जयतु संस्कृतम् आन्दोलनम्
जयतु संस्कृतम् आन्दोलनं नेपालस्यैतिहासिक सांस्कृतिक राजनीतिकश्चान्दोलनम्। रानीपोखरी संस्कृतपाठशालाया तीनधारासंस्कृतपाकशालानाम्ना छात्रावासात् उत्थित एतत् आन्दोलन[१] [२] २००४ विक्रमाव्द आन्दोलनम् तथा राणाशासन पतनकारणं असृज्यत्। एतत्प्रभावादेव २००७ विक्रमसंवत्सरे (१९५१ ख्रिस्ताव्दे) नेपाले प्रजातन्त्र स्थापितं। [३]
पुरा नेपालदेशे जनाः ग्रामेग्रामेस्थिता गुरुकुलं गत्वा पठन्तिस्म । राणाशासनकाले शिक्षावस्था सम्यक नासित्। यदा जना पठन्ति चेत् ते ज्ञानी भवन्ति तदा एकतन्त्रीय राणाव्यवस्थाया विरोध कुर्वन्ति इति तेषां संशय। अतएव ते पाठशाला स्थापनाय व्यवधानं कुर्वन्तिस्म तथापि जनाः यत्नेन, इच्छाबलेन च देशस्य अनेकस्थाने कानिचन संस्कृतपाठशालाः स्थापिताः। तान्मध्ये श्री ३ धीरशम्शेरेण १९३४ विक्रमाव्दे स्थापिता रानीपोखरी संस्कृत पाठशालायाम् संस्कृतं तदन्तर्गतान् नैकाविषयांश्च पठन्ति स्म जनाः। उपलब्धता प्यत्र कारणं विभावनीयम् । तत्र भूगोलेतिहासगणितार्थशास्त्रादिविषया नान्तर्भवन्ति स्म । तदानीन्तनो नेपालसर्वकारःविषयानिमान् पाठ्यक्रमे सन्निवेश्य तान् न सम्बोधयति स्म । साधारणीमिमामपि याच्ञां पूरयितुं नेच्छति स्म राणासर्वकारः। तेषां व्यवस्थार्थं वि.सं.२००४ वत्सरे श्रीभद्रशर्मा अच्युतराज रेग्मी राजेश्वर देवकोटाप्रभृतिभिः जयतु संस्कृतमितिनाम्ना आन्दोलनं प्रारब्धम् । स समय उपनिवेशावसानस्य अधिनायकतानिरासस्य चानुकूलःसमय आसीत् । अयमपि तदान्दोलने कारणतामभजत् ।
सन्दर्भसूची
[सम्पादयतु]- ↑ सर्वकार एवं विकास पठन, भाग २ (in English). Institute of Governance and Development. 2002. p. 27. ISBN 9789994688005. आह्रियत 6 December 2018.
- ↑ गौतम, राजेश (5 January 2005). नेपाली कांग्रेस. Adroit Publishers. pp. 138–140. ISBN 978-8-187-39261-3.
- ↑
देवकोटा, प्रा.डा. विष्णुप्रसादशर्मा (15 June 2025). "जयतु संस्कृतदिवसे तस्य सिंहावलोकनम्". नयाँ नेपाल (काष्ठमण्डप: गोरखापत्र संस्थानम्). Unknown parameter
|access-date=ignored (help)