चोळवंशः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(चोळाः इत्यस्मात् पुनर्निर्दिष्टम्)
चोऴसाम्राज्यमानचित्रम्

भारतस्य दक्षिणदिशि आसन् चोऴानां, पाण्ड्यानां, चेराणां च राज्यानि । उत्तरभारते विद्यमानानि महासाम्राज्याणि पश्चिमतः तथा मध्य-एषियातः निरन्तरं जातानाम् आक्रमणानां कारणतः शिथिलानि अभवन् । तदा भारतस्य कलायाः तथा संस्कृतेः च केन्द्रं फलवत्याः इण्डो-गङ्गाप्रस्थभूमितः दक्षिणदिशि अपसृतम् । तावत् पर्यन्तम् एतानि राज्यानि प्रबलानि न आसन् । परस्परं कलहं कुर्वन्ति स्म । तदनन्तरं क्रमशः एते प्रबलाः अभवन् । कालान्तरे आग्नेय-एषियायाम् अपि राज्यस्थापनम् अकुर्वन् । दक्षिणे ९-१२ शतके महासाम्राज्यम् आसीत् चोऴसाम्राज्यम् । पूर्वतनसाम्राज्यानि इव एते अपि भारते प्रख्यातानि स्मारकाणि निर्मितवन्तः । भारतस्य दक्षिणभागस्य अन्तिमभागे एतेषां साम्राज्यम् आसीत् इति कारणतः एते श्रीलङ्कायाः शासनम् अपि अकुर्वन् । आग्नेय-एष्या-संस्कृतिः एतेभ्यः प्रभाविता अभवत् । एतेषां नौसैन्यम् अत्यन्तं बलयुतम् आसीत् इत्यनेन श्रीलङ्कायाः उपरि, बङ्गालकोल्लि-उपरि च नियन्त्रणम् आसीत् एतेषाम् । एतत् साम्राज्यं शिष्टवान् राजराजचोऴः भारतस्य सर्वोत्तमेषु सम्राजेषु अन्यतमः इति परारिगण्यते ।

"https://sa.wikipedia.org/w/index.php?title=चोळवंशः&oldid=463923" इत्यस्माद् प्रतिप्राप्तम्