जैविकसंश्लेषणक्रियाकारकम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


DFRL/DRDO इति संस्थाजनाः किञ्चित् जैविकसंश्लेषणक्रियाकारकं संवर्धितवन्तः । अनेन विविधप्रकारकाः सूक्ष्मरायनिकाः जैविकबह्वङ्गिनः जैविकसंरक्षकलेपनानि, कूर्चपटलानि (packing films) इत्यादीनां नियन्त्रणे, मापने, संस्करणे सहायाः भवन्ति ।

प्रत्यग्रोत्पन्नानां कपाटिकायाः सुस्थितिं संरक्षितुं परिसरप्रियसन्दंशिकाव्यवस्थानां परिवर्तनार्थमपि उपयोगाय भवति । इयं व्यवस्था तु सरला अन्यत्र नेतुमपि सुकरा मूल्यमपि अवाप्तिसाध्यम् अस्ति । मेदसः सथानान्तरम्, पायसस्थितकरणम् (emulsion stabilizers), मन्द्रकारकम्, (thickeners), विलम्बनकारकम्, (suspending agents), लसिकाकारकम्, तन्तुमूलानि, हैड्रोकोल्लाय्ड् मिश्रणम् अधिकवेगस्य वपनक्रियया जिह्वारुचिवर्धकोत्पन्नानाम् उत्पादनार्थं च अस्य उपकरणस्य उपयोगः भवति । तपनस्य वृद्धिं १५०डिग्री सें. पर्यन्तमपि संयोजयितुं शक्यते । अनेन तापं, वायुभारं, भ्रामकं (torque) क्षोभस्य गतिं, (agitation speed), पूरणप्रमाणम्, जडपरिसरे आवर्तनक्रियां च प्रशस्तीकर्तुं शक्यते । किन्तु एताः परिमितयः संश्लेशितानां जैविकपालिमर् उपरि अवलम्बिताः भवन्ति ।

निसर्गे यथेष्टम् उपलभ्यामानानि कृषिमूलस्य जैविकपालिमार् वस्तूनां मौल्यसंवर्धनार्थम् एतत् यन्त्रं योग्यं भवति । अपि च अनेकेषाम् आहारसंस्कारोद्यमानां निर्माणार्थमपि अवकाशं कल्पयति । अनया व्यवस्थया संश्लेषितपटलैः सम्भव्यमानां पारिसरिकां हानिम्, अनारोग्यतां च गणनीयप्रमाणेण न्यूनीकरोति । आहारविज्ञानिनः, ससारजनकरसायनशास्त्रज्ञाः, पालिमर्तज्ञा, संशोधनाभिवृद्धिनिरताः च अस्य क्रियाकारकयन्त्रस्य प्रयोजनं प्राप्तुमर्हन्ति ।

सम्बद्धाः लेखाः[सम्पादयतु]