जडभरतः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search

ऋषभः

पुराणेषु जड भरतस्य कथा संक्षेपरूपेण एवमस्ति। राजा नाभितः राजा ऋषभस्य आविर्भावं भवति। राजा ऋषभस्य शताः पुत्राः भवन्ति येषां भरतः ज्येष्ठमस्ति। भरतव्यतिरिक्ताः अन्ये पुत्राः वैराग्यवृत्तिकाः सन्ति। भरतः एव राज्यस्य भारं गृह्णाति। कालक्रमेण भरतस्य पिता ऋषभः जड अवधूत वृत्तिं वर्तयति। राजा भरतः स्वआयुषः उत्तरकाले तपोरतं भवति। तपःकाले सः मृग्यामनुधावन्तं एकं सिंहं दर्शयति। मृगी स्वप्राणरक्षा हेतु नद्यां कूर्दयित्वा नष्टं भवति, किन्तु ऐणशावकः तस्याः योनितः च्युतो भवति एवं तस्य रक्षा तपस्वी भरतः करोति(भागवतपुराणम् ५.८)। तस्य शावकस्य रक्षाकरणे भरतः अत्यधिकः मग्नं भवति एवं मृत्युकालेपि शावकस्य ध्यानेन अग्रिम जन्मे मृगयोनिमेव जन्मं गृह्णाति। मृगयोनितः सः ब्राह्मणकुले उत्पन्नं भवति। पूर्वजन्मानां स्मरणकारणेन सः जडवत् जीवनं व्यवहरति। एकदा तस्कराः तं मानवबल्या हेतुं गृहीतवन्तः किन्तु भद्रकालीदेवीविग्रह समक्षे आगमनांतरं देव्या तेषां दस्यूनां नाशमभवत्। जडः भरतः सुरक्षितमेवासीत्।

Palanquin (PSF)

ततोपरि भागवत पुराणे रहूगणसंज्ञकस्य सिन्धुसौवीरराज्ञः एवं जड भरतस्य आख्यानस्य आरम्भम् भवति। सौवीरराजः शिबिका वाहनेन इक्षुमती नद्याः तीरे कपिल मुनितः योगस्य शिक्षां गृह्णातुं गन्तुमिच्छति। शिबिकायाः वहनहेतु सौवीरराजः जडं भरतं उपयुक्तं, पीवरं पुरुषं मन्यते एवं तं शिबिकायां योजयति। शिबिकावाहकस्य भरतस्य पादक्रमाः एवंप्रकाराः सन्ति येन शिबिकायाः गतिः तिर्यक्, पृथिव्याः अनुदिशं भवितुं अपेक्षा ऊर्ध्वाधर दिशामनु अधिकमस्ति। अनेन कारणेन सौवीरराजः भरतं धिक्कारयति एवं देहदण्डस्य भयं प्रदर्शयति। अस्मिन् अवसरे जडः भरतः सौवीरराजं आध्यात्मिकं उपदेशं ददाति यत् अयं देहं शिबिका एव अस्ति। अस्मिन् देहरूपी शिबिकायां आत्मा विराजितमस्ति। इत्यादि।

पौराणिकाः कथानकाः भारतदेशस्य कालक्रमानुसारेण इतिहासस्य अंशाः सन्ति अथवा छद्मरूपेण वेदानां आध्यात्मिका व्याख्या सन्ति, अयं अन्तहीन विवादं भवति। यः वैदिक ग्रन्थेषु उल्लिखितमस्ति एवं यः पुराणेषु वर्णितमस्ति, तस्य सामञ्जस्यं केन प्रकारेण भवेत्, अस्मिन् संदर्भे प्रथमतः ऋषभस्य शब्दस्य प्रकृतिः विचारणीयमस्ति। अथर्ववेद ४.३८ मध्ये ऋषभस्य स्वरूपं सूर्यसमेव अस्ति। ऋषभस्य छद्मरूपं ऋक्ष-भः प्रतीयते – यः ऋक्षाणां, नक्षत्राणां, तेषां शक्तीनां भरणं करोति। प्रत्येकः जीवः केनापि प्रकारेण शक्त्याः आदानं – प्रदानं करोति। अतएव सः जीवः ऋषभः संज्ञां गृहीतुं शक्यते। अथर्ववेदस्य सूक्ते ऋषभः अप्सरःसु शक्त्याः भरणं करोति, यथा वृषः गोषु रेतः सिंचनं करोति। एता अप्सरसः ग्लहे, द्यूते लिप्ताः सन्ति। अस्मिन् सूक्ते गवां संज्ञा कर्की अस्ति। तेभ्यः वत्सानां उत्पत्तिर्भवति। स्वाभाविक रूपेण, यथा-यथा ऋषभस्य वीर्यस्य भरणं अप्सरःसु भविष्यति, तथा-तथा द्यूततः अप्सरसः मुक्तिर्भविष्यति। अस्मिन् संदर्भे अयं संभवमस्ति यत् पुराणेषु भरतस्य पिता रूपेण ऋषभस्य यः कथनमस्ति, अत्र ऋषभः श्रुत्याः भागमस्ति एवं भरतः स्मृत्याः भागमस्ति। या ऊर्जा श्रुतितः प्राप्तव्यमस्ति, तस्य भंडारणं स्मृत्या भवति। पुराणेषु सार्वत्रिक रूपेण उल्लेखमस्ति यत् ऋषभस्य पर्वतस्य स्थितिः मेरोः दक्षिण दिशायां अस्ति। केवलं कथासरित्सागरे एव उल्लेखमस्ति यत् ऋषभः प्रथमतः कैलासस्य दक्षिणप्रदेशस्य आधिपत्यं प्रापयति एवं तत्पश्चात् उत्तरभागस्य आधिपत्यमपि। पौराणिक भाषायां कैलासस्य उत्तर दिशा भरतस्य राज्यस्य संकेतमस्ति।

संगीतशास्त्रे सप्तस्वरेषु द्वितीयं स्वरः ऋषभः अस्ति। अस्य स्वरस्य विषये कथनमस्ति यत् अस्य प्रभावक्षेत्रः मज्जाधातु, शाकदेशमस्ति। कुलीरः(कर्कटः) अस्य विश्रामं अस्ति। अनेन कथनेनापि ऋषभस्य श्रुत्याः सम्बन्धस्य पोषणं भवति। कर्कः प्रतिध्वन्याः क्षेत्रमस्ति यस्य स्वामी भरतः अस्ति।

भागवत पुराणे ५.५.१९ ऋषभ शब्दस्य निरुक्तिकरणे कथनमस्ति यत् यः अधर्मं पृष्ठे करोति, सः ऋषभः अस्ति। अस्मिन् संदर्भे वाङ्मये वृषभस्य दानावसरे वृषभस्य विभिन्नांगेषु न्यासस्य निर्देशमस्ति। यथा – वृषभस्य मुखोपरि सेतुसाम्नः विनियोगमस्ति –

सेतुसाम्नो विशोक ऋषिस्त्रिष्टुप्छन्दः परमात्मा देवता मुखे न्यासे विनियोगः। हाउ३। सेतूँस्तर।३। दुस्त। रान्।३। दानेनादानम्।३। हाउ।३। अह मस्मिप्रथमजाऋता२३स्या३४५। हाउ।३। सेतूँस्तर।३। दुस्त।रान्। ३। अक्रोधेन क्रोधम्। २। अक्रोधेन क्रोधम्। हाउ। ३ ।पूर्वं देवेभ्यो अमृतस्य ना२३मा३४५। हाउ। ३। सेतूँस्तर। ३।दुस्त। रान् ।३। श्रद्धयाश्रद्धाम्। ३। हाउ। ३। योमाददाति सइदेवमा२३वा३४५त्। हाउ३। सेतूँस्तर। ३। दुस्त। रान्। ३। सत्येनानृतम्। ३। हाउ।३। अहमन्नमन्नमदन्तमाऽ२३द्मी३४५। आउ२हाउवा। एषागतिः।३। एतदमृतम्।३। स्वर्गछ।३। ज्योतिर्गछ।३। सेतूँस्तीर्त्त्वाचतुराऽ२३४५ः। एवंप्रकारेण वृषभस्य अंगे – अंगे यदा धर्मस्य प्रतिष्ठां भवति, तदा नैसर्गिक रूपेण अधर्मः पृष्ठे भविष्यति। अतएव, ऋषभस्य साधना व्यावहारिक साधना अस्ति।

ऋग्वेदस्य त्रयाणां सूक्तानां ऋषिः ऋषभः वैश्वामित्रः अस्ति। अस्य कथनस्य कः उपयोगं भवितुं शक्यते, अयं विचारणीयः।

सम्बद्धाः लेखाः[सम्पादयतु]

संदर्भाः[सम्पादयतु]

ऋषभोपरि पौराणिक संदर्भाः

"https://sa.wikipedia.org/w/index.php?title=जडभरतः&oldid=424860" इत्यस्माद् पुनः प्राप्तिः