जैनदर्शने प्रमाणप्रमेयमीमांसा
जैनध्वजः | |
जैनधर्मस्य प्रतीकम् | |
धर्मावलम्बीनां संख्या | |
---|---|
प्रायः ५० लक्षजनाः | |
प्रवर्तकः | |
आदिनाथः | |
विस्तारः | |
भारतम्, बेल्जियम्, केनडा, हांग् कांग्, जपान्, सिङ्गापुरम्, उत्तर-अमेरिकाखण्डः | |
शिल्पकृतयः | |
जैनागमः | |
भाषा(ः) | |
प्राकृतम्, संस्कृतम्, कन्नड, तमिऴ्, गुजराती, हिन्दी |
‘मानाधीना मेयसिध्दिः’ इति अभियुक्तवचनानुगुण्येन मानस्वरुपं प्रथमतः विजिज्ञास्यते । तत्र जैनदर्शने प्रमाणसामान्यलक्षणं तु यथार्थज्ञानत्वम् । ‘प्र’ प्रकर्षेण संशयादिव्यच्छेदेन मीयते परि –च्छिद्यते वस्तुतत्वं येन तत्प्रमाणम् । अर्यतेऽधिगम्यत इत्यर्थो विषयस्तमनतिक्रम्य वर्तमानं (यथा – विस्थितरुपेण विषयपरिच्छेदि ) ज्ञानं प्रमाणमिति निर्गलितोऽर्थः ।
अत्र यथार्थपदेन संशयविपर्ययानध्यवसायानां व्युदासः । ज्ञानपदेन जडात्मनः सन्निकषदिः व्युदासः ।
केचन निर्दोषार्थैन्द्रियसन्निकर्षस्य प्रत्यक्षत्वं मन्वते । तदसारम् । सन्निकर्षस्य जडत्वेनाज्ञानाऽविरोधित्वेन अज्ञाननिवर्तकसामर्थ्याभावाच्च तस्याप्रामाण्यमेव । यथा अन्धकाराऽविरोधि घटः, नान्धकारनिवर्तकः अपि तु प्रकाशश्चान्धकारविरोधी तन्निवर्तकश्च दृष्टः तथैव सन्निकर्षेऽपि अज्ञानाविरोधि नाज्ञाननिवर्तकः । अत एव तस्य न प्रामाण्यम् । अपि तु ज्ञानस्याज्ञाननिवर्तकत्वात् भवति प्रामाण्यम् । तथा च सन्निकर्षस्य ज्ञानरुपत्वाभावात् न दोषः । तदुक्तं प्रमाणपरिभाषायाम् –
‘यथार्थज्ञानं प्रमाणम्’ इति ।
तथैवान्यत्र प्रमाणलक्षणं परिष्कृतम्-
‘स्वपरव्यवसायि ज्ञानं प्रमाणम्’ इति ।
स्वमात्माज्ञानस्वरुपं स्वभिन्नार्थं यथाव्वस्थितरुपेण अवस्यति निश्चिनोतीत्येवं शीलं यत्तत् स्वपरव्यवसायि, ‘ज्ञायते’ प्राधान्येन विशेषो गृह्यतेऽनेनेति ज्ञानं प्रमाणमित्यर्थः ।
धारावाहकज्ञानं, गृहीतग्रहणात्मकं स्मृत्यात्मकं ज्ञानमपि दर्शनेऽस्मिन् याथार्थ्यग्राहितया मानमुच्यते ।
अयमत्र निष्कर्षः-
ज्ञानं हि प्रदीप इव स्वपरप्रकाशस्वभावम् । न च स्वस्ंविदि तत्त्वमप्रसिध्दं ज्ञानस्य, ‘घटमहं वेद्मि’ इत्यादौ कर्तृकर्मवज्ज्ञप्तेरपि अवभासमानत्वात् । सन्निकर्षस्य सहकारित्वमात्रेण प्रामाण्यव्यवहारे आलोकस्य वस्तुग्रहणसहकारित्वेन तत्रापि प्रमाणत्वव्यवहारः दुष्परिहरः स्यात् । उक्तं च रत्नप्रभाचार्यैः –
- अर्थस्य प्रमितौ प्रसाधनपटु प्रोचुः प्रमाणं परे
- तेषामञ्जनभोजनाद्यपि भवेद् वस्तु प्रमाणं स्फुटम् ।
- आसन्नस्य तु मानता यदि तदा संवेदनस्यैव सा
- स्यादित्यन्धभुजङ्गरन्ध्रगमवत्तीर्थ्यैः श्रितं त्वन्मतम् ॥
- मानं शासति सन्निकर्षमपि ये कीदृक् प्रभो ! तदभ्रमः
- स्वाज्ञानः स्वयमेष यत्किमपरज्ञानं सृजेत् कुम्भवत् ।
- अन्येषां हि सृजेत्प्रकाशनमसौ दीपः प्रकाशात्मकः
- प्रत्यक्षे सहकारिताभ्युपगमं त्वेतस्य को वारयेत् ? ॥ इति ॥
प्रत्यक्षं परोक्षं चेति प्रमाणं द्विविधम् । तत्र प्रत्यक्षस्य पारमार्थिकसांव्यावहारिकरुपेण द्वैविध्यं प्रथितम् । तत्र पारमार्थिकप्रत्यक्षेऽपि केवलज्ञान-मनः पर्ययज्ञान-अवधिज्ञानभेदेन त्रैविध्यमस्ति । परोक्षं तु स्मृति-प्रत्यभिज्ञा-तर्क –अनुमान-आगमभेदेन पञ्चधा प्रकीर्तितम् ।
प्रत्यक्षपरोक्षभेदेन प्रमाणं द्विविधमित्युक्तम् । तत्र प्रत्यक्षं नाम अक्ष्णोति व्याप्नोति सकलद्रव्यक्षेत्रकालभावानित्यक्षो जीवस्तं प्रतिगतं साक्षादाश्रितमश्नाति भुङ्क्ते रुपादिसुखादिविषयान् अनेन आत्मा इत्यक्षं चक्षुरादि, मनश्च तत्प्रतिगतं निमित्तभावेनाश्रितं ज्ञानं प्रत्यक्षम् । ततश्च ‘अयं नीलः’ ‘ सुरभिर्गन्धः’ इत्यादिरुपेण अनुमानाद्यतिरेकेण इदंरुपतया परिच्छिनत्ति विषयमनेनेति साक्षात्करणं तथाभूतं ज्ञानं प्रत्यक्षमिति समुदितार्थः । साक्षात्करोमीति सार्वलौकिकानुभवसिध्दज्ञानत्वव्याप्यजातिमत्व्ं वा प्रत्यक्षत्वम् ।
परोक्षे पञ्चविधत्वमुक्तम् । तत्र अनुभवमात्रजन्यं तत्तोल्लेखि स्मरणम् । अनुभवस्मरणापेक्षमेकत्वाद्युल्लेखि प्रत्यभिज्ञानम् । व्याप्तिग्रहणं तर्कः । साधनात् साध्यसाधनमनुमानमुच्यते ।
तदपि स्वार्थपरार्थभेदेन द्विविधम् शाब्दज्ञानमागमः ।
एवं च प्रत्यक्षानुमानशब्दभेदेन प्रमाणत्रैविध्यानभ्युपगमेऽपि अनुमानगमयोः परोक्षभेदत्वेन परोक्षविशेषत्वेन च प्रामाण्यं विद्यत एव ।
प्रमाणम्
[सम्पादयतु]- प्रत्यक्षम् परोक्षम्
- पारमार्थिकम् सांव्यवहारिकम् स्मृतिःप्रत्यभिज्ञा तर्कः अनुमानम् आगमः
- केवलज्ञानम् मनःपर्ययज्ञानम् अवधिज्ञानम्
जैनदर्शने प्रमेयस्वरुपविमर्शः
[सम्पादयतु]द्विविधं विश्वं –जीवाजीवात्मकम् । नेश्वरोऽस्मिन् दर्शनेऽभ्युपेयते । चेतनोपयोगमयत्वं जीवलक्षणम् । अचेतनत्वमजीवसामान्यलक्षणम् । अजीवस्य तु (१) पुद्गलद्रव्यं (२) धर्मद्रव्यं (३) अधर्मद्रव्यं (४) कालद्रव्यं (५) आकाशद्रव्यं चेति पञ्चव्यक्तयः । एवं षड्द्रव्यात्मकमिदं विश्वम् । तदुक्तम् द्रव्यसंङ्ग्रहे –
- अजीवः पुनर्ज्ञेयः पुद्गालो धर्मोऽधर्म आकाशम् ।
- कालः पुदगलो मूर्तः रुपादिगुणो मूर्तयः शेषास्तु ॥ इति॥
जीवः
[सम्पादयतु]- जीव उपयोगमयः अमूर्तिः कर्ता स्वदेहपरिमाणः ।
- भोक्ता संसारस्थः सिध्दः स विसस्रोर्ध्वगतिः ॥ २॥
‘जीवः’ प्राणाधारकः, ‘उपयोगमयः’ ज्ञानवीर्यादिगुणः ‘अमूर्तिः’ रुपरसगन्धस्पर्शरहितः ‘कर्ता’ शुभाशुभकर्ता, ‘सदेहपरिमाणः’ कर्माधीनाप्तदेहसमपरिमाणः ‘भोक्ता’ शुभाशुभफलभोक्ता, ‘संसारस्थो’ भ्रमणशीलः, ‘सिध्दः’ साधनसम्पूर्त्यनन्तरं भाविकर्मविनाशेन सिध्द इत्युच्यमानः, ‘विसस्रोर्ध्वगतिः’ स्वभावत एव गमनशीलः (मुक्तौ) जीवशब्देन व्यपदिश्यते ।
अत्र ‘जीव’ पदेन देहात्मवादिचार्वाकनिरासः । ‘ज्ञानगुण’ इत्यनेन नैर्गुण्यवादिनः साङ्ख्याः परास्ताः । ‘अमूर्तिः’ (पञ्चभूतभिन्नदेहः) इत्यनेन चार्वाकनिरासः । ‘कर्ता’ इत्यनेन बुध्दिगतमेव कर्तृत्वं चैतन्येऽवभासते इति वादिनः साङ्ख्याः निरस्ताः । ‘स्वदेहपरिमाण’ इत्यनेन विभ्वात्मवादिनो नैय्यायिकाः निरस्ताः । ‘भोक्ता’ इत्यनेन साङ्ख्यबौध्दनिरासः । ‘जीवः सदा शुध्द’ इति वादिनां साङ्ख्यशैवानां मतनिरसाय संसारस्थ’ इत्युक्तम् । ‘सिध्द’ इत्यनेन मुक्त्यभाववादिनश्चार्वाकाः मीमांसकाश्च निरस्ताः । ‘विसस्त्रोर्ध्वगतिः’ इत्यनेन मुक्तजीवः कस्मिंश्चन एव प्रदेशे तिष्ठतीति वादनिरासः ।
उपयोगमय इत्यत्र उपयोगो दर्शनज्ञानोपयोगभेदेन द्विविधः । दर्शनोपयोगः चतुर्विधः-
१. चक्षुर्दर्शनम् २. अचक्षुर्दर्शनम् ३. अवधिदर्शनम् ४. केवलदर्शनम् चेति । अत्र दर्शनशब्दः अस्फुटनिर्विकल्पकज्ञानवाचकः । चक्षुषा यदि पदार्थज्ञानं भवति तर्हि चक्षुर्दर्शनमिति कथ्यते । इतरेन्द्रियैश्चेत् ज्ञानं ज्ञायते तदा अचक्षुर्दर्शनमुच्यते । आत्मन्येव कालादिविषयकं जायमानमिन्द्रियनिरपेक्षमवधिदर्शनमुच्यते । कालत्रयवृत्तिवस्तुविषयकसामान्यज्ञानं केवलज्ञानमुच्यते । निरुपितोऽयं जीवः बध्द-योगसिध्द –मुक्तभेदेन त्रिविधः ।
अजीवनिरुपणम्
धर्माधर्मपुद्गलकालाकाशभेदेन अजीवाः पञ्चविधाः ज्ञेयाः । तत्र-
- १. धर्मो रतिहेतुर्जगद्व्यापी।
- २. अधर्मः स्थितिहेतुर्व्यापक एव उक्तं च –
- गतिपरिणतानां धर्मः पुद्ग्लजीवानां गमनसहकारि ।
- तोयं यथा मत्स्यानाम् अगच्छतां नैव स नयति ॥
- स्थानयुतानामधर्मः पुद्गलजीवानां स्थानसहकारी ।
- छाया यथा पथिकानां गच्छतां नैव स धरति ॥
- ३. पुद्गलो रुपरसगन्धस्पर्शवद् द्रव्यम् । तद द्विविधं परमाणुरुपं सङ्घातरुपं चेति । उक्तं च पञ्चास्तिकाये –
- स्कन्धाश्च स्कन्धदेशाश्च स्कन्धप्रदेशाश्च भवन्ति परमाणवः ।
- इति ते चतुर्विकल्पाः पुदगलकाया ज्ञातव्याः ॥ 74 ॥ इति ।
पुदगलद्रव्याणि हि कदाचित् स्कन्धपर्यायेण, कदाचित् स्कन्धदेशपर्यायेण, कदाचित् स्कन्धप्रदेशपर्यायेण कदाचित् परमाणुत्वेनात्र तिष्ठन्ति ।
अनन्तानन्तपरमाण्वादब्धोप्येकः स्कन्धनाम् पर्यायः । तदर्धं स्कन्धदेशः । तदर्धार्धं स्कन्धप्रदेशो नाम पर्यायः । एवं भेदवशाद् द्वयणुकस्कन्धादनन्ता स्कन्धप्रदेशपर्यायाः । निर्विभागौकप्रदेशः स्कन्धस्याभेदपरमाणुरेकः । पुनरपि द्वयोः परमाण्वोः संघातादेके द्वयणुकस्कन्धपर्यायः । एवं सङ्घातवशादनन्ताः स्कन्धपर्यायाः । एवं भेदसङ्घाताभ्यामप्यनन्ता भवन्ति । उक्तोऽयमर्थः-
- स्कन्धः स्कलसमस्तस्तस्य त्वर्धं भणन्ति देश इति ।
- अर्धार्धं च प्रदेशः परमाणुश्चैवाविभागी ॥75॥ इति ।
स्पर्शरसवर्णगन्धगुणविशेषैः षटस्थानयतितवृध्दिहानिभिः पूरणगलनधर्मत्वात् स्कन्धव्यक्त्या विर्भावतिरोभावाभ्यामपि पुरणगलनोपपत्तेः परमाणव एव पुद्गला इति व्यवह्रियन्ते । अस्तित्वप्रमेयत्वादयस्तु द्रव्यमात्रसाधारणाः । स्पर्शरसगन्धवर्णगुणास्तु पुद्गलद्रव्य एव विद्यन्ते ।
तदुक्तम् –
- बादरसौक्ष्म्यगतानां स्कन्धानां पुद्गल इति व्यवहारः ।
- ते भवन्ति षटप्रकारास्त्रैलोक्यं यैः निष्पन्नम् ॥ इति ।
४. कालः अभूद् भवति भविष्यतीति व्यवहारहेतुरणुरुपः । उक्तं च तत्त्वार्थाधिगमसूत्रे –
वर्तनापरिणामक्रियाः परत्वापरत्वे च कालस्य ॥ इति ।
कालस्य तु पुद्गलस्येव नानेकप्रदेशवृत्तित्वमभ्युपेयते । उक्तं च प्रवचनसारे –
- समयस्त्वप्रदेशः प्रदेशमात्रस्य हव्यजातस्य ।
- व्यतिपततः स वर्तते प्रदेशमाकाशद्रव्यस्य ॥ 46॥
- व्यतिपततस्तं देशं तत्समः समयस्ततः परः पूर्वः ।
- योऽर्थः स कालः समय उत्पन्नप्रध्वंसी ॥ ४७ ॥
अन्यत्र च –
- काल इति च व्यपदेशः सद्भावप्ररुपको भवति नित्यः ।
- उत्पन्नप्रध्वंस्यपरो दीर्घान्तरस्थायी ॥
५. आकाश एकोऽनन्तप्रदेशवृत्तिः । लोकाकाशालोकाकाशभेदेन स द्विविधः । अवकाशदानयोग्यत्वमेव आकाशसामान्यलक्षणम् । यस्मिन् प्रदेशे जीव- पुद्गल धर्म-अधर्म- कालाख्याः पदार्थाः सन्ति स लोकाकाश इति कथ्यते । ततः परतो विद्यमान एवालोकाकाशः योऽनन्तः ।
उक्तं च पञ्चास्तिकाये –
सर्वेषां जीवानां शोषाणां तथैव पुद्गलानां च ।
यद्ददाति विवरमखिलं तल्लोके भवत्याकाशम् ॥ ९०॥
जीवाः पुदगलकायाः धर्माधर्मौ च लोकतोऽनन्ये ।
ततोऽनन्यदन्यदाकाशमन्तव्यतिरिक्तम् ॥९१॥
विवृतोऽयमर्थः द्रव्यसङ्ग्रहेऽपि-
अवकाशदानयोग्यं जीवादीनां विजानीहि आकाशम् ।
जैनं लोकाकाशम् अलोकाकाशमिति द्विविधम् ॥
धर्माधर्मौ कालः पुदगलजीवाश्च सन्ति यावति ।
आकाशे स लोकः ततः परत आलोक उक्तः ॥
एवं षडभेदमिदं जीवाजीवप्रभेदतो द्रव्यम् । कालमपहायान्ये अस्तिकायशब्दसमलङ्कृता भवन्ति । कालस्य तु बहुप्रदेशप्रचयलक्षणकायत्वं नास्ति । उक्तोऽयमर्थः पञ्चास्तिकाये यथा –
एते कालाकाशे धर्माधर्मौ च पुदगला जीवाः ।
लभन्ते द्रव्यसंज्ञां कालस्य तु नास्ति कायत्वम् ॥ १०२॥
विवृतश्चायमर्थः द्रव्यसङ्ग्रहेऽपि –
एवं षडभेदमिदं जीवाजीवप्रभेदतो द्रव्यम् ।
उक्तं कालविमुक्तं ज्ञातव्या पञ्चस्तिकायास्तु ॥ २३॥
सन्ति यतस्तेनैते अस्तीति भणन्ति जिनवरा यस्मात्
काया इव बहुदेशाः तस्मात्कायास्तिकायाश्च ॥। २४॥
भवन्त्यसङ्ख्या प्रदेशाः कालस्यैको न् तेन कायः ॥ २५ ॥
पदार्थतत्त्वविज्ञान्मुक्तिः
मोक्षोपयोगित्वेन नवपदार्थविज्ञानमावश्यकमित्याह कुन्दकुन्दाचार्यः –
जीवाजीवौ भावौ पुण्यं पापं चास्त्रवस्तयोः ।
संवरनिर्जरबन्धा मोक्षश्च भवन्ति ते अर्थाः ॥ १०८॥
तत्त्वार्थसूत्रे उमास्वामी तु सप्तपदार्थानाह । यथा –
जीवाजीवावस्त्रवबन्धसंवरनिर्जरामोक्षास्तत्त्वम् ॥ इति ।
तस्याभिप्रायविशेषाविष्करणात्पूर्वमेषां सामान्यलक्षणमुच्यते । जीवः ज्ञानदर्शनसुखवीर्यादिगुणः । अजीवः तुजीवओपभोग्यः । आस्रवः तद्भोगोपकरणमिन्दियादिकम् । ज्ञानजननेन पुरुषं विषयेषु आस्रावयतीति इन्द्रियादिकमेव संवर उच्यते ।
आत्मकर्मणोरन्योन्यप्रवेशानुप्रवेशात्मको बन्धः । स च घातिकाऽघातिकचतुष्टयभेदात् द्विविधः । आदौ भवोऽयं मूलप्रकृतिबन्ध इत्यपि गीयते । घातिकचतुष्टयरुपमाद्यं जीवगुणानां ज्ञानानन्दादीनां प्रतिबन्धकम् । द्वितीयं शरीरसंस्थानतदभिमानततस्थितिप्रयुक्तसुखदुःखहेतुभूतम् । तत्राद्यं यद्यपि चतुर्विधम् । ज्ञानावरणीयं –दर्शनावरणीयं मोहनीयमान्तरीयमिति । तत्र सम्यग्ज्ञानं न मोक्षहेतुरिति विपर्ययो ज्ञानावरणीयं कर्मोच्यते । आर्हतदर्शनाभ्यासात् न मुक्तिः इति विपर्ययो दर्शनावरणीयम् । बहुषु विप्रतिषिध्देषु तीर्थंकरैरुपदर्शितेषु मोक्षमार्गेषु विशेषानवधारणं मोहनीयम् । सम्यग् मोक्षमार्गे प्रवृत्तानां तत्प्रत्यूहकरं विज्ञानम् आन्तरीयकम् ।
एतच्चतुर्विधं कर्म श्रेयोहन्तृत्वात् घातिकर्मेत्युच्यते ।
तथाऽपि ज्ञानदर्शनसुखवीर्यगुणकस्य जीवस्य ज्ञानानन्दादिगुणानां मोक्षदशायामाविर्भविष्यतां संसारदशायां प्रतिघातकानि प्रवाहानादीनि पापरुपाणि चत्वारि घातिकर्माणीति विधान्तरेणापि चातुर्विध्यमप्युक्तम् एकदेशीयैः ।
अघातिकर्म शरीरसंस्थान –तत् –स्थितितत्प्रयुक्तसुखदुःखहेतुभूतम् इत्युक्तम् । यद्यप्यघातिककर्म चतुर्विधम् । वेदनीयं नामिकं गोत्रिकमायुष्कं चेति । तत्र ममेदं ज्ञातव्यमस्तीत्यभिमानो वेदनीयम् । एतन्नामाहमस्मीत्यभिमानो नामिकम्, विशिष्टवंशे जातोऽस्मीत्यभिमानो गोत्रिकं, शरीरयात्रानिमित्तं कर्मायुष्कमिति वा ।
सक्रियस्य शरीरस्य पवनपावनवशाद् ईषद्धनीभावो शरीराकारेण परिणामो वेदनीयं, तच्छक्तिमिति तस्मिन् बीजे कललाख्यद्रवावस्थाया बुद्बुदावस्थायाश्चारम्भिकक्रियाविशेषो नामिकं, बीजस्य शरीराकारशक्तिर्गोत्रिकं, शुक्लशोणीतव्यतिकरे जाते मिलितं तदुभयमायुष्कम्, तदेतच्चतुर्विधं कर्म तत्त्वज्ञानाविघातकत्वेन निः श्रेयसहेतुपरिपन्थिहेतुत्वाभावात् अघातिकमाणीति व्यपदिश्यते । तथाऽपि शरीरसंस्था –तदभिमान-तत्स्थिति-तत्प्रयुक्तसुखादिनिमित्तानि पुण्यमिश्रितत्वात् पुण्यरुपाणि चत्वार्यघातिकर्माणि तदेकदेशिमतानुवादोऽयमित्यविरोधः इति द्रष्टव्यम् ।
आस्त्रवनिरोधलक्षणः संवरः । इन्द्रियनिग्रह इत्यपरे । ‘एकदेशकर्मसंक्षयलक्षणा निर्जरा’ इति सर्वार्थसिध्दिकारः । ‘निर्जरो मोक्षसाधनं तप’ इत्यपरे । तच्च तपो-मल-पङ्कघारण्स्नानमौन –वीरासन-तिष्ठद्भोजन- तप्तशिलारोहण-केशोन्मूलनादिरुपमिति ज्ञातव्यम् । कृत्स्नकर्मवियोगो मोक्षः । सन्ततोर्ध्वगतिर्मुक्तिरित्येके ।
अत्र सर्वस्य फलस्यात्माधीनत्वात् तस्य प्रथमं निर्देशः तदुपभोगार्थमेव विद्यमानत्वात् ततोऽप्राधान्याच्चाजीवस्य तदनन्तरं निर्देशः । तदुभयविषयत्वात् तदनन्तरमास्रवग्रहणम् । तत्पूर्वकत्वात् तदनन्तरं बन्धाभिधानम् । संवृतस्य बन्धाभावात् तत्प्रत्यनीकप्रतिपत्यर्थं तदनन्तरं संवरवचनम् । संवरे सति निर्जरोपपत्तेः ततः निर्जरानिर्देशः । अन्ते प्राप्यत्वादन्ते मोक्षाभिधानम् । पुण्यपापग्रहणेन नव पदार्था विज्ञेया इति कुन्दकुन्दाचार्यप्रभृतयः । तर्योरास्रवे बन्धे चान्तर्भावात् पृथग् ग्रहणमनावश्यकमित्यपरे ।
सप्तभङ्गिवादः
[सम्पादयतु]विश्वमिदं सप्तभङ्गि प्रत्येकं सप्तप्रकारकम् । तथा हि अनन्तवीर्यवचनम् –
तद्विधानविवक्षायां स्यादस्तीति मतिर्भवेत् ।
स्यान्नास्तीति प्रयोगः स्यात् तन्निषेधे विवक्षिते ।
क्रमेणोभयवाञ्छायां प्रयोगः समुदायवान् ।
युगपत्तद्विवक्षायां स्यादवाच्यमशक्तितः ।
आद्यावाच्यविवक्षायां पञ्चमो भङ्ग इष्यते ।
अन्त्यावाच्यविवक्षायां षष्ठभङ्गसमुद्भवः ।
समुच्चयेन युक्तश्च सप्तमो भङ्ग इष्यते ॥ इति ।
उक्तं च कुन्दकुन्दाचार्येण –
स्यादस्ति नास्त्युभयमवक्तव्यं पुनश्च तत्त्त्रितयम् ।
द्रव्यं खलु सप्तभङ्गमादेशवशेन सम्भवति ॥ १४ ॥
तथा च सदित्येकः प्रकारः । असदिति द्वितीयः । द्वयं सदसदात्मकमिति तृतीयः । अद्वयं अवक्तव्यमिति चतुर्थः । द्वयाद्वयमिति पञ्चमषष्ठौ । तत्र सदवक्तव्यं चेति पञ्चमः । असदवक्तव्यं चेति षष्ठः । अतत्सर्वमिति सप्तमः ।
अत्र सप्तस्वपि भङ्गेषु स्यादिति पदं पूरणीयम् । ततश्च स्यात्सत् । स्यादसत् । स्यात्सदसत् । स्यादवक्तव्यम् । स्यात्सदव्यक्तं च । स्यादसदवक्तव्यं च स्यात्सदसदवक्तव्यं चेति सप्तप्रकारं सिध्दयति ।
अवश्यं चैतदेवम् । स्यादस्ति, स्यान्नास्ति, स्यादस्ति नास्ति च, स्यादवक्तव्यं, स्यादस्तिचा-वक्तव्यं, स्यान्नास्ति चावक्तव्यं च, स्यादस्ति च नास्ति चावक्तव्यं चेति क्षपणकोक्तेः ।
अत्र च स्याच्छब्दस्तिङ्न्तप्रतिरुपकोऽनेकान्तद्योतको निपातः । उक्तं च-
वाक्येष्वनेकान्तद्योती गम्यं प्रति विशेषणम् ।
स्यान्निपातोऽर्थयोगित्वात् तिङ्न्तप्रतिरुपकः ॥
यदि पुनरनेकान्तद्योतकः स्याच्छब्दो न भवेत्, स्यादस्तीति वाक्ये स्यात्पदमनर्थकं स्यात् । तदिदमुक्तम् –अर्थयोगित्वात् इति । अनेकान्तद्योतकत्वे तु स्यादस्ति कथञ्चिदस्तीति स्यात्पदात्कथञ्चिदर्थोऽस्तीत्यनेनानुक्तः प्रतीयत इति नानर्थक्यम् ।
एवं च (१) सत्त्वम् (२) असत्त्वम् (३) सदसत्त्वम् (४) सदसद्विलक्षणत्वम् (५) सत्त्वे सति तद्विलक्षणत्वम् (६) असत्त्वे सति तद्विलक्षणत्वम् (७) सदसत्वे सति सदसद्विलक्षणत्वम् इत्याद्यनियतसप्तप्रकारता विश्वस्योक्ता भवतीति विज्ञेयम् ।
जैनदर्शनसारः
[सम्पादयतु]जैनदर्शनसङ्ग्रहस्त्वेवमकारि जिनदत्तसूरिणा – बलभोगोपभोगानामुभयोर्दानलाभयोः । अन्तरायस्तथा निद्रा भीरज्ञानं जिगुप्सितम् । हिंसा रत्यरती रागद्वेषावविरतिः स्मरः । शोको मिथ्यात्वमेतेऽष्टादशदोषा न यस्य सः । जिनो देवो गुरुः सम्यक् तत्त्वज्ञानोपदेशकः । ज्ञानदर्शनचारित्र्याण्यपवर्गस्य वर्तनी । स्याद्वादस्य प्रमाणे द्वे प्रत्यक्षमनुमाऽपि च । नित्यानित्यात्मकं सर्वं नव तत्वानि स्प्त वा । जीवाजीवौ पुण्यपापे चास्रवः संवरोऽपि च । बन्धो निर्जरणं मुक्तिरेषां व्याख्याधुनोच्यते । चेतनालक्षणो जीवः स्यादजीवस्तदन्यकः । सत्कर्म पुद्गलाः पुण्यं पापं तस्य विपर्ययः । आस्रवः स्रोतसो द्वारं संवृणोतीति संवरः । प्रवेशः कर्मणां बन्धो निर्जरस्तद्वियोजनम् । अष्टकर्मक्षयान्मोक्षोऽयान्तर्भावश्च कैश्चन । पुण्यस्य संवरे पापस्यास्रवे क्रियते पुनः । लब्धानन्तचतुष्कस्य लोकागूढस्य चात्मनः । क्षीणाष्टकर्मणो मुक्तिर्निर्व्यावृत्तिर्जिनोदिता । सरजोहरणा भैक्षभुजो लुञ्चितमूर्धजाः । श्वेताम्बरा क्षमाशीलाः निस्सङ्गाः जैनसाधवः । लुञ्चिताः पुच्छिकाहस्ता पाणिपात्रा दिगम्बराः । ऊर्ध्वशिनो गृहे दातुर्द्वितीयाः स्युर्जिनर्षयः । भुङ्क्ते न केवलीन स्त्री मोक्षमेति दिगम्बरः । प्राहुरेषामयं भेदो महान् श्वेताम्बरैः सह ।
मोक्षसाधनानि
[सम्पादयतु]सर्वकर्मबन्धापगमानन्त्रमूर्ध्वगतिर्मुक्तिः इत्युक्तम् । मुक्तिसाधनानि कानीति विमर्शनीयम् । तत्र मोक्षमार्गोपायाः के इत्यत्रापि विप्रतिपत्तिः । ज्ञानादेव चारित्रनिरपेक्षात्तत्प्राप्तिरिति केचित् । श्रध्दानमात्रादेवेत्यपरे ज्ञाननिरपेक्षाच्चारित्रमात्रादेव इत्यन्ये । व्याध्यभिभूतस्य तद्विनिवृत्त्युपायभूतभेषजविषयव्यस्तज्ञानादिसाधनात्वाभाववद् व्यस्तमेव ज्ञानादिर्मोक्षप्राप्त्युपायो न भवति ।
किं तर्हि तत त्रितयं समुदितम्-
सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः ॥ इति ॥
मोक्षः
सर्वार्थसिध्दौ ‘निरवशेषनिराकृतकर्ममलकलङ्कस्याशरीरस्यात्मनोऽचिन्त्य स्वाभाविकज्ञानादिगुणमव्याबाधसुखमात्यन्तिकम् अवस्थानन्तरं मोक्ष’ इति मोक्षलक्षणं परिष्कृतम् ।
आत्मा हि कर्मणा बन्धकेन यदा प्रविमुच्यते तदोर्ध्वगतिमान् भवति । लोकान्तमधिगम्य स तत्र केवलज्ञानदर्शनस्वरुपः अनन्तमतीन्द्रियं सुखमनुभवति । तदुक्तम्
कर्ममलविप्रमुक्त ऊर्ध्वं लोकस्यान्तमधिगम्य ।
स सर्वज्ञानदर्शी लभते सुखमतीन्द्रियमनन्तम् ॥ २८॥
विमर्शः
यदार्हतैर्विश्वस्य सप्तप्रकारत्वमभ्युपेयते तन्मन्दम् । वस्तुनः प्रकारत्रैविध्यमात्रसम्भवात् । क्वचिद् वस्तु सन्नेवान्यत्र देशेऽसन् भवति । अद्योत्पन्नः प्राक्तनकाले चासन् भवति । एवं च देशकालभेदेन सदसत्वं विरुध्दमप्युररीक्रियते । नान्यथा । अन्यथा सकलप्रमाणविरोधात् व्याघातादिदोषः ।
तथा हि –
यदि भवता विश्वं सत्यमिति वादिनां चरणावाश्रियेते तर्हि असत्त्वपक्षः निराकृत एव । न हि सत्त्ववादिनोऽसत्त्वं विश्वस्याङ्गीकुर्वते । असत्त्वं प्रतिषिध्द्य हि सत्त्वं तैस्समर्थ्यते । ततश्च सत्त्वस्थापनं असत्त्वप्रतिषेधसमनन्तरमेवेति सत्त्वाभ्युपगमेऽसत्त्ववादः खण्डित एव । एवमसत्त्वपक्षाभ्युपगमे उररीकृतः सत्त्वपक्षः प्रतिषिध्दः स्यात् । तथा च न कथं व्याघातः । उक्तरीत्या पक्षत्रयस्यैव प्रामाणिकत्वेनानुभवविरुध्दसप्तप्राकाराभ्युपगमे कथं न प्रत्यक्षादिमानविरोधश्च ? तस्मात्सप्तभङ्गिवादोऽनुपपन्न एव । तदुक्तं – ‘नैकस्मिन्नसम्भवात्’ ।
अथ देहपरिमाणत्वं यदात्मनोऽभ्युपेयते तदप्यसाधु । तथा हि । गजदेहस्थः कश्चनात्मा कर्मपरिपाकेनोत्तरजन्मनि पिपीलिकाशरीरं लभते । तत्र आत्मनोऽल्पता स्यात् । एवं पिपीलिकाशरीरस्थस्य गजशरीरप्राप्तावधिकता च स्यात् । तस्मात्कायपरिमाणत्वं नाङ्गीकारार्हम् ।
अथोच्यते योऽयमात्मा यद्यच्छरीरगतः तत्तत्परिमाण इति तदप्यचारु । तथात्वे विकारित्वेनानित्यत्वप्रसङ्गः ।
किञ्चालोकाकाशे नित्योर्ध्वगतिर्मुक्तिरिति यत्प्रतिपाद्यते तदप्यप्रमाणकम् । सन्ततोर्ध्वगतिरुपविकारसत्त्वेन गतेश्च दुःखेतत्वेन दुःखात्मविनाशयोरापातात् ।
यदत्रोक्तं पशुहिंसादिप्रतिपादको वेदोऽप्रमाणमिति सममेतत् केशोल्लुञ्चनादिप्रतिपादकवचनस्यापीति जैनागमाप्रमाण्यापातात् । केशोल्लुञ्चनस्य स्वमात्रहिंसापरत्वेन वैषम्यकथनं तु हिंसाया अवर्जनीयत्वेन तत्प्रतिपादकशास्राचार्याणामवैदुष्याऽपरिहारात् । तस्मादपेशलमिदं जैनमतम् इति स्थितम् ॥
सन्दर्भाः
[सम्पादयतु]F.N. Page 1 1. प्र. प. P-4 2. प्र.न्. त. P-19 Page. 2 1. प्र.प. p-10 2. प्र.प. p-10 Page 3 1. P-26 2. द्र.सं.प. p-2 Page 4 1. अमूर्तिः वर्णा रसाः पञ्च, गन्धौ द्वौ, स्पर्शा अष्ट निश्चयाज्जीवे । नो सन्त्यमूर्तिस्ततो व्यवहारान्मूर्तिर्बन्धतः । Page 5 1. द्र.सं .p-26 2. P-126 3. पं. आं . pa-127 Page 6 1. पं. अ. P-129 2. त. सू.5.22 p-119 3. P-195 4. पं.आ. p-161 5. P-149, 150 Page 7 1.p-38 2.p-162 3. p-41 4.p-45 5. p-45 6. पं. अ. P-171 Page 8 1. 1.4.p-7 2. श्री. न्या.टि. p-3999 Page 9 1. P-14 2. श्री. सु.टि.उ.व.p – 4000 Page 10 1. P-30 Page 11 1. स. सि.सा.वि. उ.व. p-28 Page 12 1. स.सि. p-104 2. P-2 3. पं. अ.प्-62 Page 13 1. ब्र.सू .2.2.33