जाम्बुवतीविजयम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(जाम्बुवतीविजयम् काव्यम् इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search


प्रस्तावना[सम्पादयतु]

विरलतया शास्त्रकृतोऽपि कवयः वर्तन्ते । तादृशेषु शास्त्रकृत्कविषु पाणिनिरपि अन्यतमः । येन अष्टाध्यायीति व्याकरणशास्त्रस्य सूत्रग्रन्थः व्यरचि तेनेदम् जाम्बुवतीजयम् अथवा जाम्बुवतीविजयम् इति काव्यम् अतन्यत इति विद्वदुदन्तः । एवम् शास्त्रकारः पाणिनिः कविरपि आसीत् इति प्राचीनैः साहित्यविमर्शकैः अभिहितम् । यथा-

स्वस्ति पाणिनये तस्मै यस्य रुद्रप्रसादतः ।
आदौ व्याकरणं काव्यम् अनुजाम्बुवतीजयम् ॥

इति राजशेखरः स्वग्रन्थे वदति ।

प्रस्तुतयः[सम्पादयतु]

रुद्रटस्य काव्यालङ्कारग्रन्थस्य व्याख्यानकर्ता नेमिसाधुः पाणिनेः महाकाव्यात् जम्बुवतीजयात् उदाहरणम् उद्धरति यथा- 'सन्ध्यावधूं गृह्य करेण इति श्लोकपादम्,

गतेऽर्धरात्रे परिमन्दमन्दं गर्जन्ति यत् प्रावृषि कालमेघाः ।
अपश्यती वत्समिवेन्दुबिम्बं तच्छर्वरी गौरिव हुङ्करोति ॥

इति श्लोकं च उदाहृत्य तत्कालीना कवयोऽपि असाधुप्रयोगान् प्रयुञ्जते स्म इति प्रत्यपादयत् । अयमेव श्लोकः वल्लभदेवस्य सुभाषितावली ग्रन्थे दृश्यते । महावैय्याकरणेन पाणिनिना नैतादृशा अपशब्दप्रयोगाः कृताः स्युः, पाणिनिनामा कश्चन अन्यः स्यात् इत्यपि कतिचन अभिप्रयन्ति । जाम्बुवती विजयम्, काव्यस्य पातालविजयम् इति नामान्तरमात्रम्, नतु काव्यान्तरम् इति केषाञ्चन मतम् । एतदपि सत्यमिति भाति, यतः पातालविजयम् इति नाम्नः औचित्यं जाम्बुवतीजयस्य एव विद्यते इति कथया भासते ।

कालः[सम्पादयतु]

पाणिनिः कृशाश्वपुत्रस्य देवलस्य प्रपौत्रः । पतञ्जलेः सर्वे सर्वापदेशाः दाक्षीपुत्रस्य पाणिनेः इति महाभाष्यकारिकायाः अवगम्यते यत् पाणिनेः मातुः नाम दाक्षीति । अष्टाध्याय्याः यास्कादिभ्यो गोत्रे २/४/६३ इत्यस्मात् सूत्रात् पाणिनिः यास्काचार्यादपि प्राक्तनः इति स्प्ष्टतया ज्ञायते । क्रिस्तोः पूर्वे सप्तमे शतमाने पाणिनिः आसीदिति विद्वांसः अभिप्रयन्ति । महाभाष्य रचनाकाले पाणिनेः नाटकानि रङ्गेषु प्रयोज्यन्ते स्म । अतः अष्टाध्याय्याः रचनायाः पूर्वं पाणिनिः कानिचन नाटकानि व्यरचयदिति चिन्तकाः आमनन्ति । अतः क्रिस्तोः पूर्वं ७तमे शतमाने इदमपि काव्यम् पाणिनिना विरचितमिति ऊहितुं शक्यते ।

कथा[सम्पादयतु]

कविः महाभारतात् कथां स्वीकृत्य काव्यमिदम् रचयति । स्यमन्तकमणिप्रसङ्गे श्रीकृष्णः पाताललोकं गत्वा कथङ्कारम् जाम्बुवतीम् अलभत? इत्येव कथावस्तु । मे.बर्नल् महाशयः वदति यत्- कृष्णराजनामा कश्चन कविः ’जाम्बुवतीकल्याणम्’ इति नाटकम् व्यधात् , तत्रापि एषैव कथा प्रयुक्तेति । अपि च कंसवधः बलिबन्धः एते द्वे नाटके पाणिनिना विरचिते अभवताम्, इति पातालविजयनाटके प्रोक्तम्, तथा च पतञ्जलेः काले द्वेऽपि नाटके सौभिकैः रङ्गे प्रयुज्येते स्म" इति महाभाष्यात् अवगम्यत इति टि.एस्.नारायणशास्त्रिमहोदयः उक्तवन्तः इति ’कविचरित’ नाम्नि कन्नडभाषायाः पुस्तके मया पठितम् । पाणिनीयाः इति नामोल्लेखनेन सह दृश्यमानानि कानिचित् पद्यानि सदुक्तिकर्णामृते, वल्लभदेवस्य सुभाषितावलौ क्वचित् अन्यान्यग्रन्थेषु च द्रष्टुं लभ्यन्ते । तथापि अष्टाध्यायीमतिरिच्य पाणिनिना अन्योऽपि ग्रन्थः रचित इति तत्र तत्र प्राप्तैः कैश्चित् श्लोकैरेव निर्णेतुं न शक्यते । तथापि अमरकोशटीकाकृता मुकुटेन स्वग्रन्थे जाम्बुवतीविजयकाव्यस्य पद्यैकदेशा उदाहृताः, यथा- पयःपृषन्तिभिः स्पृष्टा वान्ति वाताः शनैः शनैः: स पार्षदैरम्बरमापुपूरे; इति जाम्बुवत्यां पाणिनिः इति ।

"https://sa.wikipedia.org/w/index.php?title=जाम्बुवतीविजयम्&oldid=372372" इत्यस्माद् पुनः प्राप्तिः