च मू कृष्ण शास्त्री

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्
श्री चमू कृष्ण शास्त्री

चमू कृष्ण शास्त्री संस्कृतभारतीसंस्थायाः आरम्भकर्तृषु अन्यतमः । अध्यत्वे सः तस्याः संस्थायाः राष्ट्रियकार्यकारिणीसदस्यः, संस्कृतसंवर्धनप्रतिष्ठानस्य कार्यदर्शी च अस्ति । साहित्यशिक्षणक्षेत्रयोः अस्य महत्तमं योगदानं पुरस्कृत्य २०१७ तमस्य वर्षस्य २५ तमे दिनाङ्के भारतसर्वकारेण अस्मै पद्मश्रीप्रशस्तिः धोषिता । [१]

बाल्यजीवनम्[सम्पादयतु]

चमू कृष्णशास्त्री १९५६ तमे वर्षे जनवरीमासस्य २३ तमे दिनाङ्के कर्णाटकस्य मङ्गलूरुनगरसमीपे विद्यमाने केदिलायग्रामे जन्म प्राप्नोत् । तिरुपतिस्थे राष्ट्रियसंस्कृतविद्यापीठे तेन संस्कृतम् अधीतम् ।

शैक्षणिकक्षेत्रे योगदानम्[सम्पादयतु]

शिक्षणतज्ञः श्री च.मू.कृष्णशास्त्री संस्कृतभाषायाः विस्तृतोपयोगाय प्रचाराय च नवं कमपि मार्गम् अन्विष्टवान् । एतेन विश्वस्य प्रगतिशीलानां राष्ट्राणां मध्ये भारतस्य नागरिकतायाः विशिष्टं स्थानं पुनः प्रतिष्ठापितम् । मानवसमाजे परस्परसौहार्दभावं संस्कृतभाषैव जनयेदिति महोदयः विश्वसिति । पूर्वं व्याकरणाध्यापनपूर्वकं यत् संस्कृतं पाठ्यते स्म तस्य स्थाने सम्भाषणद्वारा संस्कृतस्य शिक्षणमिति नूतनमेकम् अभियानं यशस्वितया निरूपितमनेन । आङ्ग्लादिभाषावत् संस्कृतमपि सम्भाष्यमाणा भाषा यथा स्यात् तथा विधातुं कैश्चित् मित्रैस्सह ‘संस्कृतभारती’ इति संस्थां संघटय्य महान्तं परिश्रमम् ऊढवान् । अधुना भारते सर्वत्र ‘संस्कृतभारती’ बहुमुखं कार्यं निर्वहति । अपि च अमेरिका, केनडा, इङ्ग्लेण्ड्, आस्ट्रेलिया, तथा पश्चिम-एश्यादिषु राष्ट्रेषु सङ्घटनमेतत् प्रबलम् अस्तित्वम् आवहति । महोदयस्य प्रयत्नेन संस्कृतसम्भाषणशिक्षणाय दशदिनात्मकसम्भाषणशिबिराणि आविष्कृतानि । येषु दशसु दिनेषु सरलतया संस्कृतेन वक्तुं सामर्थ्यशालिनः शिक्षार्थिनः भवन्ति । इदानीं यावत् नवतिलक्षाधिकाः जनाः शिबिरं प्रविश्य संस्कृतम् शिक्षितवन्तः इत्ययं नूनम् अभिनन्दनार्हः विषयः । महोदयेनानेन कृतेन प्रयासेन अनेकेषु विश्वविद्यालयेषु महाविद्यालयेषु च संस्कृतस्य संवहनशिक्षणविधानं रूपितम् ।

संस्कृतभाषया चतुर्दशग्रन्थान् रचितवानस्ति शास्त्रिमहोदयः । ‘सरस्वतीसेवा’ इति योजनायां भारतीयानां तथा विदेशीयानां च शताधिकग्रन्थानां संस्कृतेन अनुवादकार्यं प्रचलति । आधुनिकविषयानधिकृत्य लेखान् लेखितुं लेखकान् प्रोत्साहयन् ‘संस्कृतपुस्तकमेला’ ‘साहित्योत्सवः’ च आयोजितौ महोदयेन ।

शिक्षणक्षेत्रे व्यापकतया अनुभवयुतः  श्री च.मू.कृष्णशास्त्री राष्ट्रीयसंस्कृतप्रतिष्ठानस्य तथा अनेकेषां विद्यालयानां मण्डलीषु सदस्यत्वं वहति । दशभ्यः संवत्सरेभ्यः पूर्वं ‘संस्कृतस्य अभिवृद्धये कापि मार्गसूची’ – इति दशवर्षाणां दृष्टिकोनयोजनायाः यः विज्ञप्तिलेखः २०१६ तमे वर्षे केन्द्रसर्वकारेण रचितः तस्य लेखकसमित्याम् सदस्यो भूत्वा कार्यं निरूढवान् शास्त्री ।

श्री च.मू.कृष्णशास्त्री जनप्रियः भाषणकारः । सर्वैः अवगाह्यमानया मनोरञ्जकया शिक्षणात्मिकया सरलया संस्कृतभाषया निरर्गलं प्रभावपूर्वकं च भाषितुं समर्थः । फलापेक्षां विना कार्यं निर्वहणीयम् इति भगवद्गीतासूत्रानुसारं प्रवर्तमानः श्री च.मू.कृष्णशास्त्री अद्य भारते संस्कृतभाषां जनसामान्येषु नीतवानस्ति ।

उत्तरदायित्वानि[सम्पादयतु]

  • राष्ट्रियताडग्रन्थसंस्थायाः कार्यकारिसमितिसदस्यः
  • केन्द्रमानवसम्पन्मूलाभिवृद्धिसचिवालयस्य राष्ट्रियसंस्कृतपरिषदः विशेषसदस्यः
  • राष्ट्रियसंस्कृतसंस्थानस्य निर्वहणसमितेः सदस्यः
  • सोमनाथसंस्कृतविश्वविद्यालयस्य कार्यकारिसमितिसदस्यः
  • देहल्याः लालबहादूरशास्त्री राष्ट्रीयसंस्कृतविद्यापीठस्य कार्यकारिसमितिसदस्यः
  • तिरुपतेः राष्ट्रियसंस्कृतविद्यापीठस्य निर्वहणसमितेः सदस्यः

पूर्वं निरूढानि पदानि[सम्पादयतु]

  • केन्द्रमानवसम्पन्मूलाभिवृद्धिसचिवालयस्य भाषाविभागस्य प्रमुखपरामर्शकः ।
  • भारतसर्वकारस्य संस्कृतवर्षाचरणकेन्द्रसमितेः सदस्यः ।
  • राष्ट्रियसंस्कृतसंस्थानस्य विविधसमितीनां सदस्यः
  • सि बि एस् इ संस्कृतपाठ्यपुस्तकसमितेः सदस्यः ।
  • एन् सि ई आर् टि संस्कृतेन संस्कृतपाठनसमितेः सदस्यः ।
  • यु जि सि सरलसंस्कृतशिक्षणकेन्द्रसमितेः सदस्यः ।
  • भारतसर्वकारस्य केन्द्रीयसंस्कृतमण्डल्याः सदस्यः ।
  • विविधराज्यसर्वकाराणां संस्कृतपाठ्यपुस्तकसमितेः शिक्षकप्रशिक्षणस्य च मार्गदर्शकः ।
  • १९८६ तमे वर्षे ’संस्कृतसङ्गणक’ विषये प्रवृत्ते प्रथमे अन्ताराष्ट्रियसम्मेलने सङ्घटनसमितेः सदस्यः ।

योगदानानि[सम्पादयतु]

  • सरलसंस्कृतसम्भाषणपद्धतेः द्वारा संस्कृतभाषाध्ययनस्य नूतनविधानं परिकल्पितवान्
  • १९८१ तमे वर्षे तेन ’संस्कृतसम्भाषणान्दोलनम् आरब्धम् । १० दिनानां सम्भाषणशिबिराणां द्वारा नवतिलक्षाधिकाः जनाः संस्कृतम् अधीतवन्तः ।
  • १९८३ तमे वर्षे संसद्भवने संसत्सदस्यानां कृते १० दिनात्मकं सम्भाषणशिबिरम् अचालयत् यस्मिन् ज्येष्ठसंसदः एल् के अद्वानि, बलरां जाखड्, करणसिङ्ग् इत्यादयः भागमवहन् ।
  • लक्षाधिकानां संस्कृतशिक्षकाणां प्रशिक्षणे प्रमुखं पात्रं निरवहत् ।
  • १३ पुस्तकानि, शताधिकाः लेखाः च तेन लिखिताः ।
  • संस्कृतग्रामः, संस्कृतगृहम् इत्यादीनां संरचने, देशस्य विविधसंस्कृतसंस्थासु संस्कृतवातावरणस्य निर्माणे महत्तरं पात्रं निरवहत् ।
  • अमेरिकादेशे एस् ए एफ् एल् (विदेशिभाषारूपेण संस्कृतम्) शिक्षणस्य आरम्भकरणे प्रमुखपात्रं निरवहत् ।
  • २०११ तमे वर्षे बेङ्गलूरुनगरे प्रवृत्ते विश्वसंस्कृतपुस्तकमेलायां २०१५ तमे वर्षे उज्जयिन्यां प्रवृत्ते संस्कृतसाहित्योत्सवे प्रमुखसङ्घटकरूपेण कार्यं निरवहत् ।
  • संस्कृतेन ’सम्भाषणसन्देश’नामिका बहुवर्णयुक्ता पत्रिका १९९५ तमे वर्षे तेन आरब्धा । चन्दमामायाः संस्कृतावृत्तेः प्रकाशने महत्त्वपूर्णं पात्रं निरवहत् ।
  • संस्कृतविकिपीडियायाः संवर्धने परिश्राम्यन् अन्तर्जाले संस्कृतभाषाप्रचारे महत्तरं पात्रं निरवहत् ।
  • पत्रालयद्वारा संस्कृतम् इत्येषा योजना १० भाषाभिः या उपलभ्यते तस्य मुख्यभूमिकां निरवहत् ।
  • संस्कृते सर्जनात्मकलेखनानुवादानां वर्धनाय विंशत्यधिकानि कार्यागाराणि तेन समायोजितानि ।
  • अमेरिका, केनडा, इङ्ग्लेण्ड्, आस्ट्रेलिया, नेपाल, यु ए इ, नेदर्लेण्ड्, बेल्जियं थिलेण्ड् देशेषु सर्वकारस्य साहाय्यं विनैव संस्कृतप्रशिक्षणानि आयोजितवानस्ति । तेषु देशेषु संस्कृतपाठनस्य स्वयंसेवागणाः अपि तेन संस्थापिताः ।

प्राप्ताः प्रशस्तयः[सम्पादयतु]

  • १९८५ तमे वर्षे काशीपण्डितपरिषद्द्वारा ’सारस्वतसुधाकर’प्रशस्तिः
  • १९८५ तमे वर्षे अ भा वि पतः ’राष्ट्रिययुवपुरस्कारः’
  • २०१७ तमे वर्षे पद्मश्रीप्रशस्तिः

कृतयः[सम्पादयतु]

  • ज्ञाने धर्मः उत प्रयोगे
  • लाभः उत हानिः
  • निमित्तमात्रम्
  • निमित्तमात्रम् (हिन्दी)
  • परिष्कारः
  • परिवर्तनम्
  • सावधानाः स्याम
  • संस्कृतभारती
  • संस्कृतम् swat विश्लेषणम्
  • संस्करणम्
  • सप्तदशी
  • उत्तिष्ठ ! मा स्वप्त !!
  • वैचारिकम्

टिप्पणी[सम्पादयतु]

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=च_मू_कृष्ण_शास्त्री&oldid=426599" इत्यस्माद् पुनः प्राप्तिः