चेन्नैमण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(चेन्नै मण्डलम् इत्यस्मात् पुनर्निर्दिष्टम्)

चेन्नैमण्डलं (Chennai district) (तमिऴ्: சென்னைமாவட்டம்) तमिऴ्नाडुराज्यस्य मण्डलेषु अन्यतमम् । विस्तारदृष्ट्या इदं मण्डलं लघुतमं, किन्तु जनसान्द्रता अत्रैव अत्यधिका । इदं नगरमण्डलम्, अर्थात्, अस्मिन् मण्डले केन्द्रस्थानम् इति किमपि नास्ति ।

चेन्नैमण्डलस्य प्रविभागाः.
1. एग्मोर्-नुङ्गम्बाक्कम्
2. फ़ोर्ट् तोण्डैयार्पेट्
3. माम्बलम्-गिण्डी
4. मयिलापूर्-तिरुवळ्ळिक्केणिः
5. पेरम्बूरु-पुरसैवाक्कम्.

भौगोलिकम्[सम्पादयतु]

चेन्नैमण्डलस्य विस्तारः १७८.२ चतुरश्रकिलोमीटर् । इदं मण्डलं भारतस्य पूर्वसमुद्रतीरसमभूमौ अस्ति । तमिऴ्नाडुराज्यस्य ईशान्यकोणे कोरमण्डलतीरे इदं मण्डलम् अस्ति । अस्य प्रान्तस्य पूर्वसीमा बङ्गालमहासमुद्रः । उत्तर, पश्चिमे च तिरुवळ्ळूरुमण्डलम् अस्ति । दक्षिणदिशे काञ्चिपुरमण्डलम् अस्ति ।

जनसंख्या[सम्पादयतु]

२०११ तमवर्षस्य जनगणनानुगुणं चेन्नैमण्डलस्य जनसंख्या ४,६८१,०८७ । भारतस्य ६४० मण्डलेषु जनसंख्यादृष्ट्या अस्य मण्डलस्य २७ तमं स्थानम् । मण्डले जनसान्द्रता प्रतिचतुरश्रकिलोमीटर् २६,९०३ अस्ति । २००१-२०११ दशके जनसंख्यावृद्धेः प्रमाणं ७.७७% आसीत् । अस्मिन् मण्डले पुं, स्त्री अनुपातः १०००:९८६, साक्षरताप्रमाणं च ९०.३३% अस्ति । इदं मण्डलं १००% नगरीकृतम् । तमिऴ्नाडुराज्यस्य १३.३०% नगरजनसंख्या चेन्नैमण्डले एव अस्ति । इदं मण्डलं राज्यस्य ‘अत्यन्तं प्रवृद्धं मण्ड्लम्’ इति घोषितम् अस्ति ।

उपमण्डलानि[सम्पादयतु]

चेन्नैमण्डले पञ्च उपमण्डलानि सन्ति –

१) एग्मोर् नुङ्गम्बाक्कम्
२) फ़ोर्ट् तोण्डैयार्पेट्
३) माम्बलम् गिण्डी
४) मयिलापूर् तिरुवळ्ळिक्केणिः
५) पेरम्बूरु पुरसैवाक्कम्

वाणिज्यम्[सम्पादयतु]

फ़ोर्ब्स् पत्रिकानुसारं चेन्नैनगरं विश्वे एव अतिवेगेन वर्धमानेषु नगरेषु अन्यतमम् । भारतस्य फ़ार्चून् ५०० संस्थानां मूलस्थानेषु अस्य नगरस्य चतुर्थं स्थानम् । २४ भारतीयसंस्थानाम् इदं मूलनगरम् । वाहनसङ्गणकतन्त्रांशतन्त्रज्ञानस्वास्थ्य आर्थिकोद्यमाः अत्र प्रवृद्धाः सन्ति ।

भारतस्य वाहनोद्यमे ३०% अस्मिन् नगरे तिष्ठति । ह्युण्डाय्, रेनाल्ट्, निस्सान्, अशोक् लीलाण्ड्, डैम्लर् एजि, क्याटर्पिलर् इन्क्, कोमाट्सु लिमिटेड्, फ़ोर्ड्, बिएम्डब्ल्यु, मित्सुबिशि इत्येतासां संस्थानाम् उत्पादनाकेन्द्राणि चेन्नैनगरे सन्ति । आवडौ स्थितं भारवाहकनिर्माणकेन्द्रं सेनावाहनानि निर्माति । इण्टिग्रल् कोच् फ़्याक्टरी इत्यत्र रैलपेटिकानां निर्माणं भवति । आम्बत्तूरु पाडि औद्यमिकवलये बहूनि वस्त्रोद्यमानि सन्ति । नगरस्य दक्षिणभागे वस्त्रपादरक्षोद्यमानां विशिष्ट-आर्थिकवलयः निर्मितः अस्ति । भारतस्य चर्मण विदेशविक्रयणे ५०% चेन्नैतः भवति ।

बहूनां तन्त्रांशसंस्थानां केन्द्राणि चेन्नैनगरे सन्ति । चेन्नैनगरे विद्यमानां टैडल् पार्क् इत्येतत् एषियाखण्डे एव बृहत्तमम् ऐटि पार्क् इति कथ्यते । विश्ववित्तकोशः, स्टाण्डर्ड् चार्टर्ड् वित्तकोशः, सिटिब्याङ्क् इत्यादयः बहवः वित्तसंस्थाः अपि अत्र केन्द्राणि निर्वहन्ति । इण्डियन् ब्याङ्क्, इण्डियन् ओवर्सीस् ब्याङ्क् इत्येतयोः राष्ट्रियवित्तकोशयोः मूलस्थानं चेन्नै । चेन्नैनगरे पूर्णतया सङ्गणकीकृतं मद्रास् स्टाक् एक्स्चेञ्ज् अस्ति ।

वीक्षणीयस्थलानी[सम्पादयतु]

मेरीना समुद्रः, गान्धी समुद्रः, बेसंट् नगर् समुद्रः, वळ्ळुवर् कोट्टं, अन्ना स्मारकम्, एम्. जी. आर्. स्मारकं, राजाजी निनैवु अल्लं, गान्धी निनैवु अल्लं, अडयार् प्रान्ते प्रानिटोरियं, वण्डलूर् जन्तुप्रदर्शनशालकेन्द्राणि वर्तन्ते।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]


"https://sa.wikipedia.org/w/index.php?title=चेन्नैमण्डलम्&oldid=482130" इत्यस्माद् प्रतिप्राप्तम्