चैतन्‍य महाप्रभु

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
चैतन्य महाप्रभुः

चैतन्य महाप्रभुः (१४८६-१५३४) कश्चन वैष्णवधर्मगुरुः । समाजपरिवर्तयिता च । तेन अधुनातन-बाङ्ग्लादेशः, पश्चिमवङ्गस्य राज्यानि, बिहार्, झार्खण्ड्, मणिपुर, असमप्रदेशेषु कार्यं कृतम् । हरिः सर्वोत्तमः इति प्रतिपादयन्तः गौडीयवैष्णवभक्ताः तस्य अनुयायिनः । वैष्णवभक्तियोगस्य संवर्धने तदीयं पात्रं महत्त्वपूर्णम् आसीत् । भागवतपुराण-भगवद्गीतयोः तत्त्वस्य आधारः तेन आश्रितः । हरे कृष्ण महामन्त्रस्य जपकरणस्य प्रचारः तेन कृतः । संस्कृते तेन शिक्षाष्टकं रचितम् । तस्य अनुयायिनः गौडीयवैष्णवाः तं कृष्णस्य अवतारतूपः इति मन्यन्ते । भागवतपुराणे यथा उक्तं तथा सः राधाराज्ञीभावरूपः कृष्णः इति मन्यते ।

सः गौरवर्णीयः आसीत् इत्यनेन 'गौर' इति नाम्ना, निम्बवृक्षस्य अधः जन्म प्राप्तवान् इत्यतः 'निमै' इति नाम्ना च प्रसिद्धः । तस्य चरित्रविषये बहवः ग्रन्थाः उपलभ्यन्ते । तेषु कृष्णादास कविराज गोस्वामिना लिखितं चैतन्यचरितामृतं, वृन्दावनदसेन लिखितं चैतन्यभागवतम्, लोचनदासेन लिखितं चैतन्यमङ्गलञ्च प्रसिद्धम् । वङ्गभाषया रचितानि एतानि अधुना अन्याभिः भाषाभिः उपलभ्यन्ते ।

जीवनम्[सम्पादयतु]

चैतन्यचरितामृतग्रन्थस्य अनुसारं चैतन्यः १४८६ तमे वर्षे फेब्रवरिमासस्य १८ दिनाङ्के चन्द्रग्रहणदिने पूर्णिमायां जन्म प्राप्नोत् । पितृभ्यां सः 'विश्वम्भरः' इति नामाङ्कितः । तस्य पिता जगन्नाथमिश्रः माता शचिदेवी । चैतन्य द्वितीयः पुत्रः आसीत् । ते पश्चिमवङ्गे नाडियाप्रदेशे नवद्वीपे अवसन् । चैतन्यस्य पितामहः मधुकरमिश्रः मूलतः ओरिस्साराज्यस्य जयपुरप्रदेशीयः । ततः तेन पश्चिमवङ्गं प्रति आगतम् ।

चैतन्यस्य जन्मस्थानम्

तारुण्ये एव चैतन्यः महान् ज्ञानी वादविशारदश्च आसीत् । बाल्यतः एव सः कृष्णजपे नितराम् आसक्तः आसीत् । संस्कृताध्ययने ज्ञानार्जने च सः विशेषतया आसक्तिमान् आसीत् । पितृकार्यनिर्वहणाय गयां प्रति गमनावसरे तेन गुरुः ईश्वरपुरि अमिलत् । तस्मात् सः गोपालकृष्णमन्त्रस्य उपदेशं प्राप्तवान् । एतस्मात् मेलनात् तस्य व्यक्तित्वं नितरां परिवर्तितं जातम् । ज्ञानी सः भक्तरूपेण परिवर्तितः आसीत् । तस्य प्रत्यागमनानन्तरं तं दृष्ट्वा सर्वे आश्चर्यान्विताः अभवन् । अचिरात् सः तत्रत्यवैष्णवसमूहस्य नेता जातः ।

कृष्णभारतीद्वारा संन्यासग्रहणानन्तरं चैतन्यः भगवतः कृष्णस्य नामजपं कुर्वन् आभारतं बहु वारम् आटत् । स्वस्य जीवनस्य अन्तिमानि २४ वर्षाणि तेन ओरिस्सायाः पुरिजगन्नाथक्षेत्रे अयापयत् । ओरिस्सायाः सूर्यवंशी हिन्दुराजः गजपति महाराज प्रतापरुद्रदेवः चैतन्यं साक्षात् भगवतः कृष्णस्य अवताररूपमेव मन्यते स्म । तदीयेषु संकीर्तनमेलासु सोत्साहं भागं वहति स्म । एतेषु एव दिनेषु चैतन्यः देवप्रेम्णा भक्त्या च बहुधा समाधिस्थितौ भवति स्म इति कथ्यते तस्य अनुयायिभिः ।

चैतन्यस्य साम्प्रदायिकानुयायिभिः एवं विश्वस्यते - चैतन्ये उभयव्यक्तित्वम् आसीत् - कृष्णप्रेम्णा मत्तः भक्तः, राधया सह अविनाभावेन युक्तः स्वयं कृष्णश्च । १६ शतकस्य लेखकाः उल्लिखन्ति यत् चैतन्येन कृष्णस्य विश्वरूपदर्शनं स्वयं बहुधा प्रदर्शितं विशेषतया नित्यानन्दप्रभु-अद्वैताचार्ययोः उपस्थितौ ।

उपदेशः[सम्पादयतु]

चैतन्येन 'शिक्षाष्टकम्' इति कश्चन ग्रन्थः संस्कृतेन लिखितम् । तस्य उपदेशस्य सारसङ्ग्रहः 'दशमूलम्' इति कथ्यते । ते -

  1. कृष्णः अन्तिमः परमसत्यस्वरूपः ।
  2. कृष्णः सर्वशक्तः ।
  3. कृष्णः रससागरः ।
  4. जीवाः परमात्मनः पृथग्भूताः भागाः
  5. जीवानां तटस्थावस्थायाः कारणतः जीवाः विषयवस्तुभिः बद्धाः भवन्ति ।
  6. स्वतन्त्रावस्थायां जीवाः विषयवस्तुभिः मुक्ताः भवन्ति ।
  7. जीवाः प्रापञ्चिक
  8. जीवैः निर्मलभक्तिः अभ्यसितव्या ।
  9. निर्मलकृष्णभक्तिः एव परमं लक्ष्यम् ।
  10. कृष्णाशीर्वादः एव प्राप्तव्या निधिः ।
चैतन्यसङ्कीर्तनम्

चैतन्यसम्प्रदायः[सम्पादयतु]

मध्वाचार्यसम्प्रदायेन दीक्षितः चैतन्यः शङ्करसम्प्रदायेन संन्यासं स्व्यकरोत् इति कारणतः तदीयानि तत्त्वानि वैष्णवसम्प्रदायतः भिन्नः इति परिगण्यते । सः ईश्वरपुरिणा मन्त्रोपदेशं केशवभारत्या संन्यासदीक्षां च स्व्यकरोत् । एतौ उभौ अपि शङ्करस्य अद्वैतवादिनौ ।

शिक्षाष्टकं विना चैतन्यमहाप्रभुणा न किमपि लिखितम् । शिक्षाष्टकमपि तेन न लिखितम् अपि तु उक्तम् । तत् केनचित् समीपवर्तिना ध्वनिमुद्रितम् । एतेषु अष्टसु श्लोकेषु गौडीयवैष्णवमतस्य समग्रतत्त्वानि विद्यन्ते । स्वस्य भक्तितत्त्वानां व्यवस्थितक्रमेण उपस्थापनाय तेन षट् अनुयायिनः प्रार्थिताः । ते षड् जनाः अग्रे वृन्दावनस्य षड् गोस्वामिनः इति प्रसिद्धाः । ते - रूपागोस्वामी, सनातनगोस्वामी, गोपालभट्टगोस्वामी, रघुनाथभट्टगोस्वामी, रघुनाथदासगोस्वामी, जीवगोस्वामी । गौडीयवैष्णवतत्त्वानां व्यवस्थितरूपदानाय एते कारणभूताः ।

नरोत्तमदासठाकूरः, श्रीनिवासाचार्यः, श्यामानन्दपण्डितश्च जीवगोस्वामिनः सकाशात् अध्ययनम् अकुर्वन् । ते पश्चिमवङ्गे, ओरिस्सा इत्यादिषु प्रदेशेषु चैतन्यस्य उपदेशस्य प्रचारं व्यापकतया अकुर्वन् । रामचन्द्रकविराजः गङ्गानारायणचक्रवर्ती च प्रचारकार्यम् अकुर्वन् ।

खेतुरि-उत्सवावसरे एदम्प्राथम्येन चैतन्यस्य सर्वे अनुयायिनः एकत्र सम्मिलिताः । तदा नित्यानन्दप्रभोः पत्नी जाह्नवठाकुरानि आध्यक्षम् अवहत् । तादृशेषु उत्सवेषु विभिन्नशाखानाम् अनुयायिनः एकत्र सम्मिलन्ति स्म । अस्मिन् एव समये नित्यानन्द-अद्वैताचार्ययोः शिष्याः विरभद्र-कृष्णमिश्रश्च सम्प्रदायस्य रक्षणाय कौटुम्बिकपरम्पराम् आरब्धवन्तौ । आधुनिकगौडीयसम्प्रदायस्य प्रमुखशाखायाः प्रतिनिधिः अस्ति नित्यानन्दस्य पुत्रः वीरभद्रः । अद्वैताचार्यस्य वंशीयाः अन्ये अनुयायिनश्च वङ्गराज्यस्य ग्रामप्रदेशेषु विशेषपरिश्रमम् अकुर्वन् । चैतन्यस्य युवसहवर्ती वक्रेश्वरपण्डितस्य अनुयायी गोपालगुरुगोस्वामी ओरिस्साराज्ये अन्यां शाखाम् आरब्धवन्तः । सम्प्रदायस्य आन्तरिकपूजाविधानेषु गोपालस्य तच्छिष्यस्य ध्यानचन्द्रस्य च महान् प्रभावः दृश्यते ।

चैतन्यस्य भक्ति-आन्दोलनस्य आरम्भारभ्य हिन्दवः यवनाः च अस्मिन् भागं वहन्ति स्म । अनेन विशालमनोभावेन आकृष्टः भक्तिविनोद ठाकूरः २० तमे शतके स्वस्य गौडीयमठे भक्तिसिद्धान्तसरस्वती संस्थापिता । ए सि भक्तिवेदान्त स्वामी प्रभुपादेन पाश्चात्यदेशं प्रति चैतन्यतत्त्वानि नीतानि । अयं भक्तिसिद्धान्तसरस्वती ठाकुरशाखायाः अनुयायी । भक्तिवेदान्तस्वामी समग्रे जगति चैतन्यस्य उपदेशानां प्रसाराय आन्दोलनम् आरब्धवान् - इस्कान् (International Society for Krishna Consciousness) नाम्ना । सारस्वतगुरवः आचार्याः, गोस्वामीवंशस्य सदस्याः, मथुरा-पश्चिमवङ्ग-ओरिस्सादिषु प्रदेशेषु निवसन्तः भक्ताः, चैतन्ये आदरवन्तः अन्ये च कृष्ण-चैतन्ययोः मन्दिराणि पाश्चात्यदेशेषु २० तमशतकस्य अन्तिमभागे निर्मितवन्तः । २१ तमे शतमाने बह्वीषु शैक्षणिकसंस्थासु विष्णवभक्तिः कृष्णतत्त्वञ्च अध्ययनविषयः जातः अस्ति ।

सांस्कृतिकपरम्परा[सम्पादयतु]

चैतन्यस्य सांस्कृतिकपरम्परा वङ्गराज्ये ओरिस्साराज्ये च दृढमूलं जातमस्ति । तत्रत्य निवासिनः बहवः तं कृष्णस्य अवतारमिति मत्त्वा पूजयन्ति प्रतिदिनम् । वङ्गस्य पुनरुत्थापकः इति कैश्चित् मन्यते । प्रसिद्धभाषातज्ञेन सलिमुल्लखानेन उच्यते - षोडशशतकं चैतन्यदेवस्य एव कालः । वङ्गे आधुनिककालः तदा एव आरब्धः ।' इति ।

बाह्यशृङ्खला[सम्पादयतु]

"http://sa.wikipedia.org/w/index.php?title=चैतन्‍य_महाप्रभु&oldid=250113" इत्यस्माद् पुनः प्राप्तिः