सामग्री पर जाएँ

जानकीमन्दिरम्, नेपालदेशः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

फलकम्:सीता समग्रइयं पृष्ठः हिंदूसीतादेव्या सम्बंधिता अस्ति ।

जानकीमन्दिरं नेपालदेशस्य जनकपुरस्य केन्द्रे स्थितं हिन्दुमन्दिरं ऐतिहासिकस्थलं च अस्ति | अयम् मन्दिरम् सीतायाः समर्पिता अस्ति ।मन्दिरस्य वास्तुकला हिन्दु- राजपूतवास्तुकला अस्ति , नेपाले राजपूतवास्तुकलायां महत्त्वपूर्णम् उदहरणम् अस्ति, जनकपुरधाम् इति नाम्ना अपि प्रसिद्धम् अस्ति | अस्य मन्दिरस्य क्षेत्रफलं ४,८६० वर्गफीट् अस्ति । अस्य निर्माणं १८९५ तमे वर्षे आरब्धम्, १९११ तमे वर्षे सम्पन्नम् । [] मन्दिरसङ्कुलस्य अन्तः परितः च ११५ सरोवराणि, तडागाः च सन्ति । येषु गङ्गसागरः, परशुरामकुण्डः, धनुषसागरः च पवित्रतमाः इति मन्यन्ते । []

इतिहासः

[सम्पादयतु]

मध्यभारतस्य टीकमगढस्य राज्ञी वृषभानुकुमारी इत्यनेन १९११ ई. तमे वर्षे जानकीमन्दिरस्य निर्माणं कृतम् | तस्य निर्माणे तस्मिन् समये नवलक्षरूप्यकाणां व्ययः अभवत् । अस्य कारणात् स्थानीयजनाः नौलखामन्दिरम् इति अपि वदन्ति ।

१६५७ तमे वर्षे अत्र सीतादेव्याः सुवर्णप्रतिमा प्राप्ता । आख्यायिकानुसारं विवाहात् पूर्वं सीता अत्रैव निवसति स्म । कथ्यते यत् एतत् स्थानम् एकेन बैरागिना शूरकीषोरदासेन आविष्कृतम्, यः सीतायाः प्रतिमाम् अवाप्तवान् । वस्तुतः शूरकिशोरदास बैरागी आधुनिकजनकपुरस्य संस्थापकः अपि आसीत् । अयं साधुः सीतापूजया (सीताउपनिषत् इति अपि प्रसिद्धः) ज्ञानं प्रदत्तवान् । अस्मिन् एव स्थाने राजा जनकः शिवधनुषः ध्यानं कृतवान् इति विश्वासः अस्ति । सम्प्रति अस्मिन् मन्दिरे रामानन्दी सम्प्रदायस्य बैरागीसाधूनां प्रधानता वर्तते, यस्य महन्तः श्री रामतापेश्वरदासवैष्णवजी अस्ति ।

चित्रगृहम्

[सम्पादयतु]

सन्दर्भाः

[सम्पादयतु]
  1. "नेपालक्लुब्बेन पर जानकी मन्दिर". Archived from the original on 25 फ़रवरी 2014. आह्रियत 12 अगस्त 2014.
  2. "नॅचुरल नेपाल पर जनकपुर". Archived from the original on 12 अगस्त 2014. आह्रियत 12 अगस्त 2014.

अपि द्रष्टव्यम्

[सम्पादयतु]

बाह्यलिङ्काः

[सम्पादयतु]