जीवन्मुक्तिविवेकः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search


जीवन्मुक्तिविवेकः[सम्पादयतु]

लभ्ध्वा कथञ्चिन्नरजन्म दुर्लभं तत्रापि पुंस्त्वं श्रुतिपारदर्शनं ।
यस्त्वात्ममुक्त्यै न यतेत मूढधीः स ह्यात्महा स्वं विनिहन्त्यसद्ग्रहात् ॥

संन्यासः[सम्पादयतु]

भारतीयपरम्परानुसारेण संन्यासः द्विविधो भवति -

विविदिषासंन्यसः
विद्वत्-संन्यासः च ।

१.विविदिषासंन्यासः : सत्यदर्शनेच्छया केचन संन्यासं स्वीकरोति तत् विविदिषासंन्यसम् इति विवक्ष्यते। ज्ञातुम् इच्छा इत्येव विविदिषापदस्य अर्थः । २.विद्वत्संन्यसः : सत्यस्य साक्षात्करणानन्तरं सर्वं त्यक्त्वा केचन संन्यासं स्वीकरोति तादृशं संन्यसं विद्वत्संन्यसम् इति मन्यते । उभयोः संन्यासयोः स्वरूपः व्यक्ततया ज्ञातव्यमेव । संन्यास इत्युक्ते सम्यक् न्यासः । न्यासॊ नाम त्याग इत्यर्थः । जिज्ञासया तितिक्षया च सह योऽमृतं प्राप्तुमीहते, ज्ञातुमीष्टे च स संन्यासी ।

मुक्तिः[सम्पादयतु]

मुक्तिः अपि द्विविधो भवतः - विदेहमुक्तिः जीवन्मुक्तिः च । अत्र विविदिषासंन्यासं विदेहमुक्तेः एवं विद्वत्संन्यासं जीवन्मुक्तेः अपि कारणं भवतः ।

वैराग्यम्[सम्पादयतु]

वैराग्यमेव संन्यासस्य मुख्यं कारणम् । यदा विरक्तिर्भवति तदा गृहं त्यक्त्वा गन्तव्यम् इति बृहदारण्य्कोपनिषत् वदति । वैराग्यं तीव्रवैराग्यं तीव्रतरवैराग्यम् इति द्विविधम् । वैराग्यभेदाः पुराणेषु प्रतिपाद्यन्ते , तीव्रवैराग्येण संन्यासीभूत्वा कुत्रचित् पत्येकस्थाने ब्रह्मध्याननिरतः सन् यः संन्यासी वसति सः 'कुटीचः’ इति कथ्यते । कुट्याम् अथवा पर्णशालायां वसति इति करणादेव नाम कुटीचः इति मन्ये । शारीरिक शेषि अस्ति चेत् तीव्रवैराग्यसंन्यासी ब्रह्मध्याननिरतः सन् पुण्यक्षेत्रेषु तीर्थस्थानेषु अटन् जीवति । तादृशः संन्यासी 'बहूदः’ इति नाम्नि आहूयते । बहुतीर्थस्थनानि गम्यते इति कारणात् स्यात् बहूतः इति नाम ।

तीव्रतरवैराग्यं प्राप्तवान् भवति हंस: । हंसः समाधिपरिपक्वतां प्राप्य साक्षात् ज्ञानस्वरूपे सत्ये यदा बुद्धिः दृढः भवति तदा सः परमहंसः भवति । पत्नी पुत्रः धनं वा यदा लुप्तं भवति तदा केचन संसारबन्धेषु तात्कालिकविरक्तिं प्राप्नुवन्ति । तदेव मन्दवैराग्यम् अस्मिन् जन्मनि पुत्रदारादिबन्धाः मह्यं मास्तु एव इत्येषः दृढः निःश्चयः एव तीव्रवैराग्यस्य लक्षणम् । पुनर्जन्मकारणतः किमपि लोकसुखं मह्यं न आवश्यकं इति दृढविश्वासेन स्वर्गादि सुखमपि यः निःस्सारं पश्यति तादृशं वैराग्यं तीव्रतरवैराग्यम् इति मन्न्यन्ते । मन्दवैराग्ययुक्तः संन्यासार्थम् अधिकारी नस्ति एव ।
तीव्रविरागी तस्य शारीरकशक्तिम् अनुसृत्य द्विविधं संन्यासं प्राप्नोति । एवमेव 'कुटिचः' 'बहूदः ’ । उभौ अपि त्रिदण्डी भवतः । शरीरं मनः वाक् - इत्येतैः मुक्तः इत्येतस्य प्रतीकात्मकमेव त्रिदण्डः ।
तीव्रतरविरागिरपि द्विविधं - हंस: परमहंसः च इति । हंसः शरीरस्य पतनान्तरं देवयानमार्गेण ब्रह्मलोकं प्राप्य पूर्णरूपेण सत्यसाक्षात्कारी भविष्यति । परमहंसः अत्रैव ब्रह्मस्वरूपं प्राप्य जीवन्मुक्तः भवति । एतयोः स्वभाव-आचाराणादीनां विषये पराशरस्मृत्यां विस्तरेण प्रतिपाद्यते । अत्र वयं परमहंसाः के कीदृशाः इति प्रमुखतया पश्यामः । केचन यदा जिज्ञासवः भवन्ति तदा एव संन्यासस्य परमहंसपदविं स्वीकुर्वन्ति । अन्ये केचन ज्ञानप्राप्त्यनन्तरं संन्यासं स्वीकृत्य परमहंसाः भूत्वा विराजन्ते ।

लोकभेदाः[सम्पादयतु]

आत्मलोकः अनात्मलोकः इति द्वौ लोकौ । बृहदारण्योपनिषदः आत्मलोकं पुनः त्रिविधं विभज्यते । बृहदारण्यकोपनिषदः तृतीये अध्याये एवम् उच्यते - लोकाः त्रिविधाः भवन्ति । १. मनुष्यलोकः, २. पित्रृलोकः,३. देवलोकः च । पुत्रलाभेन मनुष्यलोकं सार्थकं भवति । अन्यकेनापि न भवितुं अर्हति । सत्कर्मेण पितृलोकं प्राप्यते । विद्यया देवलोकप्राप्तिः च । बृहदारण्यके अस्मिन् भागे आत्मलोकविषये प्रतिपादनमस्ति "आत्मलोकसाक्षात्कारं विना इहलोकात् यः गच्छति सः तस्य अज्ञानकारणात् आत्मलोकानुभवार्थम् अवकाशः न प्राप्नोति । पुनः उपनिषदः एवं वदति आत्मा एव लोकः इति उपासनां करोतु इति, यः आत्मानं लोक इव पश्यति तस्य कर्माणि कदापि न क्षीयन्ते

आत्मलोकप्रशस्तिः[सम्पादयतु]

इहलोकवाससमये पुरुषेण मांसास्थिपिण्डात्मकदेहात् भिन्नं परमात्मस्वरूपः आत्मलोकः ज्ञातव्यः एव । एवम् अहम् ब्रह्मास्मि इति स्वानुभवज्ञानं प्राप्तव्यम् । तत् ज्ञानं विना यः मरणं प्राप्नोति सः आत्मलोकात्मकपरमात्मविषये अज्ञः एव भवति । अविद्यया आवृतः सः परलोकं प्राप्नोति । अतः शोकमोहादिक्लेशाः तं न त्यजन्ति, आत्मलोकः तेन अप्राप्तः एव भवति । आत्मोपासकः पुरुषः सुनिश्चितेन लक्ष्येण कर्म करोति । तानि कर्माणि तात्कालिकं भौतिकं फलं दत्त्वा न नश्यन्ति । तानि सर्वफलसमाहारात्मकं मोक्षं दत्त्वा उपासकपुरुषम् अनुगृह्णाति । बृहदारण्यके षष्ठे अध्याये पुनः एवं दृश्यते "वयं किमर्थं वेदान् पठामः? यज्ञयागादीनि कर्मानुष्ठानानि किमर्थं कुर्मः? सन्तत्या किं प्रयोजनम् ? अयम् आत्मा एषः एव अस्माकं लोकः, उपनिषदः वदति ये सन्ततिम् इच्छन्ति ते श्मशानं प्राप्नुवन्ति ये सन्ततिं न कांक्षन्ति ते अमृतत्त्वं प्राप्नुवन्ति इति । एवम् आत्मलोकं ये इच्छन्ति ते सर्वान् परित्यज्य संन्यस्यति इति उपनिषदः घोषयन्ति ।

आत्मलोकप्राप्त्युपायः[सम्पादयतु]

दृश्यते अनुभूयते इत्येव लोकपदस्य अर्थः । आत्मानुभवकांक्षिणः अवश्यमेव संन्यसितव्यम् इति उपनिषदः तात्पर्यम् । स्मृत्यपि एवं घोषयति -

ब्रह्मविज्ञानलाभाय परमहंसमाह्वयः
शान्तिदन्त्यदिभिः सर्वैः साधनैः सहितो भवेत्

ब्रह्मविज्ञानेच्छुः परमहंसः शमदमादिसर्वान् उपायान् स्वायत्तीकुर्याद् एव । अस्मिन् जन्मनि वा अथवा जन्मान्तरेण वा विधिपूर्वकं कृतस्य वेदानुष्ठानस्य फलात् एव उद्भूयते तस्य ब्रह्मज्ञानेच्छा, तद्र्थं संन्यासः स्वीक्रियते, एवं ज्ञानेच्छया संन्यस्यते तदेव विविदिषासन्न्यासं । ज्ञानस्य हेतुभूतः अयं संन्यासः द्विविधो भवतः. पुनर्जन्महेतुभूतः काम्यकर्माणां केवलं त्यागः एव एकविधं संन्यासम् । अपरं संन्यासस्य सर्वाणि बाह्यचिह्नानि च स्वीकृत्य प्रैषमन्त्रोच्चारणसहितं संन्यासाश्रमस्वीकरणमेव द्वितीयम् । भूलोकं भुवर्लोकं सुवर्लोकम् एवं लोकत्रयमपि मया त्यज्यते इत्येव प्रैषमन्त्रस्य अर्थः, प्रैषमन्त्रोच्चारणसहितं यः संन्यासं स्वीकरोति तस्य माता पत्नी च पुरुष जन्मार्थम् अर्हे भवतः, जिज्ञासु स्वयं तपस्वी ज्ञानी ब्रह्मनिष्ठः च भवति । त्यागः एव ब्रह्मानुभूतिप्राप्त्यर्थम् उपायः इति तैत्तिरीयोपनिषदः वचनम् । तैत्तिरीयोपनिषदः ४ अध्याये एवं दृश्यते

कर्मणा वा सन्तत्या वा धनेन वा अमृतत्वं न प्राप्नेति । त्यागेनैव अमृतत्वम् अनुभूयते इति, स्त्री अपि त्यागस्य अधिकारी भवति, मोक्षधर्म इत्येतस्य चतुर्द्धरी टीकायाम् अस्य विवरणम् अस्ति । भिक्षुकी इति पदविषये सुलभजनकयोः मध्ये प्रवृत्तं संवादमेव प्रकृतं, स्त्रीणां कृते विवाहस्य पूर्वं वा पत्युः मरणान्तरं वा संन्यास्वीकरणार्थम् अनुमतिः अस्ति, भिक्षायाचनं मोक्षशास्त्रश्रवणं एकान्तवासः ध्यानाभ्यासश्च तैः आचरणीयमेव । त्रिदण्डातिषु संन्यासचिह्नानि अपि ताः स्वीकर्तुम् अर्हन्ति, ब्रह्मसूत्रभाष्ये तृतीयोध्याये चतुर्थे पादे स्त्रीणां संन्यासविषये अङ्गीकारः पतिपाद्यते ।

देवताधिकरणे पत्नीमृतस्य पुरुषस्य संन्यासस्वीकारविषये चर्चा भवति तदा एव अस्य विषयस्य परामर्शः । स्त्रीसंन्यासस्य दृष्टान्ताय वाचक्नविं दर्शयति । सर्वोपरि बृहदारण्यके मैत्रेयी स्पष्टतां ददाति । पञ्चमोध्याये मैत्रेयी याज्ञ्यवल्क्यं पृच्छति मह्यम् अमृतत्वस्य प्राप्त्यर्थम् अप्रयोजनकरं धनसम्पत्तेः किं प्रयोजनम् ? भगवन् ! यद् सत्यं भवान् जानाति तत् मह्यमपि उपदिशतु इति । संन्यसाश्रमस्वीकारं विना आत्मज्ञानप्राप्तिः शक्यमेव अस्ति । ब्रह्मचारी, गृहस्थवानप्रस्थानां च कदापि संन्यासस्वीकरणाय किमपि प्रतिबन्धाः भवन्ति चेद् ते तेषां स्वाश्रमधर्मानुष्ठानसमये आत्मज्ञानाय मानसीककर्मत्यागं परिशीलितव्यमेव । श्रुतिस्मूतिपुराणादिषु लोकेषु च तातृशं तत्वज्ञानिनां दर्शनं नास्ति विरलम् । विविदिषासंन्यासस्य कथा एवं भवतु वयं विद्वद्संन्यासविषये विस्तरेण पश्यामः ।

विद्वत्संन्यासम्[सम्पादयतु]

श्रवणमनननिदिध्यसनम् इत्यादीन् उपायान् यः चिरकालं श्रद्धापूर्वकम् अनुष्ठाय आत्मतत्त्वं साक्षात्कृत्य अनुभोक्तुम् आरभते तादृशस्थित्यां केचन स्वीक्रीयते । अयं संन्यासमेव विद्वत्संन्यासं, बृहदारण्यके याज्ञवल्क्यः तादृशस्थितिं प्राप्तवानस्ति इति दृश्यते । वेदान्तविद्याविचक्षणः याज्ञवल्क्यः आरम्भकाले परमात्मसम्बद्धविषये वादप्रतिवादेषु आश्वलाति मुनिं जित्वा सः प्रापञ्चिकविषयेषु अतीवविरक्तिं प्राप्य अनन्तरम् अत्यन्तं सरल-विस्तृत-आत्मोपदेशेन महाराज जनकम् अनुगृहीतवान् । स्वप्रीयपत्नी मैत्रेयी आत्मदर्शनार्थम् अर्हा अस्ति इति ज्ञात्वा तस्यै तत्वोपदेशं दातुम् उद्युक्तः अभवत् । ध्रर्मपत्नेः आत्मदर्शनेच्छा तीव्रतरं भवतु इति धिया अग्रे स्व अनुष्ठानाय निश्चितसंन्यासविषये श्रावितवान् ।
अध्यात्मविषये धर्मपत्नीं बोधयित्वा सः संन्यासं स्वीकृतवान् । एतत् सर्वं बृहदारण्यकस्य ४अध्याये दृश्यते । संन्यासस्वीकरणेच्छया सः पत्नीं वदति प्रिये ! अहम् एतत् सर्वं त्यक्त्वा इतः गन्तुमिच्छामि इति ।
पुनः याज्ञवल्क्यः स्पष्टतया आत्मस्वरूपकथनेन मैत्रेय्याः आत्मजिज्ञासां निवारयति । उपनिषदः एतत् आत्मस्वरूपविवरणम् एवम् उपसंहरति प्रिये एतदेव अमृतत्वम् । एवं कथयन् सः महायोगी याज्ञवल्क्यः गृहं त्यक्त्वा गतवान् ।
बृहदारण्यकस्य ३ अध्याये कहोलब्राह्मणे विद्वत्संन्यासविषये प्रस्तावः दृश्यते । कोषीतः पुत्रः कहोलः एव अत्रत्य जीज्ञासुः । याज्ञवल्क्यः अचार्यः च । सर्वान्तर्यामिरूपेण प्रत्यक्षं प्रकाशमानः परमात्मनः मह्यम् उपदिशतु इति कहोलः याज्ञवल्क्यं वदति, जिज्ञासुनाम् आत्मायेव तत् सत्यस्वरूपपरमात्मा इति गुरुः उपदिशति ।क्षुत्पिपासाशोकमोहजराणात् अतिक्रम्य स्वयं प्रकाशस्वरूपः आत्मा एव वा सः? इति शिष्यः पुनः पृच्छति । तदा गुरुः एवं वदति स्वस्य आत्मरूपेण प्रकाशमानः तत् सत्यं ज्ञात्वा ब्राह्मणः पुत्रेच्छां, वित्तेच्छां, लोकेच्छां च त्यक्त्वा संन्यासस्य भिक्षांदेही भूत्वा जिवनं यापयति।

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=जीवन्मुक्तिविवेकः&oldid=419158" इत्यस्माद् प्रतिप्राप्तम्