शयति ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=चिदम्बरदीक्षितः&oldid=388706" इत्यस्माद् पुनः प्राप्तिः