जुबिन् गर्ग्
| जुबिन् गर्ग् | |
|---|---|
|
सन् २०२५ तमे वर्षे जुबिन् गर्ग् | |
| व्यैक्तिकतथ्यानि | |
| जन्मनाम | जुबिन् बोरठाकुर |
| ख्यातनाम | |
| जन्म |
१८, १९७२ तुरा, मेघालयः, भारत: |
| मरणम् |
१९ सेप्टेम्बर् २०२५ सिङ्गापुर् जनरल् अस्पतालम्, बुकित् मेराह, मध्य सिङ्गापुरः |
| सङ्गीतविद्या |
|
| वृत्तिः |
|
| वाद्यानि |
|
| सक्रियवर्षाणि | १९९२ – २०२५ |
| स्तरः |
|
जुबिन् गर्ग् (आङ्ग्ल: Zubeen Garg; १८ नवेम्बर् १९७२ – १९ सेप्टेम्बर् २०२५) असमः, भारतः देशस्य प्रसिद्धः गायकः आसीत्। सः एव सङ्गीतनिर्देशकः, गीतकारः, सङ्गीतकारः, चलचित्रनटः, चलचित्रनिर्माता, चलचित्रनिर्देशकः, पटकथालेखकः, वादकः, कविः च समाजसेवी च आसीत्।[५] सः असमीया, हिन्दी, बाङ्ग्ला, बोरो, राजबंशी, मिसिङ्, गारो, डिमासा, नेपाली, भोजपुरी, ओडिया, तमिल्, तेलुगू, कन्नड, आङ्ग्ल, संस्कृत, उर्दू इत्यादि भाषासु चत्वारिंशदधिकासु गीतानि गायति स्म।[६]
सन् १९९२ तमे वर्षे तस्य प्रथमं सङ्गीताल्बम् ‘‘अनामिका’’ प्रकाशितं, तस्मात् सः व्यावसायिकसङ्गीतक्षेत्रे प्रवेशं कृतवान्।[७][६]
बाङ्ग्ला चलचित्रे ‘‘शुधु तुमी’’ इत्यस्मिन् सः २००५ तमे वर्षे ‘‘श्रेष्ठसङ्गीतनिर्देशकः’’ पुरस्कारं प्राप्तवान्। ‘‘या आली’’ गीतस्य कृते सः २००६ तमे वर्षे ‘‘ग्लोबल् इण्डियन् फिल्म् अवार्ड् (GIFA)’’ तथा ‘‘स्टार्डस्ट् अवार्ड्’’ इत्यत्र ‘‘श्रेष्ठः पाश्र्वगायकः (पुरुषः)’’ इति पुरस्कारौ अपि अलभत। ‘‘Echoes of Silence’’ (आङ्ग्ल-खासी चलच्चित्रम्) इत्यस्य कृते सः राष्ट्रियचलच्चित्रपुरस्कारं (रजतकमलं) प्राप्तवान्।[८]
आधुनिकासमीयसङ्गीते नवधारां नीतवानिति कारणेन सः २०१४ तमे वर्षे ‘‘रेनेसाँ असम’’ इत्यस्मात् पुरस्कारं लब्धवान्।[९] २०२४ तमे वर्षे मेघालयविज्ञानप्रविधिविश्वविद्यालयेन तस्मै मानद् D.Litt उपाधिः प्रदत्ता। २०२५ तमे वर्षे बेल्तला-बोहागोत्सवसमितिना तस्मै आजीवनसाधनायाः सन्मानरूपेण भूपेन हाजरिका पुरस्कारः प्रदत्तः।
जुबिन् गर्ग् बहुवाद्यवादकः अपि आसीत्। सः गिटारम्, कीबोर्ड्, तबलम्, ढोलः, हार्मोनियम्, मण्डोलिन् इत्यादीनि वाद्यानि वादयितुं शक्नोति स्म।[१०] सः असमस्य अतिप्रसिद्धः तथा अधिकं पारिश्रमिकं लभमानः गायकः आसीत्।[११]
त्रिंशदधिकत्रये वर्षेषु तेन चत्वारिंशदधिकासु भाषासु प्रायः अष्टत्रिंशसहस्रं गीतानि रेकॉर्ड् कृतानि।[१२]
सप्टेम्बर् १९, २०२५ तमे दिवसे सः सिङ्गापुरे निधनं गतवान्।
अपि च
[सम्पादयतु]| विकिमीडिया कॉमन्स् मध्ये Zubeen Garg सम्बन्धिताः सञ्चिकाः सन्ति। |
सन्दर्भाः
[सम्पादयतु]- ↑ Goswami, Darshana (2025-09-22). "The wonder boy called Goldie". Thumbprint NE. आह्रियत 2025-09-22.[नष्टसम्पर्कः]
- ↑ Baruah, Sukrita (19 September 2025). "Zubeen da, voice of a generation, who listened to his own conscience". The Indian Express. आह्रियत 20 September 2025.
- ↑ "Singer Zubeen Garg died in Singapore while swimming, not during scuba diving: report". The Hindu. 2 Oct 2025. आह्रियत 5 Oct 2025.
- ↑ "Zubeen Garg is No More – Pratidin Time". Pratidin Time (in English). 19 September 2025. आह्रियत 19 September 2025.
- ↑ "जुबिन् गर्ग्". xobdo.org. आह्रियत 19 January 2013.[नष्टसम्पर्कः]
- 1 2 "About Zubeen Garg". Abhijit Borah. onlinesivasagar.com. आह्रियत 19 January 2013.[नष्टसम्पर्कः]
- ↑ "About Zubeen's debut album Anamika". futuresounds.com. आह्रियत 4 September 2015.
- ↑ "Awards won by Zubeen Garg". gomolo.com. Archived from the original on 8 October 2015. आह्रियत 4 September 2015.
- ↑ "जुबिन् गर्गाय ‘‘रेनेसाँ असम’’ पुरस्कारः प्रदत्तः". আমাৰ অসম. १३ मार्च २०१५.
- ↑ "Profile of Zubeen Garg – Singer, Music composer of Assam". assamspider.com. Archived from the original on 4 July 2017. आह्रियत 30 April 2017. Unknown parameter
|url-status=ignored (help) - ↑ "Barred from singing in Hindi, Assam singer leaves Bihu stage". The Indian Express (in English). 16 April 2017. आह्रियत 19 December 2020.
- ↑ "Thousands of fans bid adieu to Zubeen at Guwahati stadium". The Hindu (in en-IN). 21 September 2025. आह्रियत 23 September 2025.
- All articles with dead external links
- Articles with dead external links from December 2025
- Articles with invalid date parameter in template
- Articles with dead external links from October 2023
- Articles with dead external links from September 2025
- Pages using web citations with no URL
- Pages using citations with accessdate and no URL
- गायकाः