सामग्री पर जाएँ

चोडगङ्गदेवः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
चोडागङ्गदेवेन निर्मितं पराक्रमम्

अनन्तवर्मा चोडगङ्गदेवः (१०७८–११४७ ई.) ओडिशादेशस्य गङ्गवंशस्य प्रतिष्ठिता आ -गङ्गा-गोदावरीपर्यन्तविस्तीर्णस्य विशालसाम्राज्यस्य निर्मिता च इति प्रसिद्धः अस्ति ।तस्य दीर्घे ७० वर्षपर्यन्ते राज्यकालेउत्कलदेशे कला, स्थापत्यं, धर्मः, प्रशासनव्यवस्थां अत्याधिकं विकशितानि अभवन्। [] यद्यपि तस्य शासनकालस्य आरम्भे यौवनस्य कारणेन केचन कष्टानि अभवन् तथापि राज्याभिषेकानन्तरं सः सुसम्मानितः योद्धा इति प्रसिद्धिं प्राप्तवान् । चोडगङ्ग देवः स्वस्य बुद्धिः, साहसः, वीरता च पूर्वतटीय- ओडिशा-देशं जित्वा पूर्वीगङ्गवंशस्य विजयध्वजं उत्थापितवान् । सः गंगासाम्राज्यस्य उत्कल इति नामकरणं कृतवान् ।

वाल्यकालः

[सम्पादयतु]

चोडगङ्गदेवस्य पितुः नाम देवेन्द्रवर्मा राजराजदेवप्रथमः आसीत्। सः आधुनिकान्ध्रप्रदेशे स्थिते कलिङ्गभूखण्डे पूर्वगङ्गवंशस्य विख्यातः राजा आसीत्। तस्य माता राजसुन्दरी चोलवंशस्य प्रख्यातस्य राजकुलदुङ्गराजेन्द्रचोलस्य कन्या आसीत्। मातृपक्षे चोलवंशसम्भवत्वात् पितृपक्षे गङ्गवंशसम्भवत्वाच्च सः "चोलगङ्गः" अथवा "चोडगङ्गः” इति नाम्ना प्रसिद्धः अभवत्।तस्य शैशवकालः अत्यन्तं दुःखमयः आसीत्। ईस्वीसंवत्सरे १०७७ तमे वर्षे पितुः अकालमृत्यौ सति द्विवर्षीयः बालकः चोडगङ्गदेवः ईस्वीसंवत्सरे १०७८ तमे वर्षे पूर्वगङ्गवंशस्य प्राचीनराजधानीं कलिङ्गनगर्यां (आधुनिकमुखलिङ्गम्) सिंहासनम् आरूढः।सः ईस्वीसंवत्सर ११३५ पर्यन्तं कलिङ्गनगर्यां राज्यं अकार्षीत्। तस्मिन् एव वर्षे सः उत्कलदेशस्य राजधानीं कटकनगर्यां स्थानान्तरितवान्। तस्य राज्यव्यवस्था, शासनप्रणाली, कला, स्थापत्यं कीर्तयश्च तेन दत्तेषु बहुषु ताम्रशासनेषु उत्कीर्णेषु शिलालेखेषु च ज्ञायन्ते।चोडगङ्गदेवस्य अभिषेककाले पितृप्राप्तस्य सामाज्यस्य सीमा उत्तरतः ऋषिकुल्यानद्याः आरभ्य दक्षिणतः सिमाञ्चलपर्यन्तं, पश्चिमतः कोशलराज्यात् आरभ्य पूर्वतः बङ्गोपसागरपर्यन्तं विस्तीर्णा आसीत्। अनन्तरं राज्यविस्तारनीतिम् अवलम्ब्य सः स्वराज्यस्य सीमां अतिशयेन विशालं कृतवान्।

राज्यजय अभियान

[सम्पादयतु]

चोडगङ्गदेवः पारङगतःसाम्राज्यनिर्माता, कुशलः योद्धा च आसीत् । स्वस्य शासनकाले सः बङ्गीराज्येन सह उत्कलस्य उपरि आक्रमणं कृत्वा , बङ्गालस्य आक्रमणं कृत्वा दक्षिणकोलस्य कलचुरीणां, सांग्यार्षस्य, चोलराजस्य च युद्धं कृत्वा परमशक्तिशाली साम्राज्यनिर्माता इति स्थापितवान् उत्कलस्य उपरि चोडगङ्गदेवस्य विजयस्य उल्लेखः लिङ्गरा ईस्वीसंवत्सरेजमन्दिरस्य शिलालेखे अस्ति । सैन्यपराक्रमेण सः सम्पूर्णं उत्कलक्षेत्रं मुस्लिम-आक्रमणात् दीर्घकालं यावत् रक्षितवान्, स्वतन्त्रं हिन्दु-राष्ट्रं च स्थापितवान् । चोडगङ्ग देवः अस्य विशालसाम्राज्यस्य शासकः भूत्वा राजधिराज, राजा देमी, परम भट्टरक, त्रिकलिङ्गाधिपतिः गंगा चूडामणि इत्यादयः उपाधिभिः अलङ्कृतः अभवत् ।एवं प्रकारेण चोडगङ्ग देवस्य टङ्काविजयं साम्राज्यनिर्माणकार्यं च उत्कलस्य इतिहासे सदा स्मरणीयं वर्तते ।

शासनं कीर्तिकर्माणि च

  1. "ଚୋଡଗଙ୍ଗ ଦେବ". Indiadivine.org. आह्रियत 12 September 2015. 
"https://sa.wikipedia.org/w/index.php?title=चोडगङ्गदेवः&oldid=497277" इत्यस्माद् प्रतिप्राप्तम्