जयन्त्युत्सवाः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
हिन्दुधर्मः

हिन्दुधर्मःइतिहासः

Portal:Hinduism

प्रवेशद्वारम्:सनातनधर्मः
प्रवेशद्वारम्:सनातनाध्यत्मिकप्रवेशः

उत्सवाचरणं जगति सर्वत्र अस्ति एव । जगतः सर्वेषु अपि देशेषु विभिन्नान् उत्सवान् आचरन्ति । अतः एव कविकुलगुरुः कालिदासः “उत्सवप्रियाः खलु मनुष्याः” (शाकुन्तलम् – ६ अङ्के) इति उक्तवान् । भारतीयानां तु ’पर्व’ इत्येतत् जीवनस्य अविभाज्यम् अङ्गम् एव । वर्षपूर्णम् आचरणार्थम् अपि अपेक्षितसंख्याकाणि पर्वाणि सन्ति अस्माकं भारतदेशे । एतत् भारतस्य एव वैशिष्ट्यम् । जगति अन्यस्मिन् कस्मिन् अपि देशे एतावन्ति पर्वाणि न आचर्यन्ते । एतेषां सर्वेषाम् अपि पर्वणां सामाजिकी, पौराणिकी, अध्यात्मिकी वा पृष्ठभूमिका भवत्येव । पर्व इत्येतस्मिन् एव अर्थे उत्सवः, महः, उद्धवः, क्षणः, जन्ममहः इत्यादयः बहवः शब्दाः प्रयोगे सन्ति । एतानि पर्वाणि चतुर्धा विभक्तुं शक्यन्ते –

धार्मिकपर्वाणि
राष्ट्रियपर्वाणि
जयन्त्युत्सवाः
प्रादेशिकपर्वाणि इति ।

अत्र धार्मिकपर्वाणि प्रादेशिकपर्वाणि च तत्सम्बद्धाः केवलम् आचरन्ति । राष्ट्रियपर्वाणि धर्म-प्रदेशादि भेदं विना भारतवासिनः सर्वेपि आचरन्ति । उदाहरणार्थं – स्वातन्त्र्यदिनाचरणं, गणतन्त्रदिवसः इत्यादीनि । कतिपयान् जयन्त्युत्सवान् अपि धर्म-प्रदेशादिभेदं विना भारतवासिनः सर्वेपि आचरन्ति । उदाहरणार्थं - गान्धिजयन्ती । ऐक्य-स्नेह-धर्मबुद्धीनां वर्धनेन सह दैहिक-मानसिक-आरोग्यवृद्धिः, शान्तिः, इन्द्रियनिग्रहादिद्वारा श्रेयःसाधनमेव एतेषां सर्वेषां पर्वणां मूलोद्देशः । जयन्त्युत्सवाः नाम जयन्त्यः । जयन्ती इत्युक्ते जन्मदिनम् इति अर्थः । अस्माकं सुखमयजीवनार्थम् अपेक्षितस्य सर्वस्यापि व्यवस्थां कृतवद्भ्यः पूर्वजेभ्यः, प्रकृतेः, देवेभ्यः च कृतज्ञतासमर्पणं भवेत् । तदर्थं तेषां तन्नाम पूर्वजानां देवानां वा जन्मदिनम् अस्माभिः आचरणीयम् । तादृशानि कानिचित् जन्मदिनानि (जयन्त्यः) -

१ श्रीरामनवमी – चैत्रशुक्लनवमी ।
महावीरजयन्ती – चैत्रशुक्लत्रयोदशी ।
हनुमज्जयन्ती- चैत्रपूर्णिमा ।
अक्षयतृतीया – वैशाखशुक्लतृतीया ।
नृसिंहजयन्ती – वैशाखशुक्लचतुर्दशी ।
बुद्धजयन्ती – वैशाखपूर्णिमा ।
गुरुपूर्णिमा – आषाढपूर्णिमा ।
गोकुलाष्टमी – श्रावणकृष्ण-अष्टमी ।
गुरुनानाकजयन्ती – कार्त्तीकपूर्णिमा ।
१० दत्तात्रेयजयन्ती – मार्गशीर्षपूर्णिमा ।
११ विवेकानन्दजयन्ती - जनवरी १२
१२ बसवजयन्ती - वैशाखशुक्लतृतीया
१३ कनकदासजयन्ती
१४ येसुक्रिस्तजयन्ती (क्रिस्मस्) - डिसेम्बर् २५ तमे दिनाङ्के ।
१५ पैगम्बरजयन्ती

एताः विहाय अपि राष्ट्रियपर्वत्वेन घोषिताः जयन्त्यः सन्ति । ताः जयन्त्यः राष्ट्रियपर्वरूपेण आचर्यन्ते -

गान्धिजयन्ती
नेहरुजयन्ती - बालदिनम्
राधाकृष्णन् जयन्ती -शिक्षकदिनम्
सुभाषचन्द्रबोसजयन्ती - नेताजीजयन्ती
अम्बेड्करजयन्ती
सद्भावनादिनम्
हुतात्मदिनम् - सर्वोदयदिनम्
लालबहादुरशास्त्रिजयन्ती

एषा आवलिः केवलं साङ्केतिकी । एतावन्ति एव पर्वाणि इति न । अञ्जलौ प्रासाददर्शनम् इव एवम् आवलिरचना शक्यते इति अत्र दर्शितं तावदेव । एताम् इतोऽपि दीर्घीकर्तुमपि शक्नुवन्ति । यतः पूर्वमेव उक्तम् आवर्षम् प्रतिदिनम् अपि आचरणार्थम् अपेक्षितसंख्याकाणि पर्वाणि सन्ति अस्माकं भारतदेशे

"https://sa.wikipedia.org/w/index.php?title=जयन्त्युत्सवाः&oldid=421864" इत्यस्माद् प्रतिप्राप्तम्